रामायणम्/किष्किन्धाकाण्डम्/सर्गः ३८

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ३७ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ३९ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टात्रिंशः सर्गः ॥४-३८॥

प्रतिगृह्य च तत् सर्वम् उपानयम् उपाहृतम् ।
वानरान् सान्त्वयित्वा च सर्वान् एव व्यसर्जयत् ॥४-३८-१॥

विसर्जयित्वा स हरीन् सहस्रान् तान् कृत कर्मणः ।
मेने कृतार्थम् आत्मानम् राघवम् च महाबलम् ॥४-३८-२॥

स लक्ष्मणो भीम बलम् सर्व वानर सत्तमम् ।
अब्रवीत् प्रश्रितम् वाक्यम् सुग्रीवम् संप्रहर्षयन् ॥४-३८-३॥
किष्किंधाया विनिष्क्राम यदि ते सौम्य रोचते ।

तस्य तत् वचनम् श्रुत्वा लक्ष्मणस्य सुभाषितम् ॥४-३८-४॥
सुग्रीवः परम प्रीतो वाक्यम् एतत् उवाच ह ।
एवम् भवतु गच्छामः स्थेयम् त्वत् शासने मया ॥४-३८-५॥

तम् एवम् उक्त्वा सुग्रीवो लक्ष्मणम् शुभ लक्षणम् ।
विसर्जयामास तदा तारा अद्याः च एव योषितः ॥४-३८-६॥

एहि इति उच्छैः हरि वरान् सुग्रीवः समुदाहरत् ।
तस्य तद् वचनम् श्रुत्वा हरयः शीघ्रम् आययुः ॥४-३८-७॥
बद्ध अंजलि पुटाः सर्वे ये स्युः स्त्री दर्शन क्षमाः ।

तान् उवाच ततः प्राप्तान् राजा अर्क सदृश प्रभः ॥४-३८-८॥
उपस्थापयत क्षिप्रम् शिबिकाम् मम वानराः ।

श्रुत्वा तु वचनम् तस्य हरयः शीघ्र विक्रमाः ॥४-३८-९॥
समुपस्थापयामासुः शिबिकाम् प्रिय दर्शनाम् ।

ताम् उपस्थापिताम् दृष्ट्वा शिबिकाम् वानराधिपः ॥४-३८-१०॥
लक्ष्मण आरुह्यताम् शीघ्रम् इति सौमित्रिम् अब्रवीत् ।

इति उक्त्वा कांचनम् यानम् सुग्रीवः सूर्य सन्निभम् ॥४-३८-११॥
बहुभिः हरिभिः युक्तम् आरुरोह स लक्ष्मणः ।

पाण्डुरेण आतपत्रेण ध्रियमाणेन मूर्धनि ॥४-३८-१२॥
शुक्लैः च वाल व्यजनैः धूयमानैः समंततः ।
शंख भेरी निनादैः च वन्दिभिः च अभिवन्दितः ॥४-३८-१३॥
निर्ययौ प्राप्य सुग्रीवो राज्य श्रियम् अनुत्तमाम् ।

स वानर शतैः तीष्क्णैः बहुभिः शस्त्र पाणिभिः ॥४-३८-१४॥
परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः ।

स तम् देशम् अनुप्राप्य श्रेष्ठम् राम निषेवितम् ॥४-३८-१५॥
अवातरत् महातेजाः शिबिकायाः स लक्ष्मणः ।

आसाद्य च ततो रामम् कृत अंजलि पुटो अभवत् ॥४-३८-१६॥
कृत अंजलौ स्थिते तस्मिन् वानराः च अभवन् तथा ।

तटाकम् इव तम् दृष्ट्वा रामः कुड्मल पंकजम् ॥४-३८-१७॥
वानराणाम् महत् सैन्यम् सुग्रीवे प्रीतिमान् अभूत् ।

पादयोः पतितम् मूर्ध्ना तम् उत्थाप्य हरीश्वरम् ॥४-३८-१८॥
प्रेम्णा च बहुमानात् च राघवः परिषस्वजे ।

परिष्वज्य च धर्मात्मा निषीद इति ततो अब्रवीत् ॥४-३८-१९॥
निषण्णम् तम् ततो दृष्ट्वा क्षितौ रामो अब्रवीत् ततः ।

धर्मम् अर्थम् च कामम् च काले यः तु निषेवते ॥४-३८-२०॥
विभज्य सततम् वीर स राजा हरिसत्तम ।

हित्वा धर्मम् तथा अर्थम् च कामम् यः तु निषेवते ॥४-३८-२१॥
स वृक्ष अग्रे यथा सुप्तः पतितः प्रतिबुध्यते ।

अमित्राणाम् वधे युक्तो मित्राणाम् संग्रहे रतः ॥४-३८-२२॥
त्रिवर्ग फल भोक्ता च राजा धर्मेण युज्यते ।

उद्योग समयः तु एष प्राप्तः शत्रु निषूदन ॥४-३८-२३॥
संचिंत्यताम् हि पिंगेश हरिभिः सह मंत्रिभिः ।

एवम् उक्तः तु सुग्रीवो रामम् वचनम् अब्रवीत् ॥४-३८-२४॥
प्रनष्टा श्रीः च कीर्तिः च कपि राज्यम् च शाश्वतम् ।
त्वत् प्रसादात् महाबाहो पुनः प्राप्तम् इदम् मया ॥४-३८-२५॥

तव देव प्रसदात् च भ्रातुः च जयताम् वर ।
कृतम् न प्रतिकुर्यात् यः पुरुषाणाम् स दूषकः ॥४-३८-२६॥

एते वानर मुख्याः च शतशः शत्रु सूदन ।
प्राप्ताः च आदाय बलिनः पृथिव्याम् सर्व वानरान् ॥४-३८-२७॥
ऋक्षाः च वानराः शूरा गोलांगूलाः च राघव ।
कांतार वन दुर्गाणाम् अभिज्ञा घोर दर्शनाः ॥४-३८-२८॥

देव गन्धर्व पुत्राः च वानराः काम रूपिणः ।
स्वैः स्वैः परिवृताः सैन्यैः वर्तन्ते पथि राघव ॥४-३८-२९॥

शतैः शत सहस्रैः च कोटिभिः च प्लवंगमाः ।
अयुतैः च आवृता वीरा शंकुभिः च परंतप ॥४-३८-३०॥
अर्बुदैः अर्बुद शतैः मध्यैः च अन्तैः च वानराः ।
समुद्राः च परार्धाः च हरयो हरि यूथपाः ॥४-३८-३१॥
आगमिष्यन्ति ते राजन् महेन्द्र सम विक्रमाः ।
मेघ पर्वत संकाशा मेरु विन्ध्य कृत आलयाः ॥४-३८-३२॥

ते त्वाम् अभिगमिष्यन्ति राक्षसम् योद्धुम् आहवे ।
निहत्य रावणम् युद्धे हि आनयिष्यन्ति मैथिलीम् ॥४-३८-३३॥

ततः समुद्योगम् अवेक्ष्य वीर्यवान्
हरि प्रवीरस्य निदेश वर्तिनः ।
बभूव हर्षात् वसुधा अधिप आत्मजः
प्रबुद्ध नील उत्पल तुल्य दर्शनः ॥४-३८-३४॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे अष्टात्रिंशः सर्गः ॥४-३८॥