रामायणम्/किष्किन्धाकाण्डम्/सर्गः ३०

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः २९ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ३१ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिंशः सर्गः ॥४-३०॥

गुहाम् प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः ।
वर्ष रात्रे स्थितो रामः काम शोक अभिपीडितः ॥४-३०-१॥
पाण्डुरम् गगनम् दृष्ट्वा विमलम् चन्द्र मण्डलम् ।
शारदीम् रजनीम् चैव दृष्ट्वा ज्योत्स्न अनुलेपनाम् ॥४-३०-२॥
काम वृत्तम् च सुग्रीवम् नष्टाम् च जनक आत्मजाम् ।
दृष्ट्वा कालम् अतीतम् च मुमोह परम आतुरः ॥४-३०-३॥

स तु संज्ञाम् उपागम्य मुहूर्तात् मतिमान् नृपः ।
मनः स्थाम् अपि वैदेहीम् चिंतयामास राघवः ॥४-३०-४॥

दृष्ट्वा च विमलम् व्योम गत विद्युत् बलाहकम् ।
सारस आरव संघुष्टम् विललाप आर्तया गिरा ॥४-३०-५॥

आसीनः पर्वतस्य अग्रे हेम धातु विभूषिते ।
शारदम् गगनम् दृष्ट्वा जगाम मनसा प्रियाम् ॥४-३०-६॥

सारस आरव संनादैः सारस आरव नादिनी ।
या आश्रमे रमते बाला सा अद्य मे रमते कथम् ॥४-३०-७॥

पुष्पिताम् च आसनान् दृष्ट्वा कांचनान् इव निर्मलान् ।
कथम् सा रमते बाला पश्यंती माम् अपश्यती ॥४-३०-८॥

या पुरा कलहंसानाम् स्वरेण कल भाषिणी ।
बुध्यते चारु सर्वांगी सा अद्य मे रमते कथम् ॥४-३०-९॥

निःस्वनम् चक्रवाकानाम् निशम्य सहचारिणाम् ।
पुण्डरीकविशालाक्षी कथम् एषा भविष्यति ॥४-३०-१०॥

सरांसि सरितो वापीः काननानि वनानि च ।
ताम् विना मृगशावाक्षीम् चरन् न अद्य सुखम् लभे ॥४-३०-११॥

अपि ताम् मत् वियोगात् च सौकुमार्यात् च भामिनीम् ।
सुदूरम् पीडयेत् कामः शरत् गुण निरंतरः ॥४-३०-१२॥

एवम् आदि नरश्रेष्ठो विललाप नृपात्मजः ।
विहंग इव सारंगः सलिलम् त्रिदशेश्वरात् ॥४-३०-१३॥

ततः चंचूर्य रम्येषु फलार्थी गिरि सानुषु ।
ददर्श पर्युपावृत्तो लक्ष्मीवान् लक्ष्मणो अग्रजम् ॥४-३०-१४॥

स चिन्तया दुस्सहया परीतम्
विसंज्ञम् एकम् विजने मनस्वी ।
भ्रातुर् विषादात् त्वरितो अति दीनः
समीक्ष्य सौमित्रिः उवाच रामम् ॥४-३०-१५॥

किम् आर्य कामस्य वशम् गतेन
किम् आत्म पौरुष्य पराभवेन ।
अयम् ह्रिया संह्रियते समाधिः
किम् अत्र योगेन निवर्तितेन ॥४-३०-१६॥

क्रियाभियोगम् मनसः प्रसादम्
समाधि योग अनुगतम् च कालम् ।
न जानकी मानव वंश नाथ
त्वया सनाथा सुलभा परेण ।
न च अग्नि चूडाम् ज्वलिताम् उपेत्य
न दह्यते वीर वरार्ह कश्चित् ॥४-३०-१७॥

सलक्षणम् लक्ष्मणम् अप्रधृष्यम्
स्वभावजम् वाक्यम् उवाच रामः ।
हितम् च पथ्यम् च नय प्रसक्तम्
ससाम धर्मार्थ समाहितम् च ॥४-३०-१८॥

निस्संशयम् कार्यम् अवेक्षितव्यम्
क्रिया विशेषो अपि अनुवर्तितव्यः ।
न तु प्रवृद्धस्य दुरासदस्य
कुमार वीर्यस्य फलम् च चिन्त्यम् ॥४-३०-१९॥

अथ पद्म पलाश अक्षीम् मैथिलीम् अनुचिन्तयन् ।
उवाच लक्ष्मणम् रामो मुखेन परिशुष्यता ॥४-३०-२०॥

तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम् ।
निर्वर्तयित्वा सस्यानि कृत कर्मा व्यवस्थितः ॥४-३०-२१॥

दीर्घ गंभीर निर्घोषाः शैल द्रुम पुरोगमाः ।
विसृज्य सलिलम् मेघाः परिश्रांता नृप आत्मज ॥४-३०-२२॥

नील उत्पल दल श्यामः श्यामी कृत्वा दिशो दश ।
विमदा इव मातंगाः शान्त वेगाः पयो धराः ॥४-३०-२३॥

जल गर्भा महा वेगाः कुटज अर्जुन गंधिनः ।
चरित्वा विरताः सौम्य वृष्टि वाताः समुद्यताः ॥४-३०-२४॥

घनानाम् वारणानाम् च मयूराणाम् च लक्ष्मण ।
नादः प्रस्रवणानाम् च प्रशान्तः सहसा अनघ ॥४-३०-२५॥

अभिवृष्टा महा मेघैः निर्मलाः चित्र सानवः ।
अनुलिप्ता इव आभान्ति गिरयः चन्द्र रश्मिभिः ॥४-३०-२६॥

शाखासु सप्त च्छद पादपानाम्
प्रभासु तार अर्क निशा कराणाम् ।
लीलासु चैव उत्तम वारणानाम्
श्रियम् विभज्य अद्य शरत् प्रवृत्ता ॥४-३०-२७॥

संप्रति अनेक आश्रय चित्र शोभा
लक्ष्मीः शरत् काल गुण उपपन्ना ।
सूर्य अग्र हस्त प्रतिबोधितेषु
पद्माकरेषु अभ्यधिकम् विभाति ॥४-३०-२८॥

सप्त च्छदानाम् कुसुमोप गंधी
षट् पाद वृन्दैः अनुगीयमानः ।
मत्त द्विपानाम् पवन अनुसारी
दर्पम् विनेष्यन् अधिकम् विभाति ॥४-३०-२९॥

अभ्यागतैः चारु विशाल पक्षैः
सरः प्रियैः पद्म रजो अवकीर्णैः ।
महा नदीनाम् पुलिन उपयातैः
क्रीडन्ति हंसाः सह चक्रवाकैः ॥४-३०-३०॥

मद प्रगल्भेषु च वारिणेषु
गवाम् समूहेषु च दर्पितेषु ।
प्रसन्न तोयासु च निम्न गासु
विभाति लक्ष्मीः बहुधा विभक्ता ॥४-३०-३१॥

नभः समीक्ष्या अंबु धरैः विमुक्तम्
विमुक्त बर्ह आभरणा वनेषु ।
प्रियासु अरक्ता विनिवृत्त शोभा
गत उत्सवा ध्यान परा मयूराः ॥४-३०-३२॥

मनोज्ञ गन्धैः प्रियकैः अनल्पैः
पुष्प अति भार अवनत अग्र शाखैः ।
सुवर्ण गौरैः नयन अभिरामैः
उद्योतितान् इव वन अन्तराणि ॥४-३०-३३॥

प्रिय अन्वितानाम् नलिनी प्रियाणाम्
वन प्रियाणाम् कुसुम उद्धतानाम् ।
मद उत्कटानाम् मद लालसानाम्
गज उत्तमानम् गतयो अद्य मन्दाः ॥४-३०-३४॥

व्यक्तम् नभः शस्त्र विधौत वर्णम्
कृश प्रवाहानि नदी जलानि ।
कह्लार शिताः पवनाः प्रवान्ति
तमो विमुक्ताः च दिशः प्रकाशाः ॥४-३०-३५॥

सूर्य आतप क्रामण नष्ट पंका
भूमिः चिर उद्घाटित सांद्र रेणुः ।
अन्योन्य वैरेण समायुतानाम्
उद्योग कालो अद्य नर अधिपानाम् ॥४-३०-३६॥

शरत् गुण आप्यायित रूप शोभाः
प्रहर्षित पांशु समुक्षित अंगाः ।
मद उत्कटाः संप्रति युद्ध लुब्धा
वृषा गवाम् मध्य गता नदन्ति ॥४-३०-३७॥

स मन्मध तीव्रतर अनुरागा
कुलान्विता मन्द गतिः करेणुः ।
मदान्वितम् संपरिवार्य यान्तम्
वनेषु भर्तारम् अनुप्रयाति ॥४-३०-३८॥

त्यक्त्वा वराणि आत्म विभूषणानि
बर्हाणि तीर उपगता नदीनाम् ।
निर्भर्त्स्यमाना इव सार ओघैः
प्रयान्ति दीना विमना मयूराः ॥४-३०-३९॥

वित्रास्य कारण्डव चक्रवाकान् ।
महा रवैः भिन्न कटा गजेन्द्राः ।
सरस्सु बद्ध अंबुज भूषणेषु
विक्षोभ्य विक्षोभ्य जलम् पिबन्ति ॥४-३०-४०॥

व्यपेत पंकजासु स वालुकासु
प्रसन्न तोयासु स गो कुलासु ।
स सारसा राव विनादितासु
नदिषु हंसा निपतन्ति हृष्टाः ॥४-३०-४१॥

नदी घन प्रस्रवण उदकानाम्
अति प्रवृद्ध अनिल बर्हिणानाम् ।
प्लवंगमानाम् च गत उत्सवानाम्
ध्रुवम् रवाः संप्रति संप्रणष्टाः ॥४-३०-४२॥

अनेक वर्णाः सुविनष्ट कायाः
नव उदितेषु अंबुधरेषु नष्टाः ।
क्षुध अर्दिता घोर विषा बिलेभ्यः
चिर उषिता विप्रसरन्ति सर्पाः ॥४-३०-४३॥

चंचत् चन्द्र कर स्पर्श हर्ष उन्मीलित तारका ।
अहो रागवती संध्या जहाति स्वयम् अंबरम् ॥४-३०-४४॥

रात्रिः शशांक उदित सौम्य वक्त्रा
तारा गण उन्मीलित चारु नेत्रा ।
ज्योत्स्ना अंशुक प्रावरणा विभाति
नारी इव शुक्ल अंशुक संवृत अंगी ॥४-३०-४५॥

विपक्व शालि प्रसवानि भुक्त्वा
प्रहर्षिता सारस चारु पंक्ति ।
नभः समाक्रामति शीघ्र वेगा
वात अवधूता ग्रथित इव माला ॥४-३०-४६॥

सुप्त एक हंसम् कुमुदैः उपेतम्
महा ह्रदस्थम् सलिलम् विभाति ।
घनैः विमुक्तम् निशि पूर्ण चन्द्रम्
तारा गण कीर्णम् इव अंतरिक्षम् ॥४-३०-४७॥

प्रकीर्ण हंसा अकुल मेखलानाम्
प्रबुद्ध पद्म उत्पल मालिनीनाम् ।
वापीः उत्तमानाम् अधिक अद्य लक्ष्मीः
वर अंगनाम् इव भूषितानाम् ॥४-३०-४८॥

वेणु स्वर व्यंजित तूर्य मिश्रः
प्रत्यूष काले अनिल संप्रवृत्तः ।
संमूर्च्छितो गह्वर गो वृषाणाम्
अन्योन्यम् आपूरयति इव शब्दः ॥४-३०-४९॥

नवैः नदीनाम् कुसुम प्रहासैः
व्या धूयमानैः मृदु मारुतेन ।
धौत अमल क्षौम पट प्रकाशैः
कूलानि काशैः उपशोभितानि ॥४-३०-५०॥

वन प्रचण्डा मधु पान शौण्डाः
प्रिय अन्विताः षट् चरणाः प्रहृष्टाः ।
वनेसु मत्ताः पवन अनु यात्राम्
कुर्वन्ति पद्म आसन रेणु गौराः ॥४-३०-५१॥

जलम् प्रसन्नम् कुसुम प्रहासम्
क्रौन्च स्वनम् शालि वनम् विपक्वम् ।
मृदुः च वायुः विमलः च चन्द्रः
शंसन्ति वर्ष व्यपनीत कालम् ॥४-३०-५२॥

मीन उप संदर्शित मेखलानाम्
नदी वधूनाम् गतयो अद्य मंदाः ।
कान्त उपभुक्त अलस गामिनीनाम्
प्रभात कालेषु इव कामिनीनाम् ॥४-३०-५३॥

स चक्रवाकानि स शैवलानि
काशैः दुकूलैः इव संवृतानि ।
स पत्र रेखाणि स रोचनानि
वधू मुखानि इव नदी मुखानि ॥४-३०-५४॥

प्रफुल्ल बाण आसन चित्रितेषु
प्रहृष्ट षट्पदानि कूजितेषु ।
गृहीत चापः उद्यत दण्ड चण्डः
प्रचण्ड चारो अद्य वनेषु कामः ॥४-३०-५५॥

लोकम् सुवृष्ट्या परितोषयित्व
नदीः तटाकानि च पूरयित्वा ।
निष्पन्न सस्याम् वसुधाम् च कृत्वा
त्यक्त्वा नभः तोय धराः प्रणष्टाः ॥४-३०-५६॥

दर्शयन्ति शरन् नद्यः पुलिनानि शनैः शनैः ।
नव संगम सव्रीडा जघनानि इव योषितः ॥४-३०-५७॥

प्रसन्न सलिलाः सौम्य कुरराभिः विनादिताः ।
चक्रवाक गण आकीर्णा विभांति सलिल आशयाः ॥४-३०-५८॥

अन्योन्य बद्ध वैराणाम् जिगीषूणाम् नृपात्मज ।
उद्योग समयः सौम्य पार्थिवानाम् उपस्थितः ॥४-३०-५९॥

इयम् सा प्रथमा यात्रा पार्थिवानाम् नृपात्मज ।
न च पश्यामि सुग्रीवम् उद्योगम् वा तथा विधम् ॥४-३०-६०॥

असनाः सप्त पर्णाः च कोविदाराः च पुष्पिताः ।
दृश्यन्ते बन्धुजीवाः च श्यामाः च गिरि सानुषु ॥४-३०-६१॥

हंस सारस चक्राह्वैः कुररैः च समंततः ।
पुलिनानि अवकीर्णानि नदीनाम् पश्य लक्ष्मण ॥४-३०-६२॥

चत्वारो वार्षिका मासा गता वर्ष शत उपमाः ।
मम शोक अभितप्तस्य तथा सीताम् अपश्यतः ॥४-३०-६३॥

चक्रवाकी इव भर्तारम् पृष्टतो अनुगता वनम् ।
विषमम् दण्डकारण्यम् उद्यान वनम् इव च अंगना ॥४-३०-६४॥

प्रिया विहीने दुःख आर्ते हृत राज्ये विवासिते ।
कृपाम् न कुरुते राजा सुग्रीवो मयि लक्ष्मण ॥४-३०-६५॥

अनाथो हृत राज्यो अयम् रावणेन च धर्षितः ॥
दीनो दूर गृहः कामी माम् चैव शरणम् गतः ॥४-३०-६६॥

इति एतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः ।
अहम् वानर राजस्य परिभूतः परंतप ॥४-३०-६७॥

स कालम् परिसंख्याय सीतायाः परिमार्गणे ।
कृतार्थः समयम् कृत्वा दुर्मतिः न अवबुध्यते ॥४-३०-६८॥

स किष्किंधाम् प्रविश्य त्वम् ब्रूहि वानर पुंगवम् ।
मूर्खम् ग्राम्य सुखे सक्तम् सुग्रीवम् वचनात् मम ॥४-३०-६९॥

अर्थिनाम् उपपन्नानाम् पूर्वम् च अपि उपकारिणाम् ।
आशाम् सम्श्रुत्य यो हन्ति स लोके पुरुषाधमः ॥४-३०-७०॥

शुभम् वा यदि वा पापम् यो हि वाक्यम् उदीरितम् ।
सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः ॥४-३०-७१॥

कृतार्था हि अकृतार्थानाम् मित्राणाम् न भवन्ति ये ।
तान् मृतान् अपि क्रव्यादाः कृतघ्नान् न उपभुंजते ॥४-३०-७२॥

नूनम् कांचन पृष्ठस्य विकृष्टस्य मया रणे ।
द्रष्टुम् इच्छसि चापस्य रूपम् विद्युत् गण उपमम् ॥४-३०-७३॥

घोरम् ज्या तल निर्घोषम् क्रुद्धस्य मम संयुगे ।
निर्घोषम् इव वज्रस्य पुनः संश्रोतुम् इच्छसि ॥४-३०-७४॥

कामम् एवम् गते अपि अस्य परिज्ञाते पराक्रमे ।
त्वत् सहायस्य मे वीर न चिन्ता स्यात् नृपात्मज ॥४-३०-७५॥

यद् अर्थम् अयम् आरंभः कृतः पर पुरम् जय ।
समयम् न अभिजानाति कृतार्थः प्लवगेश्वरः ॥४-३०-७६॥

वर्षा समय कालम् तु प्रतिज्ञाय हरीश्वरः ।
व्यतीतान् चतुरो मासान् विहरन् न अवबुध्यते ॥४-३०-७७॥

स अमात्य परिषत् क्रीडन् पानम् एव उपसेवते ।
शोक दीनेषु न अस्मासु सुग्रीवः कुरुते दयाम् ॥४-३०-७८॥

उच्यताम् गच्छ सुग्रीवः त्वया वीरः महाबल ।
मम रोषस्य यत् रूपम् ब्रूयाः च एनम् इदम् वचः ॥४-३०-७९॥

न स संकुचितः पंथा येन वाली हतो गतः ।
समये तिष्ठ सुग्रीव मा वालि पथम् अन्वगाः ॥४-३०-८०॥

एक एव रणे वाली शरेण निहतो मया ।
त्वाम् तु सत्यात् अतिक्रांतम् हनिष्यामि स बान्धवम् ॥४-३०-८१॥

तत् एवम् विहिते कार्ये यत् हितम् पुरुषर्षभ ।
तत् तत् ब्रूहि नरश्रेष्ठ त्वर काल व्यतिक्रमः ॥४-३०-८२॥

कुरुष्व सत्यम् मम वानरेश्वर
प्रतिश्रुतम् धर्मम् अवेक्ष्य शाश्वतम् ।
मा वालिनम् प्रेत गतो यम क्षयम्
त्वम् अद्य पश्येः मम चोदितः शरैः ॥४-३०-८३॥

स पूर्वजम् तीव्र विवृद्ध कोपम्
लालप्यमानम् प्रसमीक्ष्य दीनम् ।
चकार तीव्राम् मतिम् उग्र तेजा
हरीश्वरे मानव वंश वर्थनः ॥४-३०-८४॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे त्रिंशः सर्गः ॥४-३०॥