रामायणम्/किष्किन्धाकाण्डम्/सर्गः ५६

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५५ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ५७ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः ॥४-५६॥

उपविष्टाः तु ते सर्वे यस्मिन् प्रायम् गिरि स्थले ।
हरयो गृध्र राजः च तम् देशम् उपचक्रमे ॥४-५६-१॥
सांपातिः नाम नाम्ना तु चिर जीवी विहंगमः ।
भ्राता जटायुषः श्रीमान् प्रख्यात बल पौरुषः ॥४-५६-२॥

कंदरात् अभिनिष्क्रम्य स विन्ध्यस्य महागिरेः ।
उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरम् अब्रवीत् ॥४-५६-३॥

विधिः किल नरम् लोके विधानेन अनुवर्तते ।
यथा अयम् विहितो भक्ष्यः चिरात् मह्यम् उपागतः ॥४-५६-४॥

परंपराणाम् भक्षिष्ये वानराणाम् मृतम् मृतम् ।
उवाच एतत् वचः पक्षी तान् निरीक्ष्य प्लवंगमान् ॥४-५६-५॥

तस्य तत् वचनम् श्रुत्वा भक्ष लुब्धस्य पक्षिणः ।
अंगदः परम् आयस्तो हनूमंतम् अथ अब्रवीत् ॥४-५६-६॥

पश्य सीता - गृध्रा - अपदेशेन साक्षात् वैवस्वतो यमः ।
इमम् देशम् अनुप्राप्तो वानराणाम् विपत्तये ॥४-५६-७॥

रामस्य न कृतम् कार्यम् न कृतम् राज शाशनम् ।
हरीणाम् इयम् अज्ञाता विपत्तिः सहसा आगता ॥४-५६-८॥

वैदेह्याः प्रिय कामेन कृतम् कर्म जटायुषा ।
गृध्र राजेन यत् तत्र श्रुतम् वः तत् अशेषतः ॥४-५६-९॥

तथा सर्वाणि भूतानि तिर्यक् योनि गतानि अपि ।
प्रियम् कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम् ॥४-५६-१०॥

अन्योन्यम् उपकुर्वन्ति स्नेह कारुण्य यन्त्रिताः ।
ततः तस्य उपकार अर्थम् त्यजत आत्मानम् आत्मना ॥४-५६-११॥

प्रियम् कृत्वा हि रामस्य धर्मज्ञेन जटायुषा ।
राघव अर्थे परिश्रान्ता वयम् संत्यक्त जीविताः ॥४-५६-१२॥
कांताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् ।

स सुखी गृध्र राजः तु रावणेन हतो रणे ।
मुक्तः च सुग्रीव भयात् गतः च परमाम् गतिम् ॥४-५६-१३॥

जटायुषो विनाशेन राज्ञो दशरथस्य च ।
हरणेन च वैदेह्याः संशयम् हरयो गताः ॥४-५६-१४॥

राम लक्ष्मणयोः वासाम् अरण्ये सह सीतया ।
राघवस्य च बाणेन वालिनः च तथा वधः ॥४-५६-१५॥
राम कोपात् अशेषाणाम् राक्षसाम् च तथा वधम् ।
कैकेय्या वर दानेन इदम् च विकृतम् कृतम् ॥४-५६-१६॥

तत् असुखम् अनुकीर्तितम् वचो
भुवि पतितान् च निरीक्ष्य वानरान् ।
भृश चकित मतिः महामतिः
कृपणम् उदाहृतवान् स गृध्रराजः ॥४-५६-१७॥

तत् तु श्रुत्वा तदा वाक्यम् अंगदस्य मुख उद्गतम् ।
अब्रवीत् वचनम् गृध्रः तीक्ष्ण तुण्डो महास्वनः ॥४-५६-१८॥

को अयम् गिरा घोषयति प्राणैः प्रियतरस्य मे ।
जटायुषो वधम् भ्रातुः कंपयन् इव मे मनः ॥४-५६-१९॥

कथम् आसीत् जनस्थाने युद्धम् राक्षस गृध्रयोः ।
नामधेयम् इदम् भ्रातुः चिरस्य अद्य मया श्रुतम् ॥४-५६-२०॥

इच्छेयम् गिरि दुर्गात् च भवद्भिः अवतारितुम् ।
यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ॥४-५६-२१॥
अति दीर्घस्य कालस्य परितुष्टो अस्मि कीर्तितनात् ।

तत् इच्छेयम् अहम् श्रोतुम् विनाशम् वानर ऋषभाः ॥४-५६-२२॥
भ्रातुः जटायुषः तस्य जनस्थान निवासिनः ।

तस्य एव च मम भ्रातुः सखा दशरथः कथम् ॥४-५६-२३॥
यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरु जन प्रियः ।

सूर्य अंशु दग्ध पक्षत्वात् न शक्नोमि विसर्पितुम् ।
इच्छेयम् पर्वतात् अस्मात् अवतर्तुम् अरिन्दमाः ॥४-५६-२४॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः ॥४-५६॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कडियाँ[सम्पाद्यताम्]