रामायणम्/किष्किन्धाकाण्डम्/सर्गः २५

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः २४ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः २६ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चविंशः सर्गः ॥४-२५॥

स सुग्रीवम् च ताराम् च स अंगदाम् सह लक्ष्मणः ।
समान शोकः काकुत्स्थः सांत्वयन् इदम् अब्रवीत् ॥४-२५-१॥

न शोक परितापेन श्रेयसा युज्यते मृतः ।
यद् अत्र अनंतरम् कार्यम् तत् समाधातुम् अर्हथ ॥४-२५-२॥

लोक वृत्तम् अनुष्ठेयम् कृतम् वो बाष्प मोक्षणम् ।
न कालाद् उत्तरम् किंचित् कर्म शक्यम् उपासितुम् ॥४-२५-३॥

नियतिः कारणम् लोके नियतिः कर्म साधनम् ।
नियतिः सर्व भूतानाम् नियोगेषु इह कारणम् ॥४-२५-४॥

न कर्ता कस्यचित् कश्चित् नियोगे च अपि न ईश्वरः ।
स्वभावे वर्तते लोकः तस्य कालः परायणम् ॥४-२५-५॥

न कालः कालम् अत्येति न कालः परिहीयते ।
स्वभावम् च समासाद्य न कश्चित् अतिवर्तते ॥४-२५-६॥

न कालस्य अस्ति बंधुत्वम् न हेतुर् न पराक्रमः ।
न मित्र ज्ञाति संबन्धः कारणम् न आत्मनो वशः ॥४-२५-७॥

किम् तु काल परीणामो द्रष्टव्यः साधु पश्यता ।
धर्मः च अर्थः च कामः च कालक्रम समाहिताः ॥४-२५-८॥

इतः स्वाम् प्रकृतिम् वाली गतः प्राप्तः क्रिया फलम् ।
साम दान अर्थ संयोगैः पवित्रम् प्लवग ईश्वर ॥४-२५-९॥

स्व धर्मस्य च संयोगात् जितः तेन महात्मना ।
स्वर्गः परिगृहीतः च प्राणान् अपरिरक्षता ॥४-२५-१०॥

एषा वै नियतिः श्रेष्ठा याम् गतो हरि यूथपः ।
तत् अलम् परितापेन प्राप्त कालम् उपास्यताम् ॥४-२५-११॥

वचन अन्ते तु रामस्य लक्ष्मणः पर वीर हा ।
अवदत् प्रश्रितम् वाक्यम् सुग्रीवम् गत चेतसम् ॥४-२५-१२॥

कुरु त्वम् अस्य सुग्रीव प्रेत कार्यम् अनंतरम् ।
तारा अंगदाभ्याम् सहितो वालिनो दहनम् प्रति ॥४-२५-१३॥

समाज्ञापय काष्ठानि शुष्काणि च बहूनि च ।
चन्दनानि च दिव्यानि वालि संस्कार कारणात् ॥४-२५-१४॥

समाश्वासय दीनम् त्वम् अंगदम् दीन चेतसम् ।
मा भूः बालिश बुद्धिः त्वम् त्वत् अधीनम् इदम् पुरम् ॥४-२५-१५॥

अंगदः तु आनयेत् माल्यम् वस्त्राणि विविधानि च ।
घृतम् तैलम् अथो गन्धान् यत् च अत्र समनंतरम् ॥४-२५-१६॥

त्वम् तार शिबिकाम् शीघ्रम् आदाय आगच्छ संभ्रमात् ।
त्वरा गुणवती युक्ता हि अस्मिन् काले विशेषतः ॥४-२५-१७॥

सज्जी भवन्तु प्लवगाः शिबिक वाहन उचिताः ।
समर्था बलिनः चैव निर्हरिष्यन्ति वालिनम् ॥४-२५-१८॥

एवम् उक्त्वा तु सुग्रीवम् सुमित्र आनन्द वर्धनः ।
तस्थौ भ्रातृ समीपस्थो लक्ष्मणः पर वीरहा ॥४-२५-१९॥

लक्ष्मणस्य वचः श्रुत्वा तारः संभ्रान्त मानसः ।
प्रविवेश गुहाम् शीघ्रम् शिबिका आसक्त मानसः ॥४-२५-२०॥

आदाय शिबिकाम् तारः स तु पर्यापयत् पुनः ।
वानरैः उह्यमानाम् ताम् शूरैः उद्वहन उचितैः ॥४-२५-२१॥

दिव्याम् भद्र आसन युताम् शिबिकाम् स्यंदन उपमम् ।
पक्षि कर्मभिः आचित्राम् द्रुम कर्म विभूषिताम् ॥४-२५-२२॥
अचिताम् चित्र पत्तीभिः सुनिविष्टाम् समंततः ।
विमानम् इव सिद्धानाम् जाल वात आयान आयुताम् ॥४-२५-२३॥
सुनियुक्तानाम् विशालाम् च सुकृताम् शिल्पिभिः कृतात् ।
दारु पर्वतकोपेताम् चारु कर्म परिष्कृताम् ॥४-२५-२४॥
वर आभरण हारैः च चित्र माल्य उपशोभिताम् ।
गुहागहन संच्छन्नाम् रक्त चन्दन भूषिताम् ॥४-२५-२५॥
पुष्प ओघैः समभिच्छन्नाम् पद्म मालाभिः एव च ।
तरुण आदित्य वर्णाभिः भ्राजमानभिः आवृताम् ॥४-२५-२६॥

ईदृशी शिबिकाम् दृष्ट्वा रमो लक्ष्मणम् अब्रवीत् ।
क्षिप्रम् विनीयताम् वली प्रेत कार्यम् विधीयताम् ॥४-२५-२७॥

ततो वालिनम् उद्यम्य सुग्रीवः शिबिकाम् तदा ।
आरोपयत विक्रोशन् अंगदेन सह एव तु ॥४-२५-२८॥

आरोप्य शिबिकाम् चैव वालिनम् गत जीवितम् ।
अलंकारैः च विविधैः माल्यैः वस्त्रैः च भूषितम् ॥४-२५-२९॥
आज्ञापयत् तदा राजा सुग्रीवः प्लवग ईश्वरः ।
और्ध्व देहिकम् आर्यस्य क्रियताम् अनुरूपतः ॥४-२५-३०॥

विश्राणयन्तो रत्नानि विविधानि बहूनि च ।
अग्रतः प्लवगा यान्तु शिबिका तद् अनंतरम् ॥४-२५-३१॥

राज्ञाम् ऋद्धि विशेषा हि दृश्यन्ते भुवि यादृशाः ।
तादृशैः इह कुर्वन्तु वानरा भ्रतृउ सत् क्रियाम् ॥४-२५-३२॥

तादृशम् वालिनः क्षिप्रम् प्राकुर्वन् और्ध्वदैहिकम् ।
अंगदम् परिरभ्य आशु तार प्रभृतयः तथा ॥४-२५-३३॥
क्रोशन्तः प्रययुः सर्वे वानरा हत बान्धवाः ।

ततः प्रणिहिताः सर्वा वानर्यो अस्य वशानुगाः ॥४-२५-३४॥
चुक्रुशुः वीर वीर इति भूयः क्रोशन्ती ताः प्रियम् ।

तारा प्रभृतयः सर्वा वानर्यो हत बान्धव ॥४-२५-३५॥
अनुजग्मुः च भर्तारम् क्रोशंत्यः करुण स्वनाः ।

तासाम् रुदित शब्देन वानरीणाम् वन अंतरे ॥४-२५-३६॥
वनानि गिरयः चैव विक्रोशंति इव सर्वतः ।

पुलिने गिरि नद्याः तु विविक्ते जल संवृते ॥४-२५-३७॥
चिताम् चक्रुः सुबहवो वानरा वन चारिणः ।

अवरोप्य ततः स्कंधात् शिबिकाम् वानरोत्तमाः ॥४-२५-३८॥
तस्थुः एकांतम् आश्रित्य सर्वे शोक परायणाः ।

ततः तारा पतिम् दृष्ट्वा शिबिका तल शायिनम् ॥४-२५-३९॥
आरोप्य अंके शिरः तस्य विललाप सुदुःखिता ।

हा वानर महाराज हा नाथ माम् वत्सल ॥४-२५-४०॥
हा महार्हः महाबाहो हा मम प्रिय पश्य माम् ।
जनम् न पश्यसि इमम् त्वम् कस्मात् शोक अभिपीडितम् ॥४-२५-४१॥

प्रहृष्टम् इह ते वक्त्रम् गत असोः अपि मानद ।
अस्त अर्क सम वर्णम् च दृश्यते जीवतो यथा ॥४-२५-४२॥

एष त्वाम् राम रूपेण कालः कर्षति वानर ।
येन स्म विधवाः सर्वाः कृता एक इषुणा रणे ॥४-२५-४३॥

इमाः ताः तव राजेन्द्र वानर्यो अप्लवगाः तव।
पादैः विकृष्टम् अध्वानम् आगताः किम् न बुध्यसे ॥४-२५-४४॥
तव इष्टा ननु चैव इमा भार्याः चन्द्र निभ आननाः ।

इदानीम् न ईक्षसे कस्मात् सुग्रीवम् प्लवग ईश्वरम् ॥४-२५-४५॥
एते हि सचिवा राजन् तार प्रभृतयः तव ।
पुर वासि जनः च अयम् परिवार्य विषीदति ॥४-२५-४६॥

विसर्जय एनान् सचिवान् यथा उचितम् अरिन्दम ।
ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः ॥४-२५-४७॥

एवम् विलपतीम् ताराम् पति शोक परीवृताम् ।
उत्थापयन्ति स्म तदा वानर्यः शोक कर्शिताः ॥४-२५-४८॥

सुग्रीवेण ततः सार्धम् अंगदः पितरम् रुदन् ।
चिताम् आरोपयामास शोकेन अभिप्लुत इन्द्रियः ॥४-२५-४९॥

ततो अग्निम् विधिवत् दत्त्वा सो अपसव्यम् चकार ह ।
पितरम् दीर्घम् अध्वानम् प्रस्थितम् व्याकुल इन्द्रियः ॥४-२५-५०॥

संस्कृत्य वालिनम् तम् तु विधिवत् प्लवगर्षभाः ।
आजग्मुः उदकम् कर्तुम् नदीम् शुभ जलाम् शिवाम् ॥४-२५-५१॥

ततः ते सहिताः तत्र हि सः अंगदम् स्थाप्य च अग्रतः ।
सुग्रीव तारा सहिताः सिषिचुः वानरा जलम् ॥४-२५-५२॥

सुग्रीवेण एव दीनेन दीनो भूत्वा महाबलः ।
समान शोकः काकुत्स्थः प्रेत कार्याणि अकारयत् ॥४-२५-५३॥

ततो अथ तम् वालिनम् अग्र्य पौरुषम्
प्रकाशम् इक्ष्वाकु वर इषुणा हतम् ।
प्रदीप्य दीप्त अग्नि सम ओजसम् तदा
स लक्ष्मणम् रामम् उपेयवान् हरिः ॥४-२५-५४॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे पञ्चविंशः सर्गः ॥४-२५॥