रामायणम्/किष्किन्धाकाण्डम्/सर्गः ७

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ६ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ८ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तमः सर्गः ॥४-७॥

एवम् उक्तः तु सुग्रीवः रामेण आर्तेन वानरः ।
अब्रवीत् प्राञ्जलिः वाक्यम् सबाष्पम् बाष्प गद्गदः ॥४-७-१॥

न जाने निलयम् तस्य सर्वथा पाप रक्षसः ।
सामर्थ्यम् विक्रमम् वा अपि दौष्कुलेयस्य वा कुलम् ॥४-७-२॥

सत्यम् तु प्रतिजानामि त्यज शोकम् अरिन्दम ।
करिष्यामि तथा यत्नम् यथा प्राप्स्यसि मैथिलीम् ॥४-७-३॥

रावणम् सगणम् हत्वा परितोष्य आत्म पौरुषम् ।
तथा अस्मि कर्ता नचिराद् यथा प्रीतो भविष्यसि ॥४-७-४॥

अलम् वैक्लव्यम् आलम्ब्य धैर्यम् आत्मगतम् स्मर ।
त्वत् विधानाम् न सदृशम् ईदृशम् बुद्धि लाघवम् ॥४-७-५॥

मया अपि व्यसनम् प्राप्तम् भार्या विरहजम् महत् ।
न अहम् एवम् हि शोचामि धैर्यम् न च परित्यजे ॥४-७-६॥

न अहम् ताम् अनुशोचामि प्राकृतो वानरो अपि सन् ।
महात्मा च विनीतः च किम् पुनर् धृतिमान् महान् ॥४-७-७॥

बाष्पम् आपतितम् धैर्यात् निग्रहीतुम् त्वम् अर्हसि ।
मर्यादाम् सत्त्व युक्तानाम् धृतिम् न उत्स्रष्टुम् अर्हसि ॥४-७-८॥

व्यसने वा अर्थ कृच्छ्रे वा भये वा जीवितान्तगे ।
विमृशन् वै स्वया बुद्ध्या धृतिमान् न अवसीदति ॥४-७-९॥

बालिशस् तु नरो नित्यम् वैक्लब्यम् योऽनुवर्तते ।
स मज्जति अवशः शोके भार आक्रान्ता इव नौः जले ॥४-७-१०॥

एषो अन्जलिः मया बद्धः प्रणयात् त्वाम् प्रसादये ।
पौरुषम् श्रय शोकस्य न अन्तरम् दातुम् अर्हसि ॥४-७-११॥

ये शोकम् अनुवर्तन्ते न तेषाम् विद्यते सुखम् ।
तेजः च क्षीयते तेषाम् न त्वम् शोचितुम् अर्हसि ॥४-७-१२॥

शोकेन अभिप्रपन्नस्य जीविते च अपि संशयः ।
स शोकम् त्यज राजेन्द्र धैर्यम् आश्रय केवलम् ॥४-७-१३॥

हितम् वयस्य भावेन ब्रूमि न उपदिशामि ते ।
वयस्यताम् पूजयन् मे न त्वम् शोचितुम् अर्हसि ॥४-७-१४॥

मधुरम् सान्त्वितः तेन सुग्रीवेण स राघवः ।
मुखम् अश्रु परि क्लिन्नम् वस्त्र अन्तेन प्रमार्जयत् ॥४-७-१५॥

प्रकृतिः स्थः तु काकुत्स्थः सुग्रीव वचनात् प्रभुः ।
संपरिष्वज्य सुग्रीवम् इदम् वचनम् अब्रवीत् ॥४-७-१६॥

कर्तव्यम् यत् वयस्येन स्निग्धेन च हितेन च ।
अनुरूपम् च युक्तम् च कृतम् सुग्रीव तत् त्वया ॥४-७-१७॥

एष च प्रकृतिः स्थः अहम् अनुनीतः त्वया सखे ।
दुर्लभो हि ईदृशो बन्धुः अस्मिन् काले विशेषतः ॥४-७-१८॥

किम् तु यत्नः त्वया कार्यो मैथिल्याः परिमार्गणे ।
राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ॥४-७-१९॥

मया च यद् अनुष्ठेयम् विस्रब्धेन तत् उच्यताम् ।
वर्षासु इव च सुक्षेत्रे सर्वम् संपद्यते तव ॥४-७-२०॥

मया च यदिदम् वाक्यम् अभिमानात् समीरितम् ।
तत् त्वया हरिशार्दूल तत् त्वम् इति उपधार्यताम् ॥४-७-२१॥

अनृतम् न उक्त पूर्वम् मे न च वक्ष्ये कदाचन ।
एतत् ते प्रतिजानामि सत्येन एव शपामि अहम् ॥४-७-२२॥

ततः प्रहृष्टः सुग्रीवः वानरैः सचिवैः सह ।
राघवस्य वचः श्रुत्वा प्रतिज्ञातम् विशेषतः ॥४-७-२३॥

एवम् एकान्त संपृक्तौ ततः तौ नर वानरौ ।
उभौ अन्योन्य सदृशम् सुख दुःखम् अभाष्ताम् ॥४-७-२४॥

महानुभावस्य वचो निशम्य
हरिर् नृपाणाम् अधिपस्य तस्य ।
कृतम् स मेने हरिवीर मुख्यः
तदा च कार्यम् हृदयेन विद्वान् ॥४-७-२५॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे सप्तमः सर्गः ॥४-७॥