रामायणम्/किष्किन्धाकाण्डम्/सर्गः ६६

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ६५ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ६७ →
षट्षष्ठितमः सर्गः श्रूयताम्


श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षट्षष्ठितमः सर्गः ॥४-६६॥

अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् ०१
जाम्बवान् समुदीक्ष्यैवं हनुमन्तमथाब्रवीत् ०१
वीर वानरलोकस्य सर्वशास्त्रमथाब्रवीत् ०२
तूष्णीमेकान्तमाश्रित्य हनुमन् किं न जल्पसि ०२
हनुमन् हरिराजस्य सुग्रीवस्य समो ह्यसि ०३
रामलक्ष्मणयोश्चापि तेजसा च बलेन च ०३
अरिष्टनेमिनः पुत्रौ वैनतेयो महाबलः ०४
गरुत्मानिव विख्यात उत्तमः सर्वपक्षिणाम् ०४
बहुशो हि मया दृष्टः सागरे स महाबलः ०५
भुजगानुद्धरन् पक्षी महावेगो महायशाः ०५
पक्षयोर्यद्बलं तस्य तावद्भुजबलं तव ०६
विक्रमश्चापि वेगश्च न ते तेनापहीयते ०६
बलं बुद्धिश्च तेजश्च सत्त्वं च हरिसत्तम ०७
विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे ०७
अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला ०८
अञ्जनेति परिख्याता पत्नी केसरिणो हरेः ०८
अभिशापादभूत्तात वानरी कामरूपिणी ०९
दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः ०९
कपित्वे चारुसर्वाङ्गी कदा चित्कामरूपिणी १०
मानुषं विग्रहं कृत्वा यौवनोत्तमशालिनी १०
अचरत्पर्वतस्याग्रे प्रावृडम्बुदसंनिभे ११
विचित्रमाल्याभरणा महार्हक्षौमवासिनी ११
तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् १२
स्थितायाः पर्वतस्याग्रे मारुतोऽपहरच्छनैः १२
स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ १३
स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् १३
तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम् १४
दृष्ट्वैव शुभसर्वाग्नीं पवनः काममोहितः १४
स तां भुजाभ्यां पीनाभ्यां पर्यष्वजत मारुतः १५
मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम् १५
सा तु तत्रैव संभ्रान्ता सुवृत्ता वाक्यमब्रवीत् १६
एकपत्नीव्रतमिदं को नाशयितुमिच्छति १६
अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत १७
न त्वां हिंसामि सुश्रोणि मा भूत्ते सुभगे भयम् १७
मनसास्मि गतो यत्त्वां परिष्वज्य यशस्विनि १८
वीर्यवान् बुद्धिसंपन्नः पुत्रस्तव भविष्यति १८
अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने १९
फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्यपतो दिवम् १९
शतानि त्रीणि गत्वाथ योजनानां महाकपे २०
तेजसा तस्य निर्धूतो न विषादं ततो गतः २०
तावदापततस्तूर्णमन्तरिक्षं महाकपे २१
क्षिप्तमिन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता २१
ततः शैलाग्रशिखरे वामो हनुरभज्यत २२
ततो हि नामधेयं ते हनुमानिति कीर्त्यते २२
ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम् २३
त्रैलोक्ये भृशसंक्रुद्धो न ववौ वै प्रभञ्जनः २३
संभ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षुभिते सति २४
प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः २४
प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ २५
अशस्त्रवध्यतां तात समरे सत्यविक्रम २५
वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च २६
सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् २६
स्वच्छन्दतश्च मरणं ते भूयादिति वै प्रभो २७
स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः २७
मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः २८
त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः २८
वयमद्य गतप्राणा भवानस्मासु साम्प्रतम् २९
दाक्ष्यविक्रमसंपन्नः पक्षिराज इवापरः २९
त्रिविक्रमे मया तात सशैलवनकानना ३०
त्रिः सप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ३०
तदा चौषधयोऽस्माभिः संचिता देवशासनात् ३१
निष्पन्नममृतं याभिस्तदासीन्नो महद्बलम् ३१
स इदानीमहं वृद्धः परिहीनपराक्रमः ३२
साम्प्रतं कालमस्माकं भवान् सर्वगुणान्वितः ३२
तद्विजृम्भस्व विक्रान्तः प्लवतामुत्तमो ह्यसि ३३
त्वद्वीर्यं द्रष्टुकामेयं सर्वा वानरवाहिनी ३३
उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् ३४
परा हि सर्वभूतानां हनुमन् या गतिस्तव ३४
विषाण्णा हरयः सर्वे हनुमन् किमुपेक्षसे ३५
विक्रमस्व महावेगो विष्णुस्त्रीन् विक्रमानिव ३५
ततस्तु वै जाम्बवताभिचोदितः॑ प्रतीतवेगः पवनात्मजः कपिः ३६
प्रहर्षयंस्तां हरिवीर वाहिनीं॑ चकार रूपं महदात्मनस्तदा ३६


अनेक शत साहस्रीम् विषण्णाम् हरि वाहिनीम् ।
जांबवान् समुदीक्ष्य एवम् हनुमंतम् अथ अब्रवीत् ॥४-६६-१॥

वीर वानर लोकस्य सर्व शास्त्र विदाम् वर ।
तूष्णीम् एकांतम् आश्रित्य हनुमन् किम् न जल्पसि ॥४-६६-२॥

हनुमन् हरि राजस्य सुग्रीवस्य समो हि असि ।
राम लक्ष्मणयोः च अपि तेजसा च बलेन च ॥४-६६-३॥

अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः ।
गरुत्मान् इव विख्यात उत्तमः सर्व पक्षिणाम् ॥४-६६-४॥

बहुशो हि मया दृष्टः सागरे स महाबलः ।
भुजगान् उद्धरन् पक्षी महावेगो महायशाः ॥४-६६-५॥

पक्षयोः यत् बलम् तस्य तावत् भुज बलम् तव ।
विक्रमः च अपि वेगः च न ते तेन अपहीयते ॥४-६६-६॥

बलम् बुद्धिः च तेजः च सत्त्वम् च हरि सत्तम ।
विशिष्टम् सर्व भूतेषु किम् आत्मानम् न सज्जसे ॥४-६६-७॥

अप्सर अप्सरसाम् श्रेष्ठा विख्याता पुंजिकस्थला ।
अंजना इति परिख्याता पत्नी केसरिणो हरेः ॥४-६६-८॥

विख्याता त्रिषु लोकेषु रूपेणा अप्रतिमा भुवि ।
अभिशापात् अभूत् तात कपित्वे काम रूपिणी ॥४-६६-९॥

दुहिता वानर इन्द्रस्य कुंजरस्य महात्मनः ।
मानुषम् विग्रहम् कृत्वा रूप यौवन शालिनी ॥४-६६-१०॥
विचित्र माल्य आभरणा कदाचित् क्षौम धारिणी ।
अचरत् पर्वतस्य अग्रे प्रावृड् अंबुद सन्निभे ॥४-६६-११॥

तस्या वस्त्रम् विशालाक्ष्याः पीतम् रक्त दशम् शुभम् ।
स्थितायाः पर्वतस्य अग्रे मारुतो अपहरत् शनैः ॥४-६६-१२॥

स ददर्श ततः तस्या वृत्तौ ऊरू सुसंहतौ ।
स्तनौ च पीनौ सहितौ सुजातम् चारु च आननम् ॥४-६६-१३॥

ताम् बलात् आयत श्रोणीम् तनु मध्याम् यशस्विनीम् ।
दृष्ट्वा एव शुभ सर्वान्गीम् पवनः काम मोहितः ॥४-६६-१४॥

स ताम् भुजाभ्याम् दीर्घाभ्याम् पर्यष्वजत मारुतः ।
मन्मथ आविष्ट सर्वान्गो गत आत्मा ताम् अनिन्दिताम् ॥४-६६-१५॥

सा तु तत्र एव संभ्रांता सुवृत्ता वाक्यम् अब्रवीत् ।
एक पत्नी व्रतम् इदम् को नाशयितुम् इच्छति ॥४-६६-१६॥

अंजनाया वचः श्रुत्वा मारुतः प्रत्यभाषत ।
न त्वाम् हिंसामि सुश्रोणि मा भूत् ते मनसोइ भयम् ॥४-६६-१७॥

मनसा अस्मि गतो यत् त्वाम् परिष्वज्य यशस्विनि ।
वीर्यवान् बुद्धि संपन्नः पुत्रः तव भविष्यति ॥४-६६-१८॥

महासात्त्वो महातेज महाबल पराक्रमः ।
लंघने प्लवने चैव भविष्यति मया समः ॥४-६६-१९॥

एवम् उक्ता ततः तुष्टा जननी ते महाकपेः ।
गुहायाम् त्वाम् महाबाहो प्रजज्ञे प्लवगर्षभ ॥४-६६-२०॥

अभ्युत्थितम् ततः सूर्यम् बालो दृष्ट्वा महा वने ।
फलंचेतिजिघृक्षुस्त्वमुत्प्लुत्याभ्युत्पतोदिवम् - यद्वा -
फलम् च इति जिघृक्षुः त्वम् उत्प्लुत्य अभिउत्पतो दिवम् ॥४-६६-२१॥

शतानि त्रीणि गत्वा अथ योजनानाम् महाकपे ।
तेजसा तस्य निर्धूतो न विषादम् ततो गतः ॥४-६६-२२॥

त्वाम् अपि उपगतम् तूर्णम् अंतरीक्षम् महाकपे ।
क्षिप्तम् इन्द्रेण ते वज्रम् कोप आविष्टेन तेजसा ॥४-६६-२३॥

तदा शैलाग्र शिखरे वामो हनुर् अभज्यत ।
ततो हि नाम धेयम् ते हनुमान् इति कीर्तितम् ॥४-६६-२४॥

ततः त्वाम् निहतम् दृष्ट्वा वायुः गन्ध वहः स्वयम् ।
त्रैलोक्यम् भृश संक्रुद्धो न ववौ वै प्रभंजनः ॥४-६६-२५॥

संभ्रांताः च सुराः सर्वे त्रैलोक्ये क्षुभिते सति ।
प्रसादयन्ति संक्रुद्धम् मारुतम् भुवनेश्वराः ॥४-६६-२६॥

प्रसादिते च पवने ब्रह्मा तुभ्यम् वरम् ददौ ।
अशस्त्र वध्यताम् तात समरे सत्य विक्रम ॥४-६६-२७॥

वज्रस्य च निपातेन विरुजम् त्वाम् समीक्ष्य च ।
सहस्र नेत्रः प्रीत आत्मा ददौ ते वरम् उत्तमम् ॥४-६६-२८॥
स्वच्छंदतः च मरणम् तव स्यात् इति वै प्रभो ।

स त्वम् केसरिणः पुत्रः क्षेत्रजो भीम विक्रमः ॥४-६६-२९॥
मारुतस्य औरसः पुत्रः तेजसा च अपि तत् समः ।
त्वम् हि वायु सुतो वत्स प्लवने च अपि तत् समः ॥४-६६-३०॥

वयम् अद्य गत प्राणा भवान् अस्मासु सांप्रतम् ।
दाक्ष्य विक्रम संपन्नः कपि राज इव अपरः ॥४-६६-३१॥

त्रिविक्रमे मया तात स शैल वन कानना ।
त्रिः सप्त कृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ॥४-६६-३२॥

तथा च ओषधयो अस्माभिः संचिता देव शासनात् ।
निर्मथ्यम् अमृतम् याभिः तदा तदानीम् नो महत् बलम् ॥४-६६-३३॥

स इदानीम् अहम् वृद्धः परिहीन पराक्रमः ।
साम्प्रतम् कालम् अस्माकम् भवान् सर्व गुण अन्वितः ॥४-६६-३४॥

तत् विजृंभस्व विक्रांतः प्लवताम् उत्तमो हि असि ।
त्वत् वीर्यम् द्रष्टु कामा इयम् सर्वा वानर वाहिनी ॥४-६६-३५॥

उत्तिष्ठ हरि शार्दूल लंघयस्व महा अर्णवम् ।
परा हि सर्व भूतानाम् हनुमन् या गतिः तव ॥४-६६-३६॥

विषाण्णा हरयः सर्वे हनुमन् किम् उपेक्षसे ।
विक्रमस्व महावेग विष्णुः त्रीन् विक्रमान् इव ॥४-६६-३७॥

ततः कपीनाम् ऋषभेण चोदितः
प्रतीत वेगः पवन आत्मजः कपिः ।
प्रहर्षयन् ताम् हरि वीर वाहिनीम्
चकार रूपम् महत् आत्मनः तदा ॥४-६६-३८॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे षट्षष्ठितमः सर्गः ॥४-६६॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।

संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कडियाँ[सम्पाद्यताम्]