रामायणम्/किष्किन्धाकाण्डम्/सर्गः ५८
← सर्गः ५७ | रामायणम्/किष्किन्धाकाण्डम् किष्किन्धाकाण्डम् वाल्मीकिः |
सर्गः ५९ → |
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टपञ्चाशः सर्गः ॥४-५८॥
इति उक्तः करुणम् वाक्यम् वानरैः त्यक्त जीवितैः ।
स बाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः ॥४-५८-१॥
यवीयान् मम स भ्राता जटायुः नाम वानराः ।
यम् आख्यात हतम् युद्धे रावणेन बलीयसा ॥४-५८-२॥
वृद्ध भावात् अपक्षत्वात् शृण्वन् तत् अपि मर्षये ।
न हि मे शक्तिः अद्य अस्ति भ्रातुः वैर विमोक्षणे ॥४-५८-३॥
पुरा वृत्र वधे वृत्ते स च अहम् च जय एषिणौ ।
आदित्यम् उपयातौ स्वो ज्वलंतम् रश्मि मालिनम् ॥४-५८-४॥
आवृत्य आकाश मार्गेण जवेन स्वर् गतौ भृशम् ।
मध्यम् प्राप्ते च सूर्ये च जटायुः अवसीदति ॥४-५८-५॥
तम् अहम् भ्रातरम् दृष्ट्वा सूर्य रश्मिभिः अर्दितम् ।
पक्षाभ्यम् छादयामास स्नेहात् परम विह्वलम् ॥४-५८-६॥
निर्दग्ध पत्रः पतितो विन्ध्ये अहम् वानरर्षभाः ।
अहम् अस्मिन् वसन् भ्रातुः प्रवृत्तिम् न उपलक्षये ॥४-५८-७॥
जटायुषः तु एवम् उक्तो भ्रात्रा सम्पातिना तदा ।
युव राजो महाप्राज्ञः प्रत्युवाच अंगदः तदा ॥४-५८-८॥
जटायुषो यदि भ्राता श्रुतम् ते गदितम् मया ।
आख्याहि यदि जानासि निलयम् तस्य रक्षसः ॥४-५८-९॥
अदीर्घ दर्शिनम् तम् वा रावणम् राक्षसाधिपम् ।
अन्तिके यदि वा दूरे यदि जानासि शंस नः ॥४-५८-१०॥
ततो अब्रवीत् महातेजा भ्राता ज्येष्ठो जटायुषः ।
आत्म अनुरूपम् वचनम् वानरान् संप्रहर्षयन् ॥४-५८-११॥
निर्दग्ध पक्षो गृध्रो अहम् गत वीर्यः प्लवम् गमाः ।
वाङ् मात्रेण तु रामस्य करिष्ये साह्यम् उत्तमम् ॥४-५८-१२॥
जानामि वारुणान् लोकान् विष्णोः त्रैविक्रमान् अपि ।
देव असुर विमर्दाम् च हि अमृतस्य च मंथनम् ॥४-५८-१३॥
रामस्य यत् इदम् कार्यम् कर्तव्यम् प्रथमम् मया ।
जरया च हतम् तेजः प्राणाः च शिथिला मम ॥४-५८-१४॥
तरुणी रूप संपन्ना सर्व आभरण भूषिता ।
ह्रियमाणा मया दृष्टा रावणेन दुरात्मना ॥४-५८-१५॥
क्रोशन्ती राम राम इति लक्ष्मण इति च भामिनी ।
भूषणानि अपविध्यन्ती गात्राणि च विधुन्वती ॥४-५८-१६॥
सूर्य प्रभा इव शैल अग्रे तस्याः कौशेयम् उत्तमम् ।
असिते राक्षसे भाति यथा वा तडित् अंबुदे ॥४-५८-१७॥
ताम् तु सीताम् अहम् मन्ये रामस्य परिकीर्तनात् ।
श्रूयताम् मे कथयतो निलयम् तस्य रक्षसः ॥४-५८-१८॥
पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च ।
अध्यास्ते नगरीम् लंकाम् रावणो नाम राक्षसः ॥४-५८-१९॥
इतो द्वीपे समुद्रस्य संपूर्णे शत योजने ।
तस्मिन् लंका पुरी रम्या निर्मिता विश्वकर्मणा ॥४-५८-२०॥
जांबूनदमयैः द्वारैः चित्रैः कांचन वेदिकैः ।
प्रासादैः हेम वर्णैः च महद्भिः सुसमाकृता ॥४-५८-२१॥
प्राकारेण अर्क वर्णेन महता च समन्विता ।
तस्याम् वसति वैदेही दीना कौशेय वासिनी ॥४-५८-२२॥
रावण अन्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ।
जनकस्य आत्मजाम् राज्ञः तस्याम् द्रक्ष्यथ मैथिलीम् ॥४-५८-२३॥
लंकायाम् अथ गुप्तायाम् सागरेण समंततः ।
संप्राप्य सागरस्य अंतम् संपूर्णम् शत योजनम् ॥४-५८-२४॥
आसाद्य दक्षिणम् तीरम् ततो द्रक्ष्यथ रावणम् ।
तत्र एव त्वरिताः क्षिप्रम् विक्रमध्वम् प्लवंगमाः ॥४-५८-२५॥
ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ।
आद्यः पंथाः कुलिंगानाम् ये च अन्ये धान्य जीविनः ॥४-५८-२६॥
द्वितीयो बलि भोजानाम् ये च वृक्ष फल अशिनः ।
भासाः तृतीयम् गच्छन्ति क्रौन्चाः च कुररैः सह ॥४-५८-२७॥
श्येनाः चतुर्थम् गच्छन्ति गृध्रा गच्छन्ति पंचमम् ।
बल वीर्य उपपन्नानाम् रूप यौवन शालिनाम् ॥४-५८-२८॥
षष्ठः तु पन्था हंसानाम् वैनतेय गतिः परा ।
वैनतेयात् च नः जन्म सर्वेषाम् वानरर्षभाः ॥४-५८-२९॥
गर्हितम् तु कृतम् कर्म येन स्म पिशित अशनाः ।
प्रतिकार्यम् च मे तस्य वैरम् भ्रातृ कृतम् भवेत् ॥४-५८-३०॥
इह स्थः अहम् प्रपश्यामि रावणम् जानकीम् तथा ।
अस्माकम् अपि सौपर्णम् दिव्यम् चक्षुर् बलम् तथा ॥४-५८-३१॥
तस्मात् आहार वीर्येण निसर्गेण च वानराः ।
आयोजन शतात् साग्रात् वयम् पश्याम नित्यशः ॥४-५८-३२॥
अस्माकम् विहिता वृत्तिः निसार्गेण च दूरतः ।
विहिता पाद मूले तु वृत्तिः चरण योधिनाम् ॥४-५८-३३॥
उपायो दृश्यताम् कश्चित् लंघने लवण अंभसः ।
अभिगम्य तु वैदेहीम् समृद्ध अर्था गमिष्यथ ॥४-५८-३४॥
समुद्रम् नेतुम् इच्छामि भवद्भिः वरुण आलयम् ।
प्रदास्यामि उदकम् भ्रातुः स्वर् गतस्य महात्मनः ॥४-५८-३५॥
ततो नीत्वा तु तम् देशम् तीरे नद नदी पतेः ।
निर्दग्ध पक्षम् संपातिम् वानराः सुमहौओजसः ॥४-५८-३६॥
तम् पुनः प्रत्यानयित्वा वै तम् देशम् पतग ईश्वरम् ।
बभूवुः वानरा हृष्टाः प्रवृत्तिम् उपलभ्य ते ॥४-५८-३७॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे अष्टपञ्चाशः सर्गः ॥४-५८॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।