रामायणम्/किष्किन्धाकाण्डम्/सर्गः २९

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः २८ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ३० →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनत्रिंशः सर्गः ॥४-२९॥

समीक्ष्य विमलम् व्योम गत विद्युत् बलाहकम् ।
सारसा आकुल संघुष्टम् रम्य ज्योत्स्ना अनुलेपनम् ॥४-२९-१॥
समृद्ध अर्थम् च सुग्रीवम् मन्द धर्मार्थ संग्रहम् ।
अत्यर्थम् च असताम् मार्गम् एकांत गत मानसम् ॥४-२९-२॥
निवृत्त कार्यम् सिद्धार्थम् प्रमद अभिरतम् सदा ।
प्राप्तवन्तम् अभिप्रेतान् सर्वान् एव मनोरथान् ॥४-२९-३॥
स्वाम् च पात्नीम् अभिप्रेताम् ताराम् च अपि समीप्सिताम् ।
विहरंतम् अहो रात्रम् कृतार्थम् विगत ज्वरम् ॥४-२९-४॥
क्रीडन्तम् इव देवेशम् गन्धर्व अप्सरसाम् गणैः ।
मंत्रिषु न्यस्त कार्यम् च मंत्रिणाम् अनवेक्षकम् ॥४-२९-५॥
उच्छिन्न राज्य संदेहम् काम वृत्तम् इव स्थितम् ।
निश्चित अर्थो अर्थ तत्त्वज्ञः काल धर्म विशेष वित् ॥४-२९-६॥
प्रसाद्य वाक्यैः मधुरैः हेतुमद्भिः मनो रमैः ।
वाक्यवित् वाक्य तत्त्वज्ञम् हरीशम् मारुतात्मजः ॥४-२९-७॥
हितम् तथ्यम् च पथ्यम् च साम धर्म अर्थ नीतिमत् ।
प्रणय प्रीति संयुक्तम् विश्वास कृत निश्चयम् ॥४-२९-८॥
हरीश्वरम् उपागम्य हनुमान् वाक्यम् अब्रवीत् ।

राज्यम् प्राप्तम् यशः चैव कौली श्रीः अभिवर्थिता ॥४-२९-९॥
मित्राणाम् संग्रहः शेषः तत् भवान् कर्तुम् अर्हति ।

यो हि मित्रेषु कालज्ञः सततम् साधु वर्तते ॥४-२९-१०॥
तस्य राज्यम् च कीर्तिः च प्रतापः च अपि वर्धते ।

यस्य कोशः च दण्डः च मित्राणि आत्मा च भूमिप ।
समानि एतानि सर्वाणि स राज्यम् महत् अश्नुते ॥४-२९-११॥

तत् भवान् वृत्त संपन्नः स्थितः पथि निरत्यये ।
मित्रार्थम् अभिनीतार्थम् यथावत् कर्तुम् अर्हति ॥४-२९-१२॥

संत्यज्य सर्व कर्माणि मित्रार्थम् यो न वर्तते ।
संभ्रमात् हि कृत उत्साहः सः अनर्थेन अवरुध्यते ॥४-२९-१३॥

यो हि काल व्यतीतेषु मित्र कार्येषु वर्तते ।
स कृत्वा महतो अपि अर्थान् न मित्रार्थेन युज्यते ॥४-२९-१४॥

तत् इदम् मित्रकार्यम् नः काल अतीतम् अरिंदम ।
क्रियताम् राघवस्य एतत् वैदेह्याः परिमार्गणम् ॥४-२९-१५॥

न च कालम् अतीतम् ते निवेदयति कालवित् ।
त्वरमाणो अपि स प्राज्ञः तव राजन् वशानुगः ॥४-२९-१६॥

कुलस्य हेतुः स्फीतस्य दीर्घ बन्धुः च राघवः ।
अप्रमेय प्रभावः च स्वयम् च अप्रतिमो गुणैः ॥४-२९-१७॥

तस्य त्वम् कुरु वै कार्यम् पूर्वम् तेन कृतम् तव ।
हरीश्वर हरि श्रेष्ठान् आज्ञापयितुम् अर्हसि ॥४-२९-१८॥

न हि तावत् भवेत् कालो व्यतीतः चोदनात् ऋते ।
चोदितस्य हि कार्यस्य भवेत् काल व्यतिक्रमः ॥४-२९-१९॥

अकर्तुर् अपि कार्यस्य भवान् कर्ता हरीश्वर ।
किम् पुनः प्रतिकर्तुः ते राज्येन च वधेन च ॥४-२९-२०॥

शक्तिमान् अतिविक्रान्तो वानर ऋष्क गण ईश्वर ।
कर्तुम् दाशरथेः प्रीतिम् आज्ञायाम् किम् नु सज्जसे ॥४-२९-२१॥

कामम् खलु शरैः शक्तः सुर असुर महा उरगान् ।
वशे दाशरथिः कर्तुम् त्वत् प्रतिज्ञाम् अवेक्षते ॥४-२९-२२॥

प्राण त्याग अविशंकेन कृतम् तेन महत् प्रियम् ।
तस्य मार्गाम वैदेहीम् पृथिव्याम् अपि च अंबरे ॥४-२९-२३॥

न देवा न च गंधर्वा न असुरा न मरुत् गणाः ।
न च यक्षा भयम् तस्य कुर्युः किम् इव राक्षसाः ॥४-२९-२४॥

तत् एवम् शक्ति युक्तस्य पूर्वम् प्रिय कृतः तथा ।
रामस्य अर्हसि पिंगेश कर्तुम् सर्व आत्मना प्रियम् ॥४-२९-२५॥

न अधस्तात् अवनौ न अप्सु गतिः न उपरि च अम्बरे ।
कस्यचित् सज्जते अस्माकम् कपीश्वर तव आज्ञया ॥४-२९-२६॥

तत् आज्ञापय कः किम् ते कुतो वा अपि व्यवस्यतु ।
हरयो हि अप्रधृष्याः ते सन्ति कोटि अग्रतो अनघ ॥४-२९-२७॥

तस्य तद् वचनम् श्रुत्वा काले साधु निरूपितम् ।
सुग्रीवः सत्त्व संपन्नः चकार मतिम् उत्तमाम् ॥४-२९-२८॥

संदिदेश अति मति मान् नीलम् नित्य कृत उद्यमम् ।
दिक्षु सर्वासु सर्वेषाम् सैन्यानाम् उपसंग्रहे ॥४-२९-२९॥

यथा सेना समग्रा मे यूथपालाः च सर्वशः ।
समागच्छन्ति असंगेन सेनाग्राणि तथा कुरु ॥४-२९-३०॥

ये तु अंतपालाः प्लवगाः शीघ्रगा व्यवसायिनः ।
समानयंतु ते शीघ्रम् त्वरिताः शासनात् मम ।
स्वयम् च अनंतरम् सैन्यम् भवान् एव अनुपश्यतु ॥४-२९-३१॥

त्रि पंच रात्रात् ऊर्ध्वम् यः प्राप्नुयात् इह वानरः ।
तस्य प्राण अन्तिको दण्डो न अत्र कार्या विचारणा ॥४-२९-३२॥

हरीन् च वृद्धान् उपयातु स अंगदो
भवान् मम आज्ञाम् अधिकृत्य निश्चितम् ।
इति व्यवस्थाम् हरि पुंगव ईश्वरो
विधाय वेश्म प्रविवेश वीर्यवान् ॥४-२९-३३॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे एकोनत्रिंशः सर्गः ॥४-२९॥