रामायणम्/किष्किन्धाकाण्डम्/सर्गः ४७

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ४६ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ४८ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः ॥४-४७॥

दर्शनार्थम् तु वैदेह्याः सर्वतः कपि कुंजराः ।
व्यादिष्टाः कपि राजेन यथा उक्तम् जग्मुर् अंजसा ॥४-४७-१॥

ते सरांसि सरित् कक्षान् आकाशम् नगराणि च ।
नदी दुर्गान् तथा शैलान् विचिन्वन्ति समन्ततः ॥४-४७-२॥

सुग्रीवेण समाख्याताः सर्वे वानर यूथपाः ।
तत्र देशान् प्रविचिन्वन्ति स शैल वन काननान् ॥४-४७-३॥

विचिन्त्य दिवसम् सर्वे सीता अधिगमने धृताः ।
समायान्ति स्म मेदिन्याम् निशा कालेषु वानराः ॥४-४७-४॥

सर्व ऋतुकान् च देशेषु वानराः स फलान् द्रुमान् ।
आसाद्य रजनीम् शय्याम् चक्रुः सर्वेषु अहस्सु ते ॥४-४७-५॥

तत् अहः प्रथमम् कृत्वा मासे प्रस्रवणम् गताः ।
कपि राजेन संगम्य निराशाः कपि कुंजराः ॥४-४७-६॥

विचित्य तु दिशम् पूर्वाम् यथा उक्ताम् सचिवैः सह ।
अदृष्ट्वा विनतः सीताम् आजगाम महाबलः ॥४-४७-७॥

दिशम् अपि उत्तराम् सर्वाम् विविच्य स महाकपिः ।
आगतः सह सैन्येन वीरः शतबलिः तदा ॥४-४७-८॥

सुषेणः पश्चिमाम् आशाम् विविच्य सह वानरैः ।
समेत्य मासे पूर्णे तु सुग्रीवम् उपचक्रमे ॥४-४७-९॥

तम् प्रस्रवण पृष्ठस्थम् समासाद्य अभिवाद्य च ।
आसीनम् सह रामेण सुग्रीवम् इदम् अब्रुवन् ॥४-४७-१०॥

विचिताः पर्वताः सर्वे वनानि गहनानि च ।
निम्नगाः सागर अन्ताः च सर्वे जनपदाः तथा ॥४-४७-११॥

गुहाः च विचिताः सर्वा याः च ते परिकीर्तिताः ।
विचिताः च महागुल्मा लता वितत संतताः ॥४-४७-१२॥

गहनेषु च देशेषु दुर्गेषु विषमेषु च ।
सत्त्वानि अतिप्रमाणानि विचितानि हतानि च ।
ये चैव गहना देशा विचिताः ते पुनः पुनः ॥४-४७-१३॥

उदार सत्त्व अभिजनो हनूमान्
स मैथिलीम् ज्ञास्यसि वानरेन्द्र ।
दिशम् तु याम् एव गता तु सीता
ताम् आस्थितो वायु सुतो हनूमान् ॥४-४७-१४॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः ॥४-४७॥