रामायणम्/किष्किन्धाकाण्डम्/सर्गः ३३

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ३२ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ३४ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः ॥४-३३॥

अथ प्रतिसंआदिष्टो लक्ष्मणः परवीरहा ।
प्रविवेश गुहाम् रम्याम् किष्किंधाम् राम शासनात् ॥४-३३-१॥

द्वारस्था हरयः तत्र महाकाया महाबलाः ।
बभूवुः लक्ष्मणम् दृष्ट्वा सर्वे प्रांजलयः स्थिताः ॥४-३३-२॥

निःश्वसन्तम् तु तम् दृष्ट्वा क्रुद्धम् दशरथ आत्मजम् ।
बभूवुः हरयः त्रस्ता न च एनम् पर्यवारयन् ॥४-३३-३॥

स तम् रत्नमयीम् दिव्याम् श्रीमान् पुष्पित काननाम् ।
रम्याम् रत्न समाकीर्णाम् ददर्श महतीम् गुहाम् ॥४-३३-४॥

हर्म्य प्रासाद संबाधाम् नाना रत्नोपशोभिताम् ।
सर्व काम फलैः वृक्षैः पुष्पितैः उपशोभिताम् ॥४-३३-५॥

देव गंधर्व पुत्रैः च वानरैः काम रूपिभिः ।
दिव्य माल्य अम्बर धारैः शोभिताम् प्रिय दर्शनैः ॥४-३३-६॥

चन्दन अगरु पद्मानाम् गन्धैः सुरभि गन्धिताम् ।
मैरेयाणाम् मधूनाम् च सम्मोदित महा पथाम् ॥४-३३-७॥

विंध्य मेरु गिरि प्रख्यैः प्रासादैः न एक भूमिभिः ।
ददर्श गिरि नद्यः च विमलाः तत्र राघवः ॥४-३३-८॥

अंगदस्य गृहम् रम्यम् मैन्दस्य द्विविदस्य च ।
गवयस्य गवाक्षस्य गजस्य शरभस्य च ॥४-३३-९॥
विद्युन्मालेः च संपातेः सूर्याक्षस्य हनूमतः ।
वीरबाहोः सुबाहोः च नलस्य च महात्मनः ॥४-३३-१०॥
कुमुदस्य सुषेणस्य तार जाम्बवतोः तथा ।
दधिवक्त्रस्य नीलस्य सुपाटल सुनेत्रयोः ॥४-३३-११॥
एतेषाम् कपि मुख्यानाम् राज मार्गे महात्मनाम् ।
ददर्श गृह मुख्यानि महासाराणि लक्ष्मणः ॥४-३३-१२॥

पाण्डुर अभ्र प्रकाशानि गन्ध माल्य युतानि च ।
प्रभूत धन धान्यानि स्त्री रत्नैः शोभितानि च ॥४-३३-१३॥

पाण्डुरेण तु शैलेन परिक्षिप्तम् दुरासदम् ।
वानरेन्द्र गृहम् रम्यम् महेन्द्र सदन उपमम् ॥४-३३-१४॥
शुल्कैः प्रासाद शिखरैः कैलास शिखर उपमैः ।
सर्व काम फलैः वृक्षैः पुष्पितैः उपशोभितम् ॥४-३३-१५॥
महेन्द्र दत्तैः श्रीमद्भिः नील जीमूत संनिभैः ।
दिव्य पुष्प फलैः वृक्षैः शीत च्छायैः मनोरमैः ॥४-३३-१६॥
हरिभिः संवृत द्वारम् बलिभिः शस्त्र पाणिभिः ।
दिव्य माल्य आवृतम् शुभ्रम् तप्त कांचन तोरणम् ॥४-३३-१७॥
सुग्रीवस्य गृहम् रम्यम् प्रविवेश महाबलः ।
अवार्यमाणः सौमित्रिः महाअभ्रम् इव भास्करः ॥४-३३-१८॥

स सप्त कक्ष्या धर्मात्मा यान आसन समावृताः ।
प्रविश्य सुमहत् गुप्तम् ददर्श अंतःपुरम् महत् ॥४-३३-१९॥
हैम राजत पर्यन्कैः बहुभिः च वर आसनैः ।
महा अर्ह आस्तरण उपेतैः तत्र तत्र समावृतम् ॥४-३३-२०॥

प्रविशन् एव सततम् शुश्राव मधुर स्वनम् ।
तंत्री गीत समाकीर्णम् सम ताल पदाक्षरम् ॥४-३३-२१॥

बह्वीः च विविध आकारा रूप यौवन गर्विताः ।
स्त्रियः सुग्रीव भवने ददर्श स महाबलः ॥४-३३-२२॥

दृष्ट्वा अभिजन संपन्नाः तत्र माल्य कृत स्रजः ।
वर माल्य कृत व्यग्रा भूषण उत्तम भूषिताः ॥४-३३-२३॥
न अतृप्तान् न अति च व्यग्रान् न अनुदात्त परिच्छदान् ।
सुग्रीव अनुचरान् च अपि लक्षयामास लक्ष्मणः ॥४-३३-२४॥

कूजितम् नूपुराणाम् च कंचनीम् निःस्वनम् तथा ।
स निशम्य ततः श्रीमान् सौमित्रिः लज्जितो अभवत् ॥४-३३-२५॥

रोष वेग प्रकुपितः श्रुत्वा च आभरण स्वनम् ।
चकार ज्या स्वनम् वीरो दिशः शब्देन पूरयन् ॥४-३३-२६॥

चारित्रेण महाबाहुः अपकृष्टः स लक्ष्मनः ।
तस्थौ एकांतम् आश्रित्य राम शोक समन्वितः ॥४-३३-२७॥

तेन चाप स्वनेन अथ सुग्रीवः प्लवगाधिपः ।
विज्ञाय आगमनम् त्रस्तः स चचाल वर आसनात् ॥४-३३-२८॥

अंगदेन यथा मह्यम् पुरस्तात् प्रतिवेदितम् ।
सुव्यक्तम् एष संप्रप्तः सौमित्रिः भ्रातृ वत्सलः ॥४-३३-२९॥

अंगदेन समाख्यतो ज्या स्वनेन च वानरः ।
बुबुधे लक्ष्मणम् प्राप्तम् मुखम् च अस्य व्यशुष्यत ॥४-३३-३०॥

ततः ताराम् हरि श्रेष्ठः सुग्रीवः प्रिय दर्शनाम् ।
उवाच हितम् अव्यग्र त्रास संभ्रांत मानसः ॥४-३३-३१॥

किम् नु रुट् कारणम् सुभ्रु प्रकृत्या मृदु मानसः ।
स रोष इव संप्राप्तो येन अयम् राघवानुजः ॥४-३३-३२॥

किम् पश्यसि कुमारस्य रोष स्थानम् अनिन्दिते ।
न खलु अकारणे कोपम् आहरेत् नरपुंगवः ॥४-३३-३३॥

यदि अस्य कृतम् अस्माभिः बुध्यसे किंचित् अप्रियम् ।
तत् बुध्या संप्रधार्य आशु क्षिप्रम् एव अभिधीयताम् ॥४-३३-३४॥

अथवा स्वयम् एव एनम् द्रष्टुम् अर्हसि भामिनी ।
वचनैः स्वांत्व युक्तैः च प्रसादयितुम् अर्हसि ॥४-३३-३५॥

त्वत् दर्शने विशुद्ध आत्मा न स कोपम् करिष्यति ।
न हि स्त्रीषु महात्मानः क्वचित् कुर्वन्ति दारुणम् ॥४-३३-३६॥

त्वया स्वांत्वैः उपक्रांतम् प्रसन्न इन्द्रिय मानसम् ।
ततः कमलपत्राक्षम् द्रक्ष्याअमि अहम् अरिंदमम् ॥४-३३-३७॥

सा प्रस्खलंती मद विह्वल अक्षी
प्रलंब कांची गुण हेम सूत्रा ।
सलक्षणा लक्ष्मण संनिधानम्
जगाम तारा नमित अंग यष्टिः ॥४-३३-३८॥

स ताम् समीक्ष्य एव हरि ईश पत्नीम्
तस्थौ उदासीनतया महात्मा ।
अवाङ्मुखो आभूत् मनुजेन्द्र पुत्रः
स्त्री सन्निकर्षात् विनिवृत्त कोपम् ॥४-३३-३९॥

सा पान योगात् च निवृत्त लज्जा
दृष्टि प्रसादात् च नरेन्द्र सूनोः ।
उवाच तारा प्रणय प्रगल्भम्
वाक्यम् महार्थम् परिसांत्व रूपम् ॥४-३३-४०॥

किम् कोप मूलम् मनुजेन्द्र पुत्र
कः ते न सन्तिष्ठति वाक् निदेशे ।
कः शुष्क वृक्षम् वनम् आपतन्तम्
दवाग्निम् आसीदति निर्विशंकः ॥४-३३-४१॥

स तस्य वचनम् श्रुत्वा सांत्व पूर्वम् अशंकितः ।
भूयः प्रणय दृष्टार्थम् लक्ष्मणो वाक्यम् अब्रवीत् ॥४-३३-४२॥

किम् अयम् काम वृत्तः ते लुप्त धर्मार्थ संग्रहः ।
भर्ता भर्तृ हिते युक्ते न च एवम् अवबुध्यसे ॥४-३३-४३॥

न चिंतयति राज्यार्थम् सः अस्मान् शोक परायणान् ।
स अमात्य परिषत् तारे कामम् एव उपसेवते ॥४-३३-४४॥

स मासान् चतुर कृत्वा प्रमाणम् प्लवगेश्वरः ।
व्यतीतान् तान् मद उदग्रो विहरन् न अवबुध्यते ॥४-३३-४५॥

न हि धर्मार्थ सिद्ध्यर्थम् पानम् एवम् प्रशस्यते ।
पानात् अर्थस्य कामः च धर्मः च परिहीयते ॥४-३३-४६॥

धर्म लोपो महान् तावत् कृते हि अप्रति कुर्वतः ।
अर्थ लोपः च मित्रस्य नाशे गुणवतो महान् ॥४-३३-४७॥

मित्रम् हि अर्थ गुण श्रेष्ठम् सत्य धर्म परायणम् ।
तत् द्वयम् तु परित्यक्तम् न तु धर्मे व्यवस्थितम् ॥४-३३-४८॥

तत् एवम् प्रस्तुते कार्ये कार्यम् अस्माभिः उत्तरम् ।
यत् कार्यम् कार्य तत्त्वज्ञे त्वम् उदाहर्तुम् अर्हसि ॥४-३३-४९॥

सा तस्य धर्मार्थ समाधि युक्तम्
निशम्य वाक्यम् मधुर स्वभावम् ।
तारा गतार्थे मनुजेन्द्र कार्ये
विश्वास युक्तम् तम् उवाच भूयः ॥४-३३-५०॥

न कोप कालः क्षितिपाल पुत्र
न च अपि कोपः स्व जने विधेयः ।
त्वत् अर्थ कामस्य जनस्य तस्य
प्रमादम् अपि अर्हसि वीर सोढुम् ॥४-३३-५१॥

कोपम् कथम् नाम गुण प्रकृष्टः
कुमार कुर्यात् अपकृष्ट सत्त्वे ।
कः त्वत् विधः कोप वशम् हि गच्छे
सत्त्व अवरुद्धः तपसः प्रसूतिः ॥४-३३-५२॥

जानामि कोपम् हरि वीर बन्धोः
जानामि कार्यस्य च काल संगम् ।
जानामि कार्यम् त्वयि यत् कृतम् नः
तत् च अपि जानामि यत् अत्र कार्यम् ॥४-३३-५३॥

तत् च अपि जानामि यथा अविषह्यम्
बलम् नरश्रेष्ठ शरीरजस्य ।
जानामि यस्मिन् च जने अवबद्धम्
कामेन सुग्रीवम् अस्तकम् अद्य ॥४-३३-५४॥

न काम तंत्रे तव बुद्धिः अस्ति
त्वम् वै यथा मन्यु वशम् प्रपन्नः ।
न देश कालौ हि न च अर्थ धर्मौ
अवेक्षते काम रतिः मनुष्यः ॥४-३३-५५॥

तम् काम वृत्तम् मम सन्निकृष्टम्
काम अभियोगात् च विमुक्त लज्जम् ।
क्षमस्व तावत् पर वीर हन्तः
तव भ्रातर्म वानर वंश नाथम् ॥४-३३-५६॥

महर्षयो धर्म तपोभिरामाः
कामा अनुकामाः प्रति बद्ध मोहाः ।
अयम् प्रकृत्या चपलः कपिः तु
कथम् न सज्जेत सुखेषु राजा ॥४-३३-५७॥

इति एवम् उक्त्वा वचनम् महार्थम्
सा वानरी लक्ष्मणम् अप्रमेयम् ।
पुनः स खेदम् मद विह्वलाक्षी
भर्तुर् हितम् वाक्यम् इदम् बभाषे ॥४-३३-५८॥

उद्योगः तु चिर आज्ञप्तः सुग्रीवेण नरोत्तम ।
काम्स्य अपि विधेयेन तव अर्थ प्रति साधने ॥४-३३-५९॥

आगता हि महा वीर्या हरयः काम रूपिणः ।
कोटि शत सहस्राणि नाना नग निवासिनः ॥४-३३-६०॥

तत् आगच्छ महाबाहो चारित्रम् रक्षितम् त्वया ।
अच्छलम् मित्र भावेन सताम् दरा अवलोकनम् ॥४-३३-६१॥

ताराया च अभ्यनुज्ञात त्वरया चा अपि चोदितः ।
प्रविवेश महाबाहुः अभ्यंतरम् अरिन्दमः ॥४-३३-६२॥

ततः सुग्रीवम् आसीनम् कांचने परम आसने ।
महाअर्ह आस्तरणोपेते ददर्श आदित्य संनिभम् ॥४-३३-६३॥
दिव्य आभरण चित्रांगम् दिव्य रूपम् यशस्विनम् ।
दिव्य माल्यांबर धरम् महेन्द्रम् इव दुर्जयम् ॥४-३३-६४॥
दिव्य आभरण माल्याभिः प्रमदाभिः समावृतम् ।
संरब्धतर रक्ताक्षो बभूव अंतक संनिभः ॥४-३३-६५॥

रुमाम् तु वीरः परिरभ्य गाढम्
वर आसनस्थो वर हेम वर्णः ।
ददर्श सौमित्रिम् अदीन सत्त्वम्
विशाल नेत्रः स विशाल नेत्रम् ॥४-३३-६६॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः ॥४-३३॥