रामायणम्/किष्किन्धाकाण्डम्/सर्गः ६३

विकिस्रोतः तः
Jump to navigation Jump to search


श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिषष्ठितमः सर्गः ॥४-६३॥

एतैः अन्यैः च बहुभिः वाक्यैः वाक्य विशारदः ।
माम् प्रशस्य अभ्यनुज्ञाप्य प्रविष्टः स स्वम् आलयम् ॥४-६३-१॥

कंदरात् तु विसर्पित्वा पर्वतस्य शनैः शनैः ।
अहम् विंध्यम् समारुह्य भवतः प्रतिपालये ॥४-६३-२॥

अद्य तु एतस्य कालस्य साग्रम् वर्ष शतम् गतम् ।
देश काल प्रतीक्षो अस्मि हृदि कृत्वा मुनेः वचः ॥४-६३-३॥

महाप्रस्थानम् आसाद्य स्वर् गते तु निशाकरे ।
माम् निर्दहति संतापो वितर्कैः बहुभिः वृतम् ॥४-६३-४॥

उदिताम् मरणे बुद्धिम् मुनि वाक्यैः निवर्तये ।
बुद्धिः या तेन मे दत्ता प्राणानाम् रक्षणे मम ॥४-६३-५॥
सा मे अपनयते दुःखम् दीप्ता इव अग्नि शिखा तमः ।

बुध्यता च मया वीर्यम् रावणस्य दुरात्मनः ॥४-६३-६॥
पुत्रः संतर्जितो वाग्भिः न त्राता मैथिली कथम् ।

तस्या विलपितम् श्रुत्वा तौ च सीता वियोजितौ ॥४-६३-७॥
न मे दशरथ स्नेहात् पुत्रेण उत्पादितम् प्रियम् ।

तस्य तु एवम् ब्रुवाणस्य संहतैः वानरैः सह ॥४-६३-८॥
उत्पेततुः तदा पक्षौ समक्षम् वन चारिणाम् ।

स दृष्ट्वा स्वाम् तनुम् पक्षैः उद्गतैः अरुण च्छदैः ॥४-६३-९॥
प्रहर्षम् अतुलम् लेभे वानरान् च इदम् अब्रवीत् ।

निशाकरस्य राजर्षेः प्रभावात् अमित ओजसः ॥४-६३-१०॥
आदित्य रश्मि निर्दग्धौ पक्षौ पुनः उपस्थितौ ।

यौवने वर्तमानस्य मम आसीत् यः पराक्रमः ॥४-६३-११॥
तम् एव अद्य अवगच्छामि बलम् पौरुषम् एव च ।

सर्वथा क्रियताम् यत्नः सीताम् अधिगमिष्यथ ॥४-६३-१२॥
पक्ष लाभो मम अयम् वः सिद्धि प्रत्यय कारकः ।

इति उक्त्वा तान् हरीन् सर्वान् संपातिः पतगोत्तम ॥४-६३-१३॥
उत्पपात गिरेः शृंगात् जिज्ञासुः ख गमो गतिम् ।

तस्य तत् वचनम् श्रुत्वा प्रतिसंहृष्ट मानसाः ।
बभूवुः हरि शार्दूला विक्रम अभ्युदय उन्मुखाः ॥४-६३-१४॥

अथ पवन समान विक्रमाः
प्लवग वराः प्रतिलब्ध पौरुषाः ।
अभिजित् अभिमुखाम् दिशम् ययुः
जनक सुता परिमार्गण उन्मुखाः ॥४-६३-१५॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे त्रिषष्ठितमः सर्गः ॥४-६३॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कडियाँ[सम्पाद्यताम्]