रामायणम्/किष्किन्धाकाण्डम्/सर्गः ५९

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५८ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ६० →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनषष्ठितमः सर्गः ॥४-५९॥

ततः तत् अमृत आस्वादम् गृध्र राजेन भाषितम् ।
निशम्य मुदितो हृष्टाः ते वचः प्लवगर्षभाः ॥४-५९-१॥

जांबवान् वानर श्रेष्ठः सह सर्वैः प्लवंगमैः ।
भू तलात् सहसा उत्थाय गृध्र राजानम् अब्रवीत् ॥४-५९-२॥

क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् ।
तत् आख्यातु भवान् सर्वम् गतिः भव वन ओकसाम् ॥४-५९-३॥

को दाशरथि बाणानाम् वज्र वेग निपातिनाम् ।
स्वयम् लक्ष्मणम् मुक्तानाम् न चिंतयति विक्रमम् ॥४-५९-४॥

स हरीन् प्रति संयुक्तान् सीता श्रुति समाहितान् ।
पुनः आश्वासयन् प्रीत इदम् वचनम् अब्रवीत् ॥४-५९-५॥

श्रूयताम् इह वैदेह्या यथा मे हरणम् श्रुतम् ।
येन च अपि मम आख्यातम् यत्र च आयत लोचना ॥४-५९-६॥

अहम् अस्मिन् गिरौ दुर्गे बहु योजनम् आयते ।
चिरात् निपतितो वृद्धः क्षीण प्राण पराक्रमः ॥४-५९-७॥

तम् माम् एवम् गतम् पुत्रः सुपार्श्वो नाम नामतः ।
आहारेण यथा कालम् बिभर्ति पतताम् वरः ॥४-५९-८॥

तीक्ष्ण कामाः तु गंधर्वाः तीक्ष्ण कोपा भुजंगमाः ।
मृगाणाम् तु भयम् तीक्ष्णम् ततः तीक्ष्ण क्षुधा वयम् ॥४-५९-९॥

स कदाचित् क्षुधा आर्तस्य मम आहार कान्क्षिणः ।
गत सूर्यो अहनि प्राप्तो मम पुत्रो हि अनामिषः ॥४-५९-१०॥

स मया आहार संरोधात् पीडितः प्रीति वर्धनः ।
अनुमान्य यथा तत्त्वम् इदम् वचनम् अब्रवीत् ॥४-५९-११॥

अहम् तात यथा कालम् आमिष अर्थी खम् आप्लुतः ।
महेन्द्रस्य गिरेः द्वारम् आवृत्य च सुसमाश्रितः ॥४-५९-१२॥

तत्र सत्त्व सहस्राणाम् सागर अन्तर चारिणाम् ।
पंथानम् एको अध्यवसम् संनिरोद्धुम् अवाङ् मुखः ॥४-५९-१३॥

तत्र कश्चित् मया दृष्टः सूर्य उदय सम प्रभाम् ।
स्त्रियम् आदाय गच्छन् वै भिन्न अंजन चय उपमः ॥४-५९-१४॥

सो अहम् अभ्यवहार अर्थम् तौ दृष्ट्वा कृत निश्चयः ।
तेन साम्ना विनीतेन पन्थानम् अनुयाचितः ॥४-५९-१५॥

न हि साम उपपन्नानाम् प्रहर्ता विद्यते भुवि ।
नीचेषु अपि जनः कश्चित् किम् अङ्ग बत मत् विधः ॥४-५९-१६॥

स यातः तेजसा व्योम संक्षिपन् इव वेगतः ।
अथ अहम् खे चरैः भूतैः अभिगम्य सभाजितः ॥४-५९-१७॥

दिष्ट्या जीवति सीत इति हि अब्रुवन् माम् महर्षयः ।
कथंचित् स कलत्रः असौ गतः ते स्वस्ति असंशयम् ॥४-५९-१८॥

एवम् उक्तः ततो अहम् तैः सिद्धैः परम शोभनैः ।
स च मे रावणो राजा रक्षसाम् प्रतिवेदितः ॥४-५९-१९॥
पश्यन् दाशरथेः भार्याम् रामस्य जनक आत्मजाम् ।
भ्रष्ट आभरण कौशेयाम् शोक वेग पराजिताम् ॥४-५९-२०॥
राम लक्ष्मणयोः नाम क्रोशन्तीम् मुक्त मूर्धजाम् ।

एष काल अत्ययः तात इति वाक्यविदाम् वरः ॥४-५९-२१॥
एतत् अर्थम् समग्रम् मे सुपार्श्वः प्रत्यवेदयत् ।

तत् श्रुत्वा अपि हि मे बुद्धिः न आसीत् काचित् पराक्रमे ॥४-५९-२२॥
अपक्षो हि कथम् पक्षी कर्म किंचित् समारभेत् ।

यत् तु शक्यम् मया कर्तुम् वाक् बुद्धि गुण वर्तिना ॥४-५९-२३॥
श्रूयताम् तत्र वक्ष्यामि भवताम् पौरुष आश्रयम् ।

वाक् मतिभ्याम् हि सार्वेषाम् करिष्यामि प्रियम् हि वः ॥४-५९-२४॥
यत् हि दाशरथेः कार्यम् मम तत् न अत्र संशयः ।

तत् भवन्तो मति श्रेष्ठा बलवन्तो मनस्विनः ॥४-५९-२५॥
प्रहिताः कपि राजेन देवैः अपि दुरासदाः ।

राम लक्ष्मण बाणाः च निशिताः कंक पत्रिणः ॥४-५९-२६॥
त्रयाणाम् अपि लोकानाम् पर्याप्ताः त्राण निग्रहे ।

कामम् खलु दशग्रीवः तेजो बल समन्वितः ।
भवताम् तु समर्थानाम् न किंचित् अपि दुष्करम् ॥४-५९-२७॥

तत् अलम् काल संगेन क्रियताम् बुद्धि निश्चयः ।
न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवत् विधाः ॥४-५९-२८॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे एकोनषष्ठितमः सर्गः ॥४-५९॥