रामायणम्/किष्किन्धाकाण्डम्/सर्गः ४९

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ४८ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ५० →


श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनपञ्चाशः सर्गः ॥४-४९॥

अथ अंगदः तदा सर्वान् वानरान् इदम् अब्रवीत् ।
परिश्रान्तो महा प्राज्ञः समाश्वास्य शनैर् वचः ॥४-४९-१॥

वनानि गिरयो नद्यो दुर्गाणि गहनानि च ।
दरी गिरि गुहाः चैव विचिता नः समंततः ॥४-४९-२॥
तत्र तत्र सह अस्माभिः जानकी न च दृश्यते ।
तथा रक्षः अपहर्ता च सीतायाः चैव दुष्कृती ॥४-४९-३॥

कालः च नः महान् यातः सुग्रीवः च उग्र शासनः ।
तस्मात् भवन्तः सहिता विचिन्वन्तु समंततः ॥४-४९-४॥

विहाय तन्द्रीम् शोकम् च निद्राम् चैव समुत्थिताम् ।
विचिनुध्वम् तथा सीताम् पश्यामो जनक आत्मजाम् ॥४-४९-५॥

अनिर्वेदम् च दाक्ष्यम् च मनसः च अपराजयम् ।
कार्य सिद्धि कराणि आहुः तस्मात् एतत् ब्रवीमि अहम् ॥४-४९-६॥

अद्य अपि इदम् वनम् दुर्गम् विचिन्वन्तु वन ओकसः ।
खेदम् त्यक्त्वा पुनः सर्वम् वनम् एतत् विचिन्वताम् ॥४-४९-७॥

अवश्यम् कुर्वताम् दृश्यते कर्मणः फलम् ।
परम् निर्वेदम् आगम्य न हि नः मीलनम् क्षमम् ॥४-४९-८॥

सुग्रीवः क्रोधनो राजा तीक्ष्ण दण्डः च वानराः ।
भेतव्यम् तस्य सततम् रामस्य च महात्मनः ॥४-४९-९॥

हितार्थम् एतत् उक्तम् वः क्रियताम् यदि रोचते ।
उच्यताम् हि क्षमम् यत् तत् सर्वेषाम् एव वानराः ॥४-४९-१०॥

अंगदस्य वचः श्रुत्वा वचनम् गंधमादनः ।
उवाच व्यक्तया वाचा पिपासा श्रम खिन्नया ॥४-४९-११॥

सदृशम् खलु वः वाक्यम् अंगदो यत् उवाच ह ।
हितम् च एव अनुकूलम् च क्रियताम् अस्य भाषितम् ॥४-४९-१२॥

पुनः मार्गामहे शैलान् कन्दराम् च शिलान् तथा ।
काननानि च शून्यानि गिरि प्रस्रवणानि च ॥४-४९-१३॥

यथा उद्दिष्ठानि सर्वाणि सुग्रीवेण महात्मना ।
विचिन्वन्तु वनम् सर्वे गिरि दुर्गाणि संगताः ॥४-४९-१४॥

ततः समुत्थाय पुनः वानराः ते महाबलाः ।
विन्ध्य कानन संकीर्णाम् विचेरुर् दक्षिणाम् दिशम् ॥४-४९-१५॥

ते शारद अभ्र प्रतिमम् श्रीमत् रजत पर्वतम् ।
शृंगवन्तम् दरीवंतम् अधिरुह्य च वानराः ॥४-४९-१६॥
तत्र लोध्र वनम् रम्यम् सप्त पर्ण वनानि च ।
विचिन्वन्तो हरि वराः सीता दर्शन कान्क्षिणः ॥४-४९-१७॥

तस्य अग्रम् अधिरूढाः ते श्रान्ता विपुल विक्रमाः ।
न पश्यन्ति स्म वैदेहीम् रामस्य महिषीम् प्रियाम् ॥४-४९-१८॥

ते तु दृष्टि गतम् दृष्ट्वा तम् शैलम् बहु कंदरम् ।
अध्यारोहन्त हरयो वीक्षमाणाः समंततः ॥४-४९-१९॥

अवरुह्य ततो भूमिम् श्रान्ता विगत चेतसः ।
स्थित्वा मुहूर्तम् तत्र अथ वृक्ष मूलम् उपाश्रिताः ॥४-४९-२०॥

ते मुहूर्तम् समाश्वस्ताः किंचित् भग्न परिश्रमाः ।
पुनर् एव उद्यताः कृत्स्नाम् मार्गितुम् दक्षिणाम् दिशम् ॥४-४९-२१॥

हनुमत् प्रमुखाः ते तु प्रस्थिताः प्लवग ऋषभाः ।
विंध्यम् एव आदितः कृत्वा विचेरुः ते समंततः ॥४-४९-२२॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे एकोनपञ्चाशः सर्गः ॥४-४९॥