रामायणम्/किष्किन्धाकाण्डम्/सर्गः २२

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः २१ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः २३ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्वाविंशः सर्गः ॥४-२२॥

वीक्षमाणः तु मंदासुः सर्वतो मंदम् उच्छ्वसन् ।
आदौ एव तु सुग्रीवम् ददर्श अनुजम् अग्रतः ॥४-२२-१॥

तम् प्राप्त विजयम् वाली सुग्रीवम् प्लवग ईश्वरम् ।
आभाष्य व्यक्तया वाचा सस्नेहम् इदम् अब्रवीत् ॥४-२२-२॥

सुग्रीव दोषेण न माम् गन्तुम् अर्हसि किल्बिषात् ।
कृष्यमाणम् भविष्येण बुद्धि मोहेन माम् बलात् ॥४-२२-३॥

युगपद् विहितम् तात न मन्ये सुखम् अवयोः ।
सौहार्दम् भ्रातृ युक्तम् हि तद् इदम् जातम् अन्यथा ॥४-२२-४॥

प्रतिपद्य त्वम् अद्य एव राज्यम् एषाम् वन ओकसाम् ।
माम् अपि अद्य एव गच्छंतम् विद्धि वैवस्वत क्षयम् ॥४-२२-५॥

जीवितम् च हि राज्यम् च श्रियम् च विपुलाम् इमाम् ।
प्रजहामि एष वै तूर्णम् अहम् च अगर्हितम् यशः ॥४-२२-६॥

अस्याम् त्वम् अहम् अवस्थायाम् वीर वक्ष्यामि यद् वचः ।
यदि अपि असुकरम् राजन् कर्तुम् एव तद् अर्हसि ॥४-२२-७॥

सुखार्हम् सुख संवृद्धम् बालम् एनम् अबालिशम् ।
बाष्प पूर्ण मुखम् पश्य भूमौ पतितम् अंगदम् ॥४-२२-८॥

मम प्राणैः प्रियतरम् पुत्रम् पुत्रम् इव औरसम् ।
मया हीनम् अहीनार्थम् सर्वतः परिपालय ॥४-२२-९॥

त्वम् अपि अस्य पिता दाता च परित्राता च सर्वतः ।
भयेषु अभयदः चैव यथा अहम् प्लवगेश्वर ॥४-२२-१०॥

एष तारात्मजः श्रीमान् त्वया तुल्य पराक्रमः ।
रक्षसाम् च वधे तेषाम् अग्रतः ते भविष्यति ॥४-२२-११॥

अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे ।
करिष्यति एष तारेयः तरस्वी तरुणो अंगदः ॥४-२२-१२॥

सुषेण दुहिता च इयम् अर्थ सूक्ष्म विनिश्चये ।
औत्पातिके च विविधे सर्वतः परिनिष्ठिता ॥४-२२-१३॥

यद् एष साधु इति ब्रूयात् कार्यम् तन् मुक्त संशयम् ।
न हि तारा मतम् किंचित् अन्यथा परिवर्तते ॥४-२२-१४॥

राघवस्य च ते कार्यम् कर्तव्यम् अविशंकया ।
स्यात् अधर्मो हि अकरणे त्वाम् च हिंस्यात् अमानितः ॥४-२२-१५॥

इमाम् च मालाम् आधत्स्व दिव्याम् सुग्रीव कांचनीम् ।
उदारा श्रीः स्थिता हि अस्याम् संप्रजह्यात् मृते मयि ॥४-२२-१६॥

इति एवम् उक्तः सुग्रीवो वालिना भ्रातृ सौहृदात् ।
हर्षम् त्यक्त्वा पुनर् दीनो ग्रह ग्रस्त इव उडु राट् ॥४-२२-१७॥

तत् वालि वचनात् शान्तः कुर्वन् युक्तम् अतंद्रितः ।
जग्राह सो अभ्यनुज्ञातो मालाम् ताम् चैव कांचनीम् ॥४-२२-१८॥

ताम् मालाम् कांचनीम् दत्त्वा वाली दृष्ट्वा आत्मजम् स्थितम् ।
संसिद्धः प्रेत्य भावाय स्नेहात् अंगदम् अब्रवीत् ॥४-२२-१९॥

देश कालौ भजस्व अद्य क्षममाणः प्रिय अप्रिये ।
सुख दुःख सहः काले सुग्रीव वशगो भव ॥४-२२-२०॥

यथा हि त्वम् महाबाहो लालितः सततम् मया ।
न तथा वर्तमानम् त्वाम् सुग्रीवो बहु मन्यते ॥४-२२-२१॥

ना अस्य अमित्रैः गतम् गच्छेः मा शत्रुभिः अरिंदम ।
भर्तुः अर्थ परो दान्तः सुग्रीव वशगो भव ॥४-२२-२२॥

न च अतिप्रणयः कार्यः कर्तव्यो अप्रणयः च ते ।
उभयम् हि महादोषम् तस्मात् अंतर दृक् भव ॥४-२२-२३॥

इति उक्त्वा अथ विवृत्त अक्षः शर संपीडितो भृशम् ।
विवृतैः दशनैः भीमैः बभूव उत्क्रान्त जीवितः ॥४-२२-२४॥

ततो विचुक्रुशुर् तत्र वानरा हत यूथपाः ।
परिदेवयमानाः ते सर्वे प्लवग सत्तमाः ॥४-२२-२५॥

किष्किन्धा हि अथ शून्या च स्वर् गते वानरेश्वरे ।
उद्यानानि च शून्यानि पर्वताः कानानि च ॥४-२२-२६॥
हते प्लवग शार्दूले निष् प्रभा वानराः कृताः ।

यस्य वेगेन महता काननानि वनानि च ॥४-२२-२७॥
पुष्प ओघेण अनुबद्धन्ते करिष्यति तत् अद्य कहः ।

येन दत्तम् महत् युद्धम् गन्धर्वस्य महात्मनः ॥४-२२-२८॥
गोलभस्य महाबाहुः दश वर्षाणि पंच च ।
न एव रात्रौ न दिवसे तत् युद्धम् उपशाम्यति ॥४-२२-२९॥

ततः षोडशमे वर्षे गोलभो विनिपातितः ।
तम् हत्वा दुर्विनीतिम् तु वाली दंष्ट्र करालवान् ।
सर्वा अभयम् करः अस्माकम् कथम् एष निपातितः ॥४-२२-३०॥

हते तु वीरे प्लवगाधिपे तदा
प्लवंगमाः तत्र न शर्म लेभिरे ।
वने चराः सिंह युते महावने
यथा हि गावो निहते गवाम् पतौ ॥४-२२-३१॥

ततः तु तारा व्यसन अर्णव प्लुता
मृतस्या भर्तुर् वदनम् समीक्ष्य सा ।
जगाम भूमिम् परिरभ्य वालिनम्
महा द्रुमम् छिन्नम् इव आश्रिता लता ॥४-२२-३२॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे द्वाविंशः सर्गः ॥४-२२॥