रामायणम्/किष्किन्धाकाण्डम्/सर्गः ४०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← सर्गः ३९ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ४१ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चत्वारिंशः सर्गः ॥४-४०॥

अथ राजा समृद्ध अर्थः सुग्रीवः प्लवगेश्वरः ।
उवाच नरशार्दूलम् रामम् परबलार्दनम् ॥४-४०-१॥

आगता विनिविष्टाः च बलिनः कामरूपिणः ।
वानरेन्द्रा महेन्द्र आभा ये मत् विषय वासिनः ॥४-४०-२॥

त इमे बहु विक्रान्तैः बलिभिः भीम विक्रमैः ।
आगता वानरा घोरा दैत्य दानव संनिभाः ॥४-४०-३॥

ख्यात कर्म अपदानाः च बलवन्तो जित क्लमाः ।
पराक्रमेषु विख्याता व्यवसायेषु च उत्तमाः ॥४-४०-४॥
पृथिवि अंबु चरा राम नाना नग निवासिनः ।
कोटि ओघाः च इमे प्राप्ता वानराः तव किंकराः ॥४-४०-५॥

निदेश वर्तिनः सर्वे सर्वे गुरु हिते स्थिताः ।
अभिप्रेतम् अनुष्ठातुम् तव शक्ष्यन्ति अरिंदम ॥४-४०-६॥

त इमे बहु साहस्रैः अनेकैः बहु विक्रमैः ।
आगता वानरा घोरा दैत्य दानव संनिभाः ॥४-४०-७॥

यत् मन्यसे नरव्याघ्र प्राप्त कालम् तत् उच्यताम् ।
तत् सैन्यम् त्वत् वशे युक्तम् आज्ञापयितुम् अर्हसि ॥४-४०-८॥

कामम् एषाम् इदम् कार्यम् विदितम् मम तत्त्वतः ।
तथा अपि तु यथा युक्तम् आज्ञापयितुम् अर्हसि ॥४-४०-९॥

तथा ब्रुवाणम् सुग्रीवम् रामो दशरथात्मजः ।
बाहुभ्याम् संपरिष्वज्य इदम् वचनम् अब्रवीत् ॥४-४०-१०॥

ज्ञायताम् सौम्य वैदेही यदि जीवति वा न वा ।
स च देशो महाप्राज्ञ यस्मिन् वसति रावणः ॥४-४०-११॥

अधिगम्य तु वैदेहीम् निलयम् रावणस्य च ।
प्राप्त कालम् विधास्यामि तस्मिन् काले सह त्वया ॥४-४०-१२॥

न अहम् अस्मिन् प्रभुः कार्ये वानरेन्द्र न लक्ष्मणः ।
त्वम् अस्य हेतुः कार्यस्य प्रभुः च प्लवगेश्वर ॥४-४०-१३॥

त्वम् एव आज्ञापय विभो मम कार्य विनिश्चयम् ।
त्वम् हि जानासि यत् कार्यम् मम वीर न संशयः ॥४-४०-१४॥

सुहृद् द्वितीयो विक्रान्तः प्राज्ञः काल विशेष वित् ।
भवान् अस्मत् हिते युक्तः सुहृद् आप्तो अर्थवित्तमः ॥४-४०-१५॥

एवम् उक्तः तु सुग्रीवो विनतम् नाम यूथपम् ।
अब्रवीत् राम सांनिध्ये लक्ष्मणस्य च धीमतः ॥४-४०-१६॥
शैलाभम् मेघ निर्घोषम् ऊर्जितम् प्लवगेश्वरम् ।

सोम सूर्य निभैः सार्धम् वानरैः वानरोत्तम ॥४-४०-१७॥
देश काल नयैः युक्तः विज्ञः कार्य विनिश्चये ।
वृतः शत सहस्रेण वानराणाम् तरस्विनाम् ॥४-४०-१८॥
अधिगच्छ दिशम् पूर्वाम् स शैल वन काननाम् ।

तत्र सीताम् च वैदेहीम् निलयम् रावणस्य च ॥४-४०-१९॥
मार्गध्वम् गिरि दुर्गेषु वनेषु च नदीषु च ।

नदीम् भागीरथीम् रम्याम् सरयूम् कौशिकीम् तथा ॥४-४०-२०॥
कालिंदीम् यमुनाम् रम्याम् यामुनम् च महागिरिम् ।
सरस्वतीम् च सिंधुम् च शोणम् मणि निभ उदकम् ॥४-४०-२१॥
महीम् कालमहीम् चैव शैल कानन शोभिताम् ।
ब्रह्ममालान् विदेहान् च मालवान् काशि कोसलान् ॥४-४०-२२॥
मागधाम् च महाग्रामान् पुण्ड्रान् अंगाम् तथैव च ।
भूमिम् च कोशकाराणाम् भूमिम् च रजत आकराम् ॥४-४०-२३॥

सर्वम् च तत् विचेतव्यम् मार्गयद्भिः ततः ततः ।
रामस्य दयिताम् भार्याम् सीताम् दशरथः स्नुषाम् ॥४-४०-२४॥

समुद्रम् अवगाढान् च पर्वतान् पत्तनानि च ।
मंदरस्य च ये कोटिम् संश्रिताः केचित् आलयाः ॥४-४०-२५॥
कर्ण प्रावरणाः चैव तथा च अपि ओष्ठ कर्णकाः ।
घोर लोह मुखाः चैव जवनाः च एक पादकाः ॥४-४०-२६॥
अक्षया बलवंतः च तथैव पुरुष आदकाः ।
किराताः तीक्ष्ण चूडाः च हेमाभाः प्रिय दर्शनाः ॥४-४०-२७॥
आम मीन अशनाः चापि किराता द्वीप वासिनः ।
अंतर् जल चरा घोरा नरव्याघ्रा इति स्मृताः ॥४-४०-२८॥
एतेषाम् आश्रयाः सर्वे विचेयाः कानन ओकसः ।
गिरिभिर् ये च गम्यन्ते प्लवनेन प्लवेन च ॥४-४०-२९॥

यत्नवन्तो यव द्वीपम् सप्त राज्य उपशोभितम् ।
सुवर्ण रूप्यकम् द्वीपम् सुवर्ण आकर मण्डितम् ॥४-४०-३०॥
यव द्वीपम् अतिक्रम्य शिशिरो नाम पर्वतः ।
दिवम् स्पृशति शृन्गेण देव दानव सेवितः ॥४-४०-३१॥
एतेषाम् गिरि दुर्गेषु प्रपातेषु वनेषु च ।
मार्गध्वम् सहिताः सर्वे राम पत्नीम् यशस्विनीम् ॥४-४०-३२॥

ततो रक्त जलम् प्राप्य शोण आख्यम् शीघ्र वाहिनीम् ।
गत्वा पारम् समुद्रस्य सिद्ध चारण सेवितम् ॥४-४०-३३॥
तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च ।
रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४०-३४॥

पर्वत प्रभवा नद्यः सुभीम बहु निष्कुटाः ।
मार्गितव्या दरीमन्तः पर्वताः च वनानि च ॥४-४०-३५॥

ततः समुद्र द्वीपान् च सुभीमान् द्रष्टुम् अर्हथ ।
ऊर्मिमंतम् महारौद्रम् क्रोशंतम् अनिल उद्धितम् ॥४-४०-३६॥

तत्र असुरा महाकायाः छायाम् गृह्णन्ति नित्यशः ।
ब्रह्मणा समनुज्ञाता दीर्घ कालम् बुभुक्षिताः ॥४-४०-३७॥
तम् काल मेघ प्रतिमम् महोरग निषेवितम् ।
अभिगम्य महानादम् तीर्थेन एव महोदधिम् ॥४-४०-३८॥

ततो रक्तजलम् भीमम् लोहितम् नाम सागरम् ।
गत्वा प्रेक्ष्यथ ताम् चैव बृहतीम् कूटशाल्मलीम् ॥४-४०-३९॥

गृहम् च वैनतेयस्य नाना रत्न विभूषितम् ।
तत्र कैलास संकाशम् विहितम् विश्वकर्मणा ॥४-४०-४०॥

तत्र शैल निभा भीमा मन्देहा नाम राक्षसाः ।
शैल शृंगेषु लंबन्ते नाना रूपा भयावहाः ॥४-४०-४१॥

ते पतन्ति जले नित्यम् सूर्यस्य उदयनम् प्रति ।
अभितप्ताः च सूर्येण लंबन्ते स्म पुनः पुनः ॥४-४०-४२॥
निहता ब्रह्म तेजोभिः अहनि अहनि राक्षसाः ।

ततः पाण्डुर मेघाभम् क्षीरौदम् नाम सागरम् ॥४-४०-४३॥
गत्वा द्रक्ष्यथ दुर्धर्षा मुक्ता हारम् इव ऊर्मिभिः ।

तस्य मध्ये महा श्वेतो ऋषभो नाम पर्वतः ॥४-४०-४४॥
दिव्य गन्धैः कुसुमितै आचितैः च नगैः वृतः ।
सरः च राजतैः पद्मैः ज्वलितैः हेम केसरैः ॥४-४०-४५॥
नाम्ना सुदर्शनम् नाम राजहंसैः समाकुलम् ।

विबुधाः चारणा यक्षाः किन्नराः स अप्सरो गणाः ॥४-४०-४६॥
हृष्टाः समधिगच्छन्ति नलिनीम् ताम् रिरंसवः ।

क्षीरोदम् समतिक्रम्य ततो द्रक्ष्यथ वानराः ॥४-४०-४७॥
जलोदम् सागरम् शीघ्रम् सर्व भूत भयावहम् ।

तत्र तत् कोपजम् तेजः कृतम् हयमुखम् महत् ॥४-४०-४८॥
अस्य आहुः तन् महावेगम् ओदनम् स चराचरम् ।

तत्र विक्रोशताम् नादो भूतानाम् सागर ओकसाम् ।
श्रूयते च असमर्थानाम् दृष्ट्वा तत् वडवा मुखम् ॥४-४०-४९॥

स्वादु उदस्य उत्तरे देशे योजनानि त्रयोदश ।
जातरूप शिलो नाम सुमहान् कनक प्रभः ॥४-४०-५०॥

तत्र चन्द्र प्रतीकाशम् पन्नगम् धरणी धरम् ।
पद्म पत्र विशालाक्षम् ततो द्रक्ष्यध वानराः ॥४-४०-५१॥
आसीनम् पर्वतस्य अग्रे सर्व भूत नमस्कृतम् ।
सहस्र शिरसम् देवम् अनंतम् नील वाससम् ॥४-४०-५२॥

त्रिशिराः कांचनः केतुः तालः तस्य महात्मनः ।
स्थापितः पर्वतस्य अग्रे विराजति स वेदिकः ॥४-४०-५३॥

पूर्वस्याम् दिशि निर्माणम् कृतम् तत् त्रिदशेश्वरैः ।
ततः परम् हेममयः श्रीमान् उदय पर्वतः ॥४-४०-५४॥
तस्य कोटिः दिवम् स्पृष्ट्वा शत योजनम् आयता ।
जातरूपमयी दिव्या विराजति स वेदिका ॥४-४०-५५॥

सालैः तालैः तमालैः च कर्णिकारैः च पुष्पितैः ।
जातरूपमयैः दिव्यैः शोभते सूर्य सन्निभैः ॥४-४०-५६॥

तत्र योजन विस्तारम् उच्छ्रितम् दश योजनम् ।
शृंगम् सौमनसम् नाम जातरूपमयम् ध्रुवम् ॥४-४०-५७॥

तत्र पूर्वम् पदम् कृत्वा पुरा विष्णुः त्रिविक्रमे ।
द्वितीयम् शिखरम् मेरोः चकार पुरुषोत्तमः ॥४-४०-५८॥

उत्तरेण परिक्रम्य जंबू द्वीपम् दिवाकरः ।
दृश्यो भवति भूयिष्ठम् शिखरम् तन् महोच्छ्रयम् ॥४-४०-५९॥

तत्र वैखानसा नाम वालखिल्या महर्षयः ।
प्रकाशमाना दृश्यन्ते सूर्य वर्णाः तपस्विनः ॥४-४०-६०॥

अयम् सुदर्शनो द्वीपः पुरो यस्य प्रकाशते ।
तस्मिन् तेजः च चक्षुः च सर्व प्राणभृताम् अपि ॥४-४०-६१॥

शैलस्य तस्य पृष्ठेषु कंदरेषु वनेषु च ।
रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४०-६२॥

कांचनस्य च शैलस्य सूर्यस्य च महात्मनः ।
आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते ॥४-४०-६३॥

पूर्वम् एतत् कृतम् द्वारम् पृथिव्या भुवनस्य च ।
सूर्यस्य उदयनम् चैव पूर्वा हि एषा दिक् उच्यते ॥४-४०-६४॥

तस्य शलस्य पृष्ठेषु निर्झरेषु गुहासु च ।
रावणः सह वैदेह्या मार्गतव्या ततः ततः ॥४-४०-६५॥

ततः परम् अगम्या स्यात् दिक् पूर्वा त्रिदश आवृता ।
रहिता चन्द्र सूर्याभ्याम् अदृश्या तिमिर आवृता ॥४-४०-६६॥

शैलेषु तेषु सर्वेषु कंदरेषु वनेषु च ।
ये च न उक्ता मयोद्देशा विचेया तेषु जानकी ॥४-४०-६७॥

एतावत् वानरैः शक्यम् गन्तुम् वानर पुंगवाः ।
अभास्करम् अमर्यादम् न जानीमः ततः परम् ॥४-४०-६८॥

अभिगम्य तु वैदेहीम् निलयम् रावणस्य च ।
मासे पूर्णे निवर्तध्वम् उदयम् प्राप्य पर्वतम् ॥४-४०-६९॥

ऊर्ध्वम् मासात् न वस्तव्यम् वसन् वध्यो भवेन् मम ।
सिद्ध अर्थाः संनिवर्तध्वम् अधिगम्य च मैथिलीम् ॥४-४०-७०॥

महेन्द्र कांताम् वन षण्ड मण्डिताम्
दिशम् चरित्वा निपुणेन वानराः ।
अवाप्य सीताम् रघु वंशज प्रियाम्
ततो निवृत्ताः सुखिनो भविष्यथ ॥४-४०-७१॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे चत्वारिंशः सर्गः ॥४-४०॥