रामायणम्/किष्किन्धाकाण्डम्/सर्गः १६

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १५ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः १७ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षोडशः सर्गः ॥४-१६॥

ताम् एवम् ब्रुवतीम् ताराम् ताराधिप निभ आननाम् ।
वाली निर्भर्त्सयामास वचनम् च इदम् अब्रवीत् ॥४-१६-१॥

गर्जतो अस्य च सुसंरब्धम् भ्रातुः शत्रोर् विशेषतः ।
मर्षयिष्यामि केन कारणेन वरानने ॥४-१६-२॥

अधर्षितानाम् शूराणाम् समरेषु अनिवर्तिनाम् ।
धर्षणाम् अर्षणम् भीरु मरणात् अतिरिच्यते ॥४-१६-३॥

सोढुम् न च समर्थो अहम् युद्ध कामस्य संयुगे ।
सुग्रीवस्य च संरंभम् हीन ग्रीवस्य गर्जतम् ॥४-१६-४॥

न च कार्यो विषादः ते राघवम् प्रति मत् कृते ।
धर्मज्ञः च कृतज्ञः च कथम् पापम् करिष्यति ॥४-१६-५॥

निवर्तस्व सह स्त्रीभिः कथम् भूयो अनुगच्छसि ।
सौहृदम् दर्शितम् तावत् मयि भक्तिः त्वया कृता ॥४-१६-६॥

प्रति योत्स्यामि अहम् गत्वा सुग्रीवम् जहि संभ्रमम् ।
दर्पम् च अस्य विनेष्यामि न च प्राणैर् वियोक्ष्यते ॥४-१६-७॥

अहम् हि अजि स्थितस्य अस्य करिष्यामि यत् ईप्सितम् ।
वृक्षैः मुष्टि प्रहारैः च पीडितः प्रति यास्यति ॥४-१६-८॥

न मे गर्वितम् आयस्तम् सहिष्यति दुरात्मवान् ।
कृतम् तारे सहायत्वम् दर्शितम् सौहृदम् मयि ॥४-१६-९॥

शापिता असि मम प्राणैः निवर्तस्व जनेन च ।
अलम् जित्वा निवर्तिष्ये तम् अहम् भ्रातरम् रणे ॥४-१६-१०॥

तम् तु तारा परिष्वज्य वालिनम् प्रिय वादिनी ।
चकार रुदती मन्दम् दक्षिणा सा प्रदक्षिणम् ॥४-१६-११॥

ततः स्वस्त्ययनम् कृत्वा मंत्रवित् विजय एषिणी ।
अंतःपुरम् सह स्त्रीभिः प्रविष्टा शोक मोहिता ॥४-१६-१२॥

प्रविष्टायाम् तु तारायाम् सह स्त्रीभिः स्वम् आलयम् ।
नगर्या निर्ययौ क्रुद्धो महा सर्प इव श्वसन् ॥४-१६-१३॥

स निःश्वस्य महारोषो वाली परम वेगवान् ।
सर्वतः चारयन् दृष्टिम् शत्रु दर्शन कांक्षया ॥४-१६-१४॥

स ददर्श ततः श्रीमान् सुग्रीवम् हेम पिङ्गलम् ।
सुसंवीतम् अवष्टब्धम् दीप्यमानम् इव अनलम् ॥४-१६-१५॥

तम् स दृष्ट्वा महाबाहुः सुग्रीवम् पर्यवस्थितम् ।
गाढम् परिदधे वासो वाली परम कोपिनः ॥४-१६-१६॥

स वाली गाढ संवीतो मुष्टिम् उद्यम्य वीर्यवान् ।
सुग्रीवम् एव अभिमुखो ययौ योद्धुम् कृत क्षणः ॥४-१६-१७॥

श्लिष्टम् मुष्टिम् समुद्यम्य संरब्धतरम् आगतः ।
सुग्रीवो अपि समुद्दिश्य वालिनम् हेम मालिनम् ॥४-१६-१८॥

तम् वाली क्रोध ताम्राक्षः सुग्रीवम् रण कोविदम् ।
आपतंतम् महा वेगम् इदम् वचनम् अब्रवीत् ॥४-१६-१९॥

एष मुष्टिर् महान् बद्धो गाढः सुनियत अंगुलिः ।
मया वेग विमुक्तः ते प्राणान् आदाय यास्यति ॥४-१६-२०॥

एवम् उक्तः तु सुग्रीवः क्रुद्धो वालिनम् अब्रवीत् ।
तव च एष हरन् प्राणान् मुष्टिः पततु मूर्धनि ॥४-१६-२१॥

ताडितः तेन तम् क्रुद्धः समभिक्रम्य वेगतः ।
अभवत् शोणित उद्गारी सापीड इव पर्वतः ॥४-१६-२२॥

सुग्रीवेण तु निःशंकम् सालम् उत्पाट्य तेजसा ।
गात्रेषु अभिहतो वाली वज्रेण इव महा गिरिः ॥४-१६-२३॥

स तु वृक्षेण निर्भग्नः साल ताडन विह्वलः ।
गुरु भार भर आक्रान्ता नौः ससार्था इव सागरे ॥४-१६-२४॥

तौ भीम बल विक्रान्तौ सुपर्ण सम वेगिनौ ।
प्रयुद्धौ घोर वपुषौ चन्द्र सूर्यौ इव अंबरे ॥४-१६-२५॥
परस्परम् अमित्र घ्नौ च्छिद्र अन्वेषण तत्परौ ।

ततो अवर्धत वाली तु बल वीर्य समन्वितः ॥४-१६-२६॥
सूर्य पुत्रो महावीर्यः सुग्रीवः परिहीयत ।

वालिना भग्न दर्पः तु सुग्रीवो मन्द विक्रमः ॥४-१६-२७॥
वालिनम् प्रति सामर्षो दर्शयामास राघवम् ।

वृक्षैः स शाखैः शिखरैः वज्र कोटि निभैः नखैः ॥४-१६-२८॥
मुष्टिभिः जानुभिः पद्भिः बाहुभिः च पुनः पुनः ।
तयोः युद्द्धम् अभूत् घोरम् वृत्र वासवोः इव ॥४-१६-२९॥

तौ शोणितात्कौ युध्येताम् वानारौ वन् चारिणौ ।
मेघौ इव महा शब्दैः तर्जमानौ परस्परम् ॥४-१६-३०॥

हीयमानम् अथ अपश्यत् सुग्रीवम् वानरेश्वरम् ।
प्रेक्षमाणम् दिशः च एव राघवः स मुहुर् मुहुर् ॥४-१६-३१॥

ततो रामो महातेजा आर्तम् दृष्ट्वा हरीश्वरम् ।
स शरम् वीक्षते वीरो वालिनो वध कांक्षया ॥४-१६-३२॥

ततो धनुषि संधाय शरम् आशी विष उपमम् ।
पूरयामास तत् चापम् काल चक्रम् इव अन्तकः ॥४-१६-३३॥

तस्य ज्यातल घोषेण त्रस्ताः पत्ररथेश्वराः ।
प्रदुद्रुवुर् मृगाः च एव युगांत इव मोहिताः ॥४-१६-३४॥

मुक्तस्तु वज्र निर्घोषः प्रदीप्त अशनि संनिभः ।
राघवेण महा बाणो वालि वक्षसि पातितः ॥४-१६-३५॥

ततः तेन महातेजा वीर्य युक्तः कपीश्वरः ।
वेगेन अभिहतो वाली निपपात मही तले ॥४-१६-३६॥

इन्द्र ध्वज इव उद्धूत पौर्ण मास्याम् महीतले ।
अश्वयुक् समये मासि गत सत्त्वो विचेतनः ।
बाष्प संरुद्ध कण्ठस्तु वाली च आर्त स्वरः शनैः ॥४-१६-३७॥

नरोत्तमः काल युगांतकोपमम् शरोत्तमम् कांचन रूप्यभूषितम् ।
ससर्ज दीप्तम् तम् अमित्र मर्दनम् स धूममग्निम् मुखतो यथा हरः ॥४-१६-३८॥

अथ उक्षितः शोणित तोय विस्रवैः
सुपुष्पित अशोक इव अचलोद्गतः ।
विचेतनो वासव सूनुर् आहवे
प्रभ्रञ्शित इन्द्र ध्वजवत् क्षितिम् गतः ॥४-१६-३९॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे षोडशः सर्गः ॥४-१६॥