रामायणम्/किष्किन्धाकाण्डम्/सर्गः १

विकिस्रोतः तः
Jump to navigation Jump to search
रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः २ →


श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे प्रथमः सर्गः ॥४-१॥

स ताम् पुष्करिणीम् गत्वा पद्म उत्पल झषाकुलाम् ।
रामः सौमित्रि सहितो विललाप अकुलेन्द्रियः ॥४-१-१॥

तत्र दृष्ट्वैवा ताम् हर्षात् इन्द्रियाणि चकम्पिरे ।
स कामवशम् आपन्नः सौमित्रिम् इदम् अब्रवीत् ॥४-१-२॥

सौमित्रे शोभते पम्पा वैदूर्य विमल उदका ।
फुल्ल पद्म उत्पलवती शोभिता विविधैः द्रुमैः ॥४-१-३॥

सौमित्रे पश्य पम्पायाः काननम् शुभ दर्शनम् ।
यत्र राजन्ति शैला वा द्रुमाः स शिखरा इव ॥४-१-४॥

माम् तु शोकाभि सन्तप्तम् आधयः पीडयन्ति वै ।
भरतस्य च दुःखेन वैदेह्या हरणेन च ॥४-१-५॥

शोकार्तस्य अपि मे पम्पा शोभते चित्र कानना ।
व्यवकीर्णा बहु विधैः पुष्पैः शीतोदका शिवा ॥४-१-६॥

नलिनैः अपि संछन्ना हि अत्यर्थ शुभ दर्शना ।
सर्प व्याल अनुचरिता मृग द्विज समाकुला ॥४-१-७॥

अधिकम् प्रविभाति एतत् नील पीतम् तु शाद्वलम् ।
द्रुमाणाम् विविधैः पुष्पैः परिस्तोमैः इव अर्पितम् ॥४-१-८॥

पुष्प भार समृद्धानि शिखराणि समन्ततः ।
लताभिः पुष्पित अग्राभिः उपगूढानि सर्वतः ॥४-१-९॥

सुख अनिलोऽयम् सौमित्रे कालः प्रचुर मन्मथः ।
गन्धवान् सुरभिर् मासो जात पुष्प फल द्रुमः ॥४-१-१०॥

पश्य रूपाणि सौमित्रे वनानाम् पुष्प शालिनाम् ।
सृजताम् पुष्प वर्षाणि वर्षम् तोयमुचाम् इव ॥४-१-११॥

प्रस्तरेषु च रम्येषु विविधाः कानन द्रुमाः  ।
वायु वेग प्रचलिताः पुष्पैः अवकिरन्ति गाम् ॥४-१-१२॥

पतितैः पतमानैः च पादपस्थैः च मारुतः ।
कुसुमैः पश्य सौमित्रे क्रीडतीव समन्ततः ॥४-१-१३॥

विक्षिपन् विविधाः शाखा नगानाम् कुसुमोत्कटाः ।
मारुतः चलित स्थानैः षट्पदैः अनुगीयते ॥४-१-१४॥

मत्त कोकिल सन्नादैः नर्तयन् इव पादपान् ।
शैल कन्दर निष्क्रान्तः प्रगीत इव च अनिलः ॥४-१-१५॥

तेन विक्षिपता अत्यर्थम् पवनेन समन्ततः ।
अमी संसक्त शाखाग्रा ग्रथिता इव पादपाः ॥४-१-१६॥

स एव सुख संस्पर्शो वाति चन्दन शीतलः ।
गन्धम् अभ्यवहन् पुण्यम् श्रम अपनयो अनिलः ॥४-१-१७॥

अमी पवन विक्षिप्ता विनन्दन्ती इव पादपाः ।
षट्पदैः अनुकूजद्भिः वनेषु मधु गन्धिषु ॥४-१-१८॥

गिरि प्रस्थेषु रम्येषु पुष्पवद्भिः मनोरमैः ।
संसक्त शिखरा शैला विराजन्ति महाद्रुमैः ॥४-१-१९॥

पुष्प संछन्न शिखरा मारुतः उत्क्षेप चंचला ।
अमी मधुकरोत्तंसाः प्रगीत इव पादपाः ॥४-१-२०॥

सुपुष्पितांस्तु पश्य एतान् कर्णिकारान् समन्ततः ।
हाटक प्रति संच्छन्नान् नरान् पीतांबरान् इव ॥४-१-२१॥

अयम् वसन्तः सौमित्रे नाना विहग नादितः ।
सीतया विप्रहीणस्य शोक सन्दीपनो मम ॥४-१-२२॥

माम् हि शोक समाक्रान्तम् संतापयति मन्मथः ।
हृष्टम् प्रवदमानश्च समाह्वयति कोकिलः ॥४-१-२३॥

एष दाअत्यूहको हृष्टो रम्ये माम् वन निर्झरे ।
प्रणदन् मन्मथाविष्टम् शोचयिष्यति लक्ष्मण ॥४-१-२४॥

श्रुत्वा एतस्य पुरा शब्दम् आश्रमस्था मम प्रिया ।
माम् आहूय प्रमुदिता परमम् प्रत्यनन्दत ॥४-१-२५॥

एवम् विचित्राः पतगा नाना राव विराविणः ।
वृक्ष गुल्म लताः पश्य संपतन्ति समन्ततः॥४-१-२६॥

विमिश्रा विहगाः पुंभिः आत्म व्यूह अभिनन्दिताः ।
भृङ्गराज प्रमुदिताः सौमित्रे मधुर स्वराः ॥४-१-२७॥

अस्याः कूले प्रमुदिताः संघशः शकुनास्त्विह ।
दात्यूहरति विक्रन्दैः पुंस्कोकिल रुतैः अपि ॥४-१-२८॥

स्वनन्ति पादपाः च इमे माम् अनङ्ग प्रदीपकाः ।
अशोक स्तबक अङ्गारः षट्पद स्वन निस्वनः ॥४-१-२९॥

माम् हि पल्लव ताम्रार्चिः वसन्ताग्निः प्रधक्ष्यति ।
न हि ताम् सूक्ष्मपक्ष्माक्षीम् सुकेशीम् मृदु भाषिणीम् ॥४-१-३०॥

अपश्यतो मे सौउमित्रे जीवितेऽस्ति प्रयोजनम् ।
अयम् हि रुचिरः तस्याः कालो रुचिर काननः  ॥४-१-३१॥

कोकिलाकुल सीमान्तः दयिताया मम अनघः ।
मन्मध आयास संभूतो वसन्त गुण वर्धितः ॥४-१-३२॥

अयम् माम् धक्ष्यति क्षिप्रम् शोकाग्निः न चिरादिव ।
अपश्यत ताम् वनिताम् पश्यतो रुचिर द्रुमान् ॥४-१-३३॥

मम अयम् आत्मप्रभवो भूयस्त्वम् उपयास्यति ।
अदृश्यमाना वैदेही शोकम् वर्धयती इह मे ॥४-१-३४॥

दृश्यमानो वसन्तः च स्वेद संसर्ग दूषकः ।
माम् हि सा मृगशाबाक्षी चिन्ता शोक बलात्कृतम् ॥४-१-३५॥

संतापयति सौमित्रे कृइरः चैत्र वनानिलः ।
अमी मयूराः शोभन्ते प्रनृत्यन्तः ततः ततः ॥४-१-३६॥

स्त्वैः पक्षैः पवन उद्धूतैः गवाक्षैः स्फाटिकैः इव ।
शिखिनीभिः परिवृतास्त एते मद मूर्छिताः ॥४-१-३७॥

मन्मथ अभिपरीतस्य मम मन्मथ वर्धनाः ।
पश्य लक्ष्णम नृत्यन्तम् मयूरम् उपनृत्यति ॥४-१-३८॥

शिखिनी मन्मथ आर्तैः एषा भर्तारम् गिरि सानुनि ।
ताम् एव मनसा रामाम् मयुरोऽपि अनुधावति ॥४-१-३९॥

वितत्य रुचिरौ पक्षौ रुतैः उपहसन् इव ।
मयूरस्य वने नूनम् रक्षसा न हृता प्रिया ॥४-१-४०॥

तस्मात् नृत्यति रम्येषु वनेषु सह कान्तया ।
मम त्वयम् विना वासः पुष्पमासे सुदुःसहः ॥४-१-४१॥

पश्य लक्ष्मण संरागः तिर्यक् योनिगतेषु अपि ।
यदेषा शिखिनी कामात् भर्तारम् अभिवर्तते ॥४-१-४२॥

माम् अपि एवम् विशालाक्षी जानकी जात संभ्रमा ।
मदनेन अभिवर्तेत यदि न अपहृता भवेत् ॥४-१-४३॥

पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे ।
पुष्प भार समृद्धानाम् वनानाम् शिशिरात्यये ॥४-१-४४॥

रुचिराणि अपि पुष्पाणि पादपानाम् अतिश्रिया ।
निष्फलानि महीम् यान्ति समम् मधुकरोत्करैः ॥४-१-४५॥

नदन्ति कावम् मुदिताः शकुना  सङ्घशः कलम् ।
आह्वयन्त इव अन्योन्यम् काम उन्मादकरा मम ॥४-१-४६॥

वसन्तो यदि तत्र अपि यत्र मे वसति प्रिया ।
नूनम् परवशा सीता सा अपि शोच्यति अहम् यथा ॥४-१-४७॥

नूनम् न तु वसन्तः तम् देशम् स्पृशति यत्र सा ।
कथम् हि असित पद्माक्षी वर्तयेत् सा मया विना ॥४-१-४८॥

अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया  ।
किम् करिष्यति सुश्रोणी सा तु निर् भर्त्सिता परैः ॥४-१-४९॥

श्यामा पद्म पलाशाक्षी मृदु भाषा च मेम् प्रिया ।
नूनम् वसन्तम् आसाद्य परित्यक्ष्यति जीवितम् ॥४-१-५०॥

दृढम् हि हृदये बुधिः मम संप्रतिवर्तते ।
न अलम् वर्तयितुम् सीता साध्वी मत् विरहम् गता ॥४-१-५१॥

मयि भावो हि वैदेह्याः तत्त्वतो विनिवेशितः ।
मम अपि भावः सीतायाम् सर्वधा विनिवेशितः ॥४-१-५२॥

एष पुष्पवहो वायुः सुख स्पर्शो हिमावहः ।
ताम् विचिन्तयतः कान्ताम् पावक प्रतिमो मम ॥४-१-५३॥

सदा सुखम् अहम् मन्ये यम् पुरा सह सीताया ।
मारुतः स विना सीताम् शोक संजनओ मम  ॥४-१-५४॥

ताम् विन अथ विहङ्गो असौ पक्षी प्रणदितः तदा ।
वायसः पादपगतः प्रहृष्टम् अभि कूजति ॥४-१-५५॥

एष वै तत्र वैदेह्या विहगः प्रतिहारकः ।
पक्षी माम् तु विशालाक्ष्याः समीपम् उपनेष्यति ॥४-१-५६॥

पश्य लक्ष्मण संनादम् वने मद विवर्धनम् ।
पुष्पित अग्रेषु वृक्षेषु द्विजानाम् अवकूजताम् ॥४-१-५७॥

विक्षिप्ताम् पवनेन एताम् असौ तिलक मञ्जरीम् ।
षट्पदः सहसा अभ्येति मद उद्धूताम् इव प्रियाम् ॥४-१-५८॥

कामिनाम् अयम् अत्यन्तम् अशोकः शोक वर्धनः ।
स्तबकैः पवन उत्क्षिप्तैः तर्जयन् इव माम् स्थितः ॥४-१-५९॥

अमी लक्ष्मण दृश्यन्ते चूताः कुसुम शालिनः ।
विभ्रम उत्सिक्त मनसः स अङ्गरागा नरा इव ॥४-१-६०॥

सौमित्रे पश्य पम्पायाः चित्रासु वन राजिषु ।
किंनरा नरशार्दूल विचरन्ति ततः ततः ॥४-१-६१॥

इमानि शुभ गन्धीनि पश्य लक्ष्मण सर्वशः ।
नलिनानि प्रकाशन्ते जले तरुण सूर्य वत् ॥४-१-६२॥

एषा प्रसन्न सलिला पद्म नील उत्पलायुता ।
हंस कारण्डव आकीर्णा पम्पा सौगन्धिका युता ॥४-१-६३॥

जले तरुण सूर्याभैः षट्पद आहत केसरैः ।
पन्कजैः शोभते पम्पा समन्तात् अभिसंवृता ॥४-१-६४॥

चक्रवाक युता नित्यम् चित्र प्रस्थ वनान्तरा ।
मातंग मृग यूथैः च शोभते सलिल अर्थिभिः ॥४-१-६५॥

पवन आहत वेगाभिः ऊर्मिभिः विमले अंभसि ।
पन्कजानि विराजन्ते ताड्यमानानि लक्ष्मण  ॥४-१-६६॥

पद्म पत्र विशालाक्षीम् सततम् प्रिय पन्कजाम् ।
अपश्यतो मे वैदेहीम् जीवितम् न अभिरोचते  ॥४-१-६७॥

अहो कामस्य वामत्वम् यो गताम् अपि दुर्लभाम्  ।
स्मारयिष्यति  कल्याणीम् कल्याण तर वादिनीम् ॥४-१-६८॥

शक्यो धारयितुम् कामो भवेत् अभ्यागतो मया ।
यदि भूयो वसन्तो माम् न हन्यात् पुष्पित द्रुमः ॥४-१-६९॥

यानि स्म रमणीयानि तया सह भवन्ति मे ।
तानि एव अरमणीयानि जायन्ते मे तया विना ॥४-१-७०॥

पद्मकोश पलाशानि द्रष्टुम् दृष्टिः हि मन्यते ।
सीताया नेत्र कोशाभ्याम् सदृशान् इति लक्ष्मण ॥४-१-७१॥

पद्म केसर संसृष्टो वृक्षान्तर विनिःसृतः ।
निःश्वास इव सीताया वाति वायुः मनोहरः ॥४-१-७२॥

सौमित्रे पश्य पम्पाया दक्षिणे गिरि सानुषु ।
पुष्पितान् कर्णिकारस्य यष्टिम् परम शोभिताम् ॥४-१-७३॥

अधिकम् शैल राजोऽयम् धातुभिः तु विभूषितः ।
विचित्रम् सृजते रेणुम् वायु वेग विघट्टितम् ॥४-१-७४॥

गिरि प्रस्थास्तु सौमित्रे सर्वतः संप्रपुष्पितैः ।
निष्पत्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः ॥४-१-७५॥

पम्पा तीर रुहाः च इमे संसक्ता मधु गन्धिनः ।
मालती मल्लिका पद्म  करवीराः च पुष्पिताः ॥४-१-७६॥

केतक्यः सिन्धुवाराः च वासन्त्यः च सुपुष्पिताः ।
माधव्यो गन्धपूर्णाः च कुंदगुल्माः च सर्वशः ॥४-१-७७॥

चिरिबिल्वा मधूकाः च वञ्जुला वकुलाः तथा ।
चम्पकाः तिलकाः च एव नागवृक्षाः च पुष्पिताः ॥४-१-७८॥

पद्मकाः च एव शोभन्ते नील अशोकाः ।
च पुष्पिताःलोध्राः च गिरि पृष्ठेषु सिंह केसर पिन्जराः  ॥४-१-७९॥

अन्कोलाः च कुरण्टाः च पूर्णकाः पारिभद्रकाः ।
चूताः पाटलयः च अपि कोविदाराः च पुष्पिताः ॥४-१-८०॥

मुचुकुंद अर्जुनाः च एव दृश्यन्ते गिरिसानुषुकेतक उद्दालकाः ।
च एव शिरीषाः शिंशुपा धवाः ॥४-१-८१॥

शाल्मल्यः किंशुकाः च एव रक्ताः कुरवकाः तथा ।
तिनिशा नक्तमालाः च चंदनाः स्यंदनाः तथा ॥४-१-८२॥

हिन्तालः तिलकाः च एव नाग वृक्षाः च पुष्पिताः ।
पुष्पितान् पुष्पित अग्राभिः लताभिः परिवेष्टितान्  ॥४-१-८३॥

द्रुमान् पश्य इह सौमित्रे पम्पाया रुचिरान् बहून् ।
वात विक्षिप्त विटपान् यथा आसन्नान् द्रुमान् इमान् ॥४-१-८४॥

लताः समनुवर्तन्ते मत्ता इव वर स्त्रियः ।
पादपात् पादपम् गच्छन् शैलात् शैलम् वनात् वनम् ॥४-१-८५॥

वाति न एक रस आस्वाद सम्मोदित इव अनिलः ।
केचित् पर्याप्त कुसुमाः पादपा मधु गन्धिनः  ॥४-१-८६॥

केचित् मुकुल संवीताः श्याम वर्णा इव  आबभुः ।
इदम् मृष्टम् इदम् स्वादु प्रफुल्लम् इदम् इत्यपि ॥४-१-८७॥

राग युक्तो मधुकरः कुसुमेषु  आवलीयते ॥
निलीय पुनर् उत्पत्य सहसा अन्यत्र गच्छति ।
मधु लुब्धो मधुकरः पंपा तीर द्रुमेषु असौ ॥४-१-८८॥

इयम् कुसुम सन्घातैः उपस्तीर्णा सुखा कृता  ।
स्वयम् निपतितैः भूमिः शयन प्रस्तरैः इव ॥४-१-८९॥

विविधा विविधैः पुष्पैः तैः एव नगसानुषु ।
विस्तेएर्णाः पीत रक्ताभा सौमित्रे प्रस्तराः कृताः ॥४-१-९०॥

हिमान्ते पश्य सौमित्रे वृक्षाणाम् पुष्प संभवम् ।
पुष्प मासे हि तरवः संघर्षात् इव पुष्पिताः ॥४-१-९१॥

आह्वयन्त इव अन्योन्यम् नगाः षट्पद नादिताः ।
कुसुमोत्तंस विटपाः शोभन्ते बहु लक्ष्मण ॥४-१-९२॥

एष कारण्डवः पक्षी विगाह्या सलिलम् शुभम् ।
रमते कान्ताया सार्थम् कामम् उद्दीपयन् इव ॥४-१-९३॥

मंदकिन्यास्तु यदिदम् रूपम् एतन् मनोररम्  ।
स्थाने जगति विख्याता गुणाः तस्या मनोरमाः  ॥४-१-९४॥

यदि दृश्येत सा साध्वी यदि च इह वसेम हि ।
स्पृहयेयम् न शक्राय न अयोध्यायै रघूत्तम  ॥४-१-९५॥

न हि एवम् रमणीयेषु शाद्वलेषु तया सह ।
रमतो मे भवेत् चिन्ता न स्पृहा अन्येषु वा भवेत् ॥४-१-९६॥

अमी हि विविधैः पुष्पैः तरवो रुचिर च्छदाः  ।
कानने अस्मिन् विना कान्ताम् चित्तम् उत्पादयन्ति मे  ॥४-१-९७॥

पश्य शीत जलाम् च इमाम् सौमित्रे पुष्कर आयुताम् ।
चक्रवाक अनुचरिताम् कारण्डव निषेविताम् ॥४-१-९८॥

प्लवैः क्रौञ्चैः च संपूर्णाम् महा मृग निषेविताम् ।
अधिकम् शोभते पम्पा विकूजद्भिः विहङ्गमैः ॥४-१-९९॥

दीपयन्ती इव मे कामम् विविधा मुदिता द्विजाः ।
श्यामाम् चन्द्र मुखीम् स्मृत्वा प्रियाम् पद्म निभ ईक्षणाम् ॥४-१-१००॥

पश्य सानुषु चित्रेषु मृगीभिः सहितान् मृगान् ।
माम् पुनः मृग शबाक्षी वैदेह्या विरहीकृतम् ।
व्यधयन्तीव मे चित्तम् संचरन्तः ततः ततः ॥४-१-१०१॥

अस्मिन् सानुनि रम्ये हि मत्त द्विज गणाकुले ।
पश्य अयम् यदि ताम् कन्ताम् ततः स्वस्ति भवेत् मम ॥४-१-१०२॥

जीवेयम् खलु सौमित्रे मया सह सुमध्यमा ।
सेवेत यदि वैदेही पम्पायाः पवनम् शुभम् ॥४-१-१०३॥

पद्म सौगन्धिक वहम् शिवम् शोक विनाशनम् ।
धन्या लक्ष्मण सेवन्ते पम्पाया वन मरुतम् ॥४-१-१०४॥

श्यमा पद्म पलाशाक्षी प्रिया विरहिता मया ।
कथम् धरयति प्राणान् विवशा जनकात्मजा ॥४-१-१०५॥

किम् नु वक्ष्यामि धर्मज्ञम् राजानम् सत्य वादिनम् ।
जनकम् पृष्ट सीतम् तम्  कुशलम् जन संसदि ॥४-१-१०६॥

या मम् अनुगता मन्दम् पित्रा प्रस्थापितुम् वनम् ।
सीता धर्मम् समास्थय क्व नु सा वर्तते प्रिया ॥४-१-१०७॥

तया विहीनः कृपणः कथम् लक्ष्मण धारये ।
य माम् अनुगता रज्यात् भ्रष्टम् विहत चेतसम् ॥४-१-१०८॥

तत् चारु अञ्चित पद्माक्षम् सुगन्धि शुभम् अव्रणम् ।
अपश्यतो मुखम् तस्याः सीदति इव मतिः मम ॥४-१-१०९॥

स्मित हास्यान्तर युतम् गुणवत् मधुरम् हितम् ।
वैदेह्याः वाक्यम् अतुलम् कदा श्रोष्यामि लक्ष्मण ॥४-१-११०॥

प्राप्य दुःखम् वने श्यामा माम् मन्मध विकर्शितम् ।
नष्ट दुःखेव हृष्टेव साध्वी साधु अभ्यभाषत ॥४-१-१११॥

किम् नु वक्ष्यामि अयोध्यायाम् कौसल्याम् हि नृपात्मज ।
क्व सा स्नुषा इति पृच्छन्तीम् कथम् च अति मनस्विनीम् ॥४-१-११२॥

गच्छ लक्ष्मण पश्य त्वम् भरतम् भ्रातृउ वत्सलम् ।
न हि अहम् जीवितुम् शक्तः ताम् ऋते जनकात्मजम् ॥४-१-११३॥

इति रामम् महात्मानम् विलपन्तम् अनाथ वत् ।
उवाच लक्ष्मणो भ्राता वचनम् युक्तम् अव्ययम् ॥४-१-११४॥

संस्थम्भ राम भद्रम् ते मा शुचः पुरुषोत्तम ।
न ईदृइशानाम् मतिः मन्दा भवति अकलुषात्मनाम् ॥४-१-११५॥

स्मृत्वा वियोगजम् दुःखम् त्यज स्नेहम् प्रिये जने ।
अति स्नेह परिष्वन्गात् वर्तिः अर्द्रा अपि दह्यते ॥४-१-११६॥

यदि गच्छति पतालम् ततो अभ्यऽधिकम् एव वा ।
सर्वधा रावणः तात न भविष्यति राघव ॥४-१-११७॥

प्रवृत्तिः लभ्यताम् तावत् तस्य पापस्य रक्षसः ।
ततः हास्यति वा सीताम् निधनम् वा गमिष्यति ॥४-१-११८॥

यदि याति दितेः गर्भम् रावणः सह सीताया ।
तत्र अपि एनम् हनिष्यामि न चेत् दास्यति मैथिलीम् ॥४-१-११९॥

स्वास्थ्यम् भद्रम् भजस्व आर्यः त्यजताम् कृपणा मतिः ।
अर्थो हि नष्ट कार्यार्थैः न अयत्ने न अधिगम्यते ॥४-१-१२०॥

उत्साहो बलवान् आर्य नास्ति उत्साहात् परम् बलम् ।
सः उत्साहस्य हि लोकेषु न किंचित् अपि दुर्लभम् ॥४-१-१२१॥

उत्साहवन्तः पुरुषा न अवसीदन्ति कर्मसु ।
उत्साह मत्रम् आश्रित्य सीताम् प्रतिलप्स्याम् जनकीम् ॥४-१-१२२॥

त्यज्य काम वृत्तत्वम् शोकम् सम् न्यस्य पृष्टतः ।
महात्मानम् कृतात्मानम् आत्मानम् न अवबुध्यसे ॥४-१-१२३॥

एवम् संबोधितः तेन शोकोपहत चेतनः ।
त्य्ज्य शोकम् च मोहम् च रामो धैर्यम् उपागमत् ॥४-१-१२४॥

सोऽभ्य अतिक्रामत् अव्यग्रः ताम् अचिन्त्य पराक्रमः ।
रामः पम्पाम् सु रुचिराम् रम्याम् पारिप्लव द्रुमान् ॥४-१-१२५॥

निरीक्षमाणः सहसा महात्मा सर्वम् वनम् निर्झर कन्दराम् च ।
उद्विग्न चेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे ॥४-१-१२६॥

तम् मत्त मातङ्ग विलास गामी  गच्छन्तम् अव्यग्र मनाः महात्मा ।
स लक्ष्मणो राघवम् अप्रमत्तो ररक्ष धर्मेण बलेन च एव ॥४-१-१२७॥

तौ ऋष्यमूकस्य समीप चारी चरन् ददर्श अद्भुत दर्शनीयौ ।
शाखा मृगाणाम् अधिपः तरस्वी वितत्रसे नैव चिचेष्ट चेष्टाम् ॥४-१-१२८॥

स तौ महात्मा गज मन्द गामि शखा मृगः तत्र चिरन् चरन्तौ ।
दृष्ट्वा विषादम् परमम् जगाम चिन्ता परीतो भय भार मग्नः ॥४-१-१२९॥

तम् आश्रमम् पुण्य सुखम् शरण्यम् सदैव शाखा मृग सेवितान्तम् ।
त्रस्ताः च दृष्ट्वा हरयोः अभिजग्मुः महौजसौ राघव लक्ष्मणौ तौ ॥४-१-१३०॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे प्रथमः सर्गः ॥४-१॥