रामायणम्/किष्किन्धाकाण्डम्/सर्गः ८

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ७ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ९ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टमः सर्गः ॥४-८॥

परितुष्टः तु सुग्रीवः तेन वाक्येन हर्षितः ।
लक्ष्मणस्य अग्रजम् शूरम् इदम् वचनम् अब्रवीत् ॥४-८-१॥

सर्वथा अहम् अनुग्राह्यो देवतानाम् न संशयः ।
उपपन्नः गुण उपेतः सखा यस्य भवान् मम ॥४-८-२॥

शक्यम् खलु भवेत् राम सहायेन त्वया अनघ ।
सुर राज्यम् अपि प्राप्तुम् स्व राज्यम् किमुत प्रभो ॥४-८-३॥

सोऽहम् सभाज्यो बन्धूनाम् सुहृदाम् चैव राघव ।
यस्य अग्नि साक्षिकम् मित्रम् लब्धम् राघव वंशजम् ॥४-८-४॥

अहम् अपि अनुरूपः ते वयस्यो ज्ञास्यसे शनैः ।
न तु वक्तुम् समर्थोऽहम् त्वयि आत्मगतान् गुणान् ॥४-८-५॥

महात्मनाम् तु भूयिष्ठम् त्वत् विधानाम् कृत आत्मनाम् ।
निश्चला भवति प्रीतिः धैर्यम् आत्मवताम् वर ॥४-८-६॥

रजतम् वा सुवर्णम् वा शुभानि आभरणानि च ।
अविभक्तानि साधूनाम् अवगच्छन्ति साधवः ॥४-८-७॥

आढ्यो वा अपि दरिद्रो वा दुःखितः सुखितोऽपि वा ।
निर्दोषः च सदोषः च वयस्यः परमा गतिः ॥४-८-८॥

धन त्यागः सुख त्यागो देश त्यागोऽपि वा अनघः ।
वयस्यार्थे प्रवर्तन्ते स्नेहम् दृष्ट्वा तथा विधम् ॥४-८-९॥

तत् तथा इति अब्रवीत् रामः सुग्रीवम् प्रिय दर्शनम् ।
लक्ष्मणस्य अग्रतः लक्ष्म्या वासवस्य इव धीमतः ॥४-८-१०॥

ततो रामम् स्थितम् दृष्ट्वा लक्ष्मणम् च महाबलम् ।
सुग्रीवः सर्वतः चक्षुः वने लोलम् अपातयत् ॥४-८-११॥

स ददर्श ततः सालम् अविदूरे हरीश्वरः ।
सुपुष्पम् ईषत् पत्र आढ्यम् भ्रमरैः उपशोभितम् ॥४-८-१२॥

तस्य एकाम् पर्ण बहुलाम् शाखाम् भंक्त्वा सुशोभिताम् ।
रामस्य आस्तीर्य सुग्रीवो निषसाद स राघवः ॥४-८-१३॥

तौ आसीनौ ततः दृष्ट्वा हनूमान् अपि लक्ष्मणम् ।
साल शाखाम् समुत्पाट्य विनीतम् उपवेशयत् ॥४-८-१४॥

सुख उपविष्टम् रामम् तु प्रसन्नम् उदधिम् यथा ।
साल पुष्पाव संकीर्णे तस्मिन् गिरिवर उत्तमे ॥४-८-१५॥
ततः प्रहृष्टः सुग्रीवः श्लक्ष्णया शुभया गिरा ।
उवाच प्रणयाद् रामम् हर्ष व्याकुलित अक्षरम् ॥४-८-१६॥

अहम् विनिकृतो भ्रात्रा चरामि एष भयार्दितः ।
ऋष्यमूकम् गिरि वरम् हृत भार्यः सुदुःखितः ॥४-८-१७॥

सोऽहम् त्रस्तः भये मग्नः वने संब्रान्त चेतनः ।
वालिना निकृतः भ्रात्रा कृत वैरः च राघव ॥४-८-१८॥

वालिनः मे भय आर्तस्य सर्वलोक अभयंकर ।
मम अपि त्वम् अनाथस्य प्रसादम् कर्तुम् अर्हसि ॥४-८-१९॥

एवम् उक्तः तु तेजस्वी धर्मज्ञो धर्म वत्सलः ।
प्रत्युवाच स काकुत्स्थः सुग्रीवम् प्रहसन् इव ॥४-८-२०॥

उपकार फलम् मित्रम् अपकारो अरि लक्षणम् ।
अद्य एव तम् वधिष्यामि तव भार्या अपहारिणम् ॥४-८-२१॥

इमे हि मे महाभाग पत्रिणः तिग्म तेजसः ।
कार्तिकेय वन उद्भूताः शरा हेम विभूषिताः ॥४-८-२२॥
कन्क पत्र परिच्छन्ना महेन्द्र अशनि सन्निभाः ।
सुपर्वाणः सुतीक्ष्ण अग्रा सरोषा भुजगा इव ॥४-८-२३॥

वालि सज्ञम् अमित्रम् ते भ्रातरम् कृत किल्बिषम् ।
शरैः विनिहतम् पश्य विकीर्णम् इव पर्वतम् ॥४-८-२४॥

राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनी पतिः ।
प्रहर्षम् अतुलम् लेभे साधु साध्विति च अब्रवीत् ॥४-८-२५॥

राम शोक अभिभूतो अहम् शोक आर्तानाम् भवान् गतिः ।
वयस्य इति कृत्वा हि त्वयि अहम् परिदेवये ॥४-८-२६॥

त्वम् हि पाणि प्रदानेन वयस्यो मे अग्नि साक्षिकम् ।
कृतः प्राणैः बहुमतः सत्येन च शपामि अहम् ॥४-८-२७॥

वयस्य इति कृत्वा च विस्रब्धः प्रवदामि अहम् ।
दुःखम् अन्तर्गतम् तन् मे मनो हरति नित्यशः ॥४-८-२८॥

एतावत् उक्त्वा वचनम् बाष्प दूषित लोचनः ।
बाष्प दूषितया वाचा न उच्चैः श्क्नोति भाषितुम् ॥४-८-२९॥

बाष्प वेगम् तु सहसा नदी वेगम् इव आगतम् ।
धारयामास धैर्येण सुग्रीवः राम संनिधौ ॥४-८-३०॥

स निगृह्य तु तम् बाष्पम् प्रमृज्य नयने शुभे ।
विनिःश्वस्य च तेजस्वी राघवम् पुनरूचिवान् ॥४-८-३१॥

पुरा अहम् वलिना राम राज्यात् स्वात् अवरोपितः ।
परुषाणि च संश्राव्य निर्धूतो अस्मि बलीयसा ॥४-८-३२॥

हृता भार्या च मे तेन प्राणेभ्यो अपि गरीयसी ।
सुहृदः च मदीया ये संयता बन्धनेषु ते ॥४-८-३३॥

यत्नवान् च स दुष्टात्मा मद् विनाशाय राघव ।
बहुशः तत् प्रयुक्ताः च वानरा निहता मया ॥४-८-३४॥

शंकया एतया अहम् च दृष्ट्वा त्वाम् अपि राघव ।
न उपसर्पामि अहम् भीतो भये सर्वे हि बिभ्यति ॥४-८-३५॥

केवलम् हि सहाया मे हनुमत् प्रमुखास्त्विमे ।
अतः अहम् धारयामि अद्य प्राणान् कृच्छ्र गतः अपि सन् ॥४-८-३६॥

एते हि कपयः स्निग्धा माम् रक्षन्ति समन्ततः ।
सह गच्छन्ति गन्तव्ये नित्यम् तिष्ठन्ति च स्थिते ॥४-८-३७॥

संक्षेपः ते एष मे राम किम् उक्त्वा विस्तरम् हि ते ।
स मे ज्येष्ठो रिपुः भ्राता वाली विश्रुत पौरुषः ॥४-८-३८॥

तद् विनाशे अपि मे दुःखम् प्रमृष्टम् स्यात् अनन्तरम् ।
सुखम् मे जीवितम् चैव तद् विनाश निबन्धनम् ॥४-८-३९॥

एष मे राम शोकान्तः शोक आर्तेन निवेदितः ।
दुःखितः सुखितः वा अपि सख्युः नित्यम् सखा गतिः ॥४-८-४०॥

श्रुत्वा एतत् च वचः रामः सुग्रीवम् इदम् अब्रवीत् ।
किम् निमित्तम् अभूत् वैरम् श्रोतुम् इच्छामि तत्त्वतः ॥४-८-४१॥

सुखम् हि कारणम् श्रुत्वा वैरस्य तव वानर ।
आनन्तर्यद् विधास्यामि संप्रधार्य बलाबलम् ॥४-८-४२॥

बलवान् हि मम अमर्षः श्रुत्वा त्वाम् अवमानितम् ।
वर्धते हृदय उत्कम्पी प्रावृड् वेग इव अंभसः ॥४-८-४३॥

हृष्टः कथय विस्रब्धो यावत् आरोप्यते धनुः ।
सृष्टः च हि मया बाणो निरस्तः च रिपुः तव ॥४-८-४४॥

एवम् उक्तः तु सुग्रीवः काकुत्स्थेन महात्मना ।
प्रहर्षम् अतुलम् लेभे चतुर्भिः सह वानरैः॥४-८-४५॥

ततः प्रहृ^इष्ट वदनः सुग्रीवः लक्ष्मणाग्रजे ।
वैरस्य कारणम् तत्त्वम् आख्यातुम् उपचक्रमे ॥४-८-४६॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे अष्टमः सर्गः ॥४-८॥