रामायणम्/किष्किन्धाकाण्डम्/सर्गः ५५

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५४ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ५६ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चपञ्चाशः सर्गः ॥४-५५॥

श्रुत्वा हनुमतो वाक्यम् प्रश्रितम् धर्म संहितम् ।
स्वामि सत्कार संयुक्तम् अंगदो वाक्यम् अब्रवीत् ॥४-५५-१॥

स्थैर्यमात्ममनःशौचमानृशंस्यमथाअर्जवम् - यद्व -
स्थैर्यम् आत्म मनः शौचम् आनृशंस्यम् अथ आर्जवम् ।
विक्रमः चैव धैर्यम् च सुग्रीवे न उपपद्यते ॥४-५५-२॥

भ्रातुः ज्येष्ठस्य यो भार्याम् जीवितो महिषीम् प्रियाम् ।
धर्मेण मातरम् यः तु स्वीकरोति जुगुप्सितः ॥४-५५-३॥
कथम् स धर्मम् जानीते येन भ्रात्रा दुरात्मना ।
युद्धाय अभिनियुक्तेन बिलस्य पिहितम् मुखम् ॥४-५५-४॥

सत्यात् पाणि गृहीतः च कृत कर्मा महायशाः ।
विस्मृतो राघवो येन स कस्य सुकृतम् स्मरेत् ॥४-५५-५॥

लक्ष्मणस्य भयेन इह न अधर्म भय भीरुणा ।
आदिष्टा मार्गितुम् सीताम् धर्मः तस्मिन् कथम् भवेत् ॥४-५५-६॥

तस्मिन् पापे कृतघ्ने तु स्मृति भिन्ने चल आत्मनि ।
आर्यः को विश्वसेत् जातु तत् कुलीनो विशेषतः ॥४-५५-७॥

राज्ये पुत्रः प्रतिष्ठाप्यः स गुणो निर्गुणो अपि वा ।
कथम् शत्रु कुलीनम् माम् सुग्रीवो जीवयिष्यति ॥४-५५-८॥

भिन्न मन्त्रो अपराद्धः च हीन शक्तिः कथम् हि अहम् ।
किष्किन्धाम् प्राप्य जीवेयम् अनाथ इव दुर्बलः ॥४-५५-९॥

उपांशु दण्डेन हि माम् बंधनेन उपपादयेत् ।
शठः क्रूरो नृशंसः च सुग्रीवो राज्य कारणात् ॥४-५५-१०॥

बंधनात् च अवसादात् मे श्रेयः प्रायोपवेशनम् ।
अनुजानंतु माम् सर्वे गृहम् गच्छंतु वानराः ॥४-५५-११॥

अहम् वः प्रतिजानामि न गमिष्यामि अहम् पुरीम् ।
इह एव प्रायम् आसिष्ये श्रेयो मरणम् एव मे ॥४-५५-१२॥

अभिवादन पूर्वम् तु राजा कुशलम् एव च ।
अभिवादन पूर्वम् तु राघवौ बलशालिनौ ॥४-५५-१३॥
वाच्यः तातः यवीयान् मे सुग्रीवो वानर ईश्वरः ।

आरोग्य पूर्वम् कुशलम् वाच्या माता रुमा च मे ॥४-५५-१४॥
मातरम् चैव मे ताराम् आश्वासयितुम् अर्हथ ।
प्रकृत्या प्रिय पुत्रा सा सानुक्रोशा तपस्विनी ॥४-५५-१५॥
विनष्टम् माम् इह श्रुत्वा व्यक्तम् हास्यति जीवितम् ।

एतावत् उक्त्वा वचनम् वृद्धान् तान् अभिवाद्य च ॥४-५५-१६॥
विवेश अंगदो भूमौ रुदन् दर्भेषु दुर्मनाः ।

तस्य संविशतः तत्र रुदन्तो वानर ऋषभाः ॥४-५५-१७॥
नयनेभ्यः प्रमुमुचुः उष्णम् वै वारि दुःखिताः ।

सुग्रीवम् चैव निन्दन्तः प्रशंसन्तः च वालिनम् ॥४-५५-१८॥
परिवार्य अंगदम् सर्वे व्यवस्यन् प्रायम् आसितुम् ।

तत् वाक्यम् वालि पुत्रस्य विज्ञाय प्लवग ऋषभाः ॥४-५५-१९॥
उपस्पृश्य उदकम् सर्वे प्राक् मुखाः समुपाविशन् ।
दक्षिण अग्रेषु दर्भेषु उदक् तीरम् समाश्रिताः ॥४-५५-२०॥
मुमूर्षवओ हरिश्रेष्टा एतत् क्षमम् इति स्म ह ।

रामस्य वन वासम् च क्षयम् दशरथस्य च ॥४-५५-२१॥
जनस्थान वधम् चैव वधम् चैव जटायुषः ।
हरणम् चैव वैदेह्या वालिनः च वधम् तथा ।
राम कोपम् च वदताम् हरीणाम् भयम् आगतः ॥४-५५-२२॥

स संविशद्भिः बहुभिः महीधरो
महाअद्रि कूट प्रमितैः प्लवंगमैः ।
बभूव सन्नादित निर्दर अन्तरो
भृशम् नदद्भिः जलदैः इव अंबरम् ॥४-५५-२३॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे पञ्चपञ्चाशः सर्गः ॥४-५५॥