रामायणम्/किष्किन्धाकाण्डम्/सर्गः ३६

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ३५ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ३७ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षट्त्रिंशः सर्गः ॥४-३६॥

इति उक्तः तारया वाक्यम् प्रश्रितम् धर्म संहितम् ।
मृदु स्वभावः सौमित्रिः प्रतिजग्राह तत् वचः ॥४-३६-१॥

तस्मिन् प्रतिगृहीते तु वाक्ये हरि गण ईश्वरः ।
लक्ष्मणात् सुमहत् त्रासम् वस्त्रम् क्लिन्नम् इव अत्यजत् ॥४-३६-२॥

ततः कण्ठ गतम् माल्यम् चित्रम् बहु गुणम् महत् ।
चिच्छेद विमदः च आसीत् सुग्रीवो वानर ईश्वरः ॥४-३६-३॥

स लक्ष्मणम् भीम बलम् सर्व वानर सत्तमः ।
अब्रवीत् प्रश्रितम् वाक्यम् सुग्रीवः संप्रहर्षयन् ॥४-३६-४॥

प्रनष्टा श्रीः च कीर्तिः च कपि राज्यम् च शाश्वतम् ।
राम प्रसादात् सौमित्रे पुनः च आप्तम् इदम् मया ॥४-३६-५॥

कः शक्तः तस्य देवस्य ख्यातस्य स्वेन कर्मणा ।
तादृशम् प्रतिकुर्वीत अंशेन अपि नृपात्मज ॥४-३६-६॥

सीताम् प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् ।
सहाय मात्रेण मया राघवः स्वेन तेजसा ॥४-३६-७॥

सहाय कृत्यम् किम् तस्य येन सप्त महाद्रुमाः ।
शैलः च वसुधा चैव बाणेन एकेन दारिताः ॥४-३६-८॥

धनुर् विस्फारमाणस्य यस्य शब्देन लक्ष्मण ।
स शैला कम्पिता भूमिः सहायैः किम् नु तस्य वै ॥४-३६-९॥

अनुयात्राम् नर इन्द्रस्य करिष्ये अहम् नरषभ ।
गच्छतो रावणम् हन्तुम् वैरिणम् स पुरःसरम् ॥४-३६-१०॥

यदि किंचित् अतिक्रान्तम् विश्वासात् प्रणयेन वा ।
प्रेष्यस्य क्षमितव्यम् मे न कश्चिन् न अपराध्यति ॥४-३६-११॥

इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः ।
अभवत् लक्ष्मणः प्रीतः प्रेम्णा च इदम् उवाच ह ॥४-३६-१२॥

सर्वथा हि मम भ्राता स नाथो वानरेश्वर ।
त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः ॥४-३६-१३॥

यः ते प्रभावः सुग्रीव यत् च ते शौचम् ईदृशम् ।
अर्हः तम् कपि राज्यस्य श्रियम् भोक्तुम् अनुत्तमाम् ॥४-३६-१४॥

सहायेन च सुग्रीव त्वया रामः प्रतापवान् ।
वधिष्यति रणे शत्रून् अचिरात् न अत्र संशयः ॥४-३६-१५॥

धर्मज्ञस्य कृतज्ञस्य संग्रामेषु अनिवर्तिनः ।
उपपन्नम् च युक्तम् च सुग्रीव तव भाषितम् ॥४-३६-१६॥

दोषज्ञः सति सामर्थ्ये को अन्यो भाषितुम् अर्हति ।
वर्जयित्वा मम ज्येष्ठम् त्वाम् च वानर सत्तम ॥४-३६-१७॥

सदृशः च असि रामस्य विक्रमेण बलेन च ।
सहायो दैवतैः दत्तः चिराय हरि पुंगव ॥४-३६-१८॥

किम् तु शीघ्रम् इतो वीर निष्क्राम त्वम् मया सह ।
सान्त्वयस्व वयस्यम् च भार्या हरण दुःखितम् ॥४-३६-१९॥

यत् च शोक अभिभूतस्य श्रुत्वा रामस्य भाषितम् ।
मया त्वम् परुषाणि उक्तः तत् क्षमस्व सखे मम ॥४-३६-२०॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे षट्त्रिंशः सर्गः ॥४-३६॥