रामायणम्/किष्किन्धाकाण्डम्/सर्गः ३७

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← सर्गः ३६ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ३८ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः ॥४-३७॥

एवम् उक्तः तु सुग्रीवो लक्ष्मणेन महात्मना ।
हनूमन्तम् स्थितम् पार्श्वे वचनम् च इदम् अब्रवीत् ॥४-३७-१॥

महेन्द्र हिमवत् विंध्य कैलास शिखरेषु च ।
मन्दरे पाण्डु शिखरे पंच शैलेषु ये स्थिताः ॥४-३७-२॥
तरुण आदित्य वर्णेषु भ्राजमानेषु नित्यशः ।
पर्वतेषु समुद्र अंते पश्चिमस्याम् तु ये दिशि ॥४-३७-३॥
आदित्य भवने चैव गिरौ संध्या अभ्र संनिभे ।
पद्म ताल वनम् भीमाः संश्रिता हरि पुंगवाः ॥४-३७-४॥
अंजन अंबुद संकाशाः कुंजर प्रतिम ओजसः ।
अंजने पर्वते चैव ये वसन्ति प्लवंगमाः ॥४-३७-५॥
महाशैल गुहा आवासा वानराः कनक प्रभाः ।
मेरु पार्श्व गताः चैव ये च धूम्र गिरिम् श्रिताः ॥४-३७-६॥
तरुण आदित्य वर्णाः च पर्वते ये महाअरुणे ।
पिबंतो मधु मैरेयम् भीम वेगाः प्लवंगमाः ॥४-३७-७॥
वनेषु च सुरम्येषु सुगन्धिषु महत्सु च ।
तापस आश्रम रम्येषु वन अन्तेषु समंततः ॥४-३७-८॥
तान् तान् त्वम् आनय क्षिप्रम् पृथिव्याम् सर्व वानरान् ।
साम दान आदिभिः कल्पैः वानरैः वेगवत्तरैः ॥४-३७-९॥

प्रेषिताः प्रथमम् ये च मया आज्ञाताः महाजवाः ।
त्वरण अर्थम् तु भूयः त्वम् संप्रेषय हरीश्वरान् ॥४-३७-१०॥

ये प्रसक्ताः च कामेषु दीर्घ सूत्राः च वानराः ।
इह आनयस्व तान् शीघ्रम् सर्वान् एव कपीश्वरान् ॥४-३७-११॥

अहोभिः दशभिः ये च न आगच्छन्ति मम आज्ञया ।
हन्तव्याः ते दुरात्मानो राज शासन दूषकाः ॥४-३७-१२॥

शतानि अथ सहस्राणि कोट्यः च मम शासनात् ।
प्रयान्तु कपि सिंहानाम् निदिशे मम ये स्थिताः ॥४-३७-१३॥

मेघ पर्वत संकाशाः छादयन्त इव अंबरम् ।
घोर रूपाः कपि श्रेष्ठा यान्तु मत् शासनात् इतः ॥४-३७-१४॥

ते गतिज्ञा गतिम् गत्वा पृथिव्याम् सर्व वानराः ।
आनयंतु हरीन् सर्वान् त्वरिताः शासनान् मम ॥४-३७-१५॥

तस्य वानर राजस्य श्रुत्वा वायु सुतो वचः ।
दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान् ॥४-३७-१६॥

ते पदम् विष्णु विक्रान्तम् पतत्रि ज्योतिः अध्वगाः ।
प्रयाताः प्रहिता राज्ञा हरयः तु क्षणेन वै ॥४-३७-१७॥

ते समुद्रेषु गिरिषु वनेषु च सरःसु च ।
वानरा वानरान् सर्वान् राम हेतोः अचोदयन् ॥४-३७-१८॥

मृत्यु काल उपमस्य आज्ञाम् राज राजस्य वानराः ।
सुग्रीवस्य आययुः श्रुत्वा सुग्रीव भय शन्किताः ॥४-३७-१९॥

ततः ते अंजन संकाशा गिरेः तस्मात् महाजवाः ।
तिस्रः कोट्यः प्लवंगानाम् निर्ययुर् यत्र राघवः ॥४-३७-२०॥

अस्तम् गच्छति यत्र अर्कः तस्मिन् गिरिवरे रताः ।
संतप्त हेम वर्ण आभा तस्मात् कोट्यो दश च्युताः ॥४-३७-२१॥

कैलास शिखरेभ्यः च सिंह केसर वर्चसाम् ।
ततः कोटि सहस्राणि वानराणाम् समागमन् ॥४-३७-२२॥

फल मूलेन जीवन्तो हिमवन्तम् उपाश्रिताः ।
तेषाम् कोटि सहस्राणाम् सहस्रम् समवर्तत ॥४-३७-२३॥

अंगारक समानानाम् भीमानाम् भीम कर्मणाम् ।
विंध्यात् वानर कोटीनाम् सहस्राणि अपतन् द्रुतम् ॥४-३७-२४॥

क्षीर उद वेला निलयाः तमाल वन वासिनः ।
नारि केल अशनाः चैव तेषाम् संख्या न विद्यते ॥४-३७-२५॥

वनेभ्यो गह्वरेभ्यः च सरित्भ्यः च महाबलाः ।
आगच्छत् वानरी सेना पिबन्ति इव दिवा करम् ॥४-३७-२६॥

ये तु त्वरयितुम् याता वानराः सर्व वानरान् ।
ते वीरा हिमवत् शैले ददृशुः तम् महाद्रुमम् ॥४-३७-२७॥

तस्मिन् गिरि वरे पुण्ये यज्ञो माहेश्वरः पुरा ।
सर्व देव मनः तोषो बभूव सु मनोरमः ॥४-३७-२८॥

अन्न निस्यंद जातानि मूलानि च फलानि च ।
अमृत स्वादु कल्पानि ददृशुः तत्र वानराः ॥४-३७-२९॥

तत् अन्न संभवम् दिव्यम् फलम् मूलम् मनोहरम् ।
यः कश्चित् सकृत् अश्नाति मासम् भवति तर्पितः ॥४-३७-३०॥

तानि मूलानि दिव्यानि फलानि च फल अशनाः ।
औषधानि च दिव्यानि जगृहुर् हरि पुंगवाः ॥४-३७-३१॥

तस्मात् च यज्ञ आयतनात् पुष्पाणि सुरभीणि च ।
आनिन्युर् वानरा गत्वा सुग्रीव प्रिय कारणात् ॥४-३७-३२॥

ते तु सर्वे हरिवराः पृथिव्याम् सर्व वानरान् ।
संचोदयित्वा त्वरितम् यूथानाम् जग्मुर् अग्रतः ॥४-३७-३३॥

ते तु तेन मुहूर्तेन कपयः शीघ्र चारिणः ।
किष्किंधाम् त्वरया प्राप्ताः सुग्रीवो यत्र वानरः ॥४-३७-३४॥

ते गृहीत्वा ओषधीः सर्वाः फल मूलम् च वानराः ।
तम् प्रतिग्राहयामासुर् वचनम् च इदम् अब्रुवन् ॥४-३७-३५॥

सर्वे परिसृताः शैलाः सरितः च वनानि च ।
पृथिव्याम् वानराः सर्वे शासनात् उपयान्ति ते ॥४-३७-३६॥

एवम् श्रुत्वा ततो हृष्टः सुग्रीवः प्लवग अधिपः ।
प्रतिजग्राह च प्रीतः तेषाम् सर्वम् उपायनम् ॥४-३७-३७॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः ॥४-३७॥