रामायणम्/किष्किन्धाकाण्डम्/सर्गः ६२

विकिस्रोतः तः
Jump to navigation Jump to search


श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्विषष्ठितमः सर्गः ॥४-६२॥

एवम् उक्त्वा मुनिश्रेष्ठम् अरुदम् भृश दुःखितः ।
अथ ध्यात्वा मुहूर्तम् तु भगवान् इदम् अब्रवीत् ॥४-६२-१॥

पक्षौ च ते प्रपक्षौ च पुनः अन्यौ भविष्यतः ।
चक्षुषी चैव प्राणाः च विक्रमः च बलम् च ते ॥४-६२-२॥

पुराणे सुमहत् कार्यम् भविष्यम् हि मया श्रुतम् ।
दृष्टम् मे तपसा चैव श्रुत्वा च विदितम् मम ॥४-६२-३॥

राजा दशरथो नाम कश्चित् इक्ष्वाकु वर्धनः ।
तस्य पुत्रो महातेजा रामो नाम भविष्यति ॥४-६२-४॥

अरण्यम् च सह भ्रात्रा लक्ष्मणेन गमिष्यति ।
तस्मिन् अर्थे नियुक्तः सन् पित्रा सत्य पराक्रमः ॥४-६२-५॥

नैर्ऋतो रावणो नाम तस्य भार्याम् हरिष्यति ।
राक्षसेन्द्रो जनस्थानात् अवध्यः सुर दानवैः ॥४-६२-६॥

सा च कामैः प्रलोभ्यन्ती भक्ष्यैः भोज्यैः च मैथिली ।
न भोक्ष्यति महाभागा दुःख मग्ना यशस्विनी ॥४-६२-७॥

परमान्नम् च वैदेह्या ज्ञात्वा दास्यति वासवः ।
यत् अन्नम् अमृत प्रख्यम् सुराणाम् अपि दुर्लभम् ॥४-६२-८॥

तत् अन्नम् मैथिली प्राप्य विज्ञाय इन्द्रात् इदम् तु इति ।
अग्रम् उद्धृत्य रामाय भू तले निर्वपिष्यति ॥४-६२-९॥

यदि जीवति मे भर्ता लक्ष्मणो वा अपि देवरः ।
देवत्वम् गतयोः वा अपि तयोः अन्नम् इदम् तु इति ॥४-६२-१०॥

एष्यन्ति प्रेषिताः तत्र राम दूताः प्लवंगमाः ।
आख्येया राम महिषी त्वया तेभ्यो विहंगम ॥४-६२-११॥

सर्वथा तु न गंतव्यम् ईदृशः क्व गमिष्यसि ।
देश कालौ प्रतीक्षस्व पक्षौ त्वम् प्रतिपत्स्यसे ॥४-६२-१२॥

उत्सहेयम् अहम् कर्तुम् अद्य एव त्वाम् स पक्षकम् ।
इह स्थः त्वम् तु लोकानाम् हितम् कार्यम् करिष्यसि ॥४-६२-१३॥

त्वया अपि खलु तत् कार्यम् तयोः च नृप पुत्रयोः ।
ब्राह्मणानाम् गुरूणाम् च मुनीनाम् वासवस्य च ॥४-६२-१४॥

इच्छामि अहम् अपि द्रष्टुम् भ्रातरौ राम लक्ष्मणौ ।
न इच्छे चिरम् धारयितुम् प्राणान् त्यक्ष्ये कलेवरम् ।
महर्षि तु तत् अब्रवीत् इदम् दृष्ट तत्त्व अर्थ दर्शिनः ॥४-६२-१५॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे द्विषष्ठितमः सर्गः ॥४-६२॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कडियाँ[सम्पाद्यताम्]