रामायणम्/किष्किन्धाकाण्डम्/सर्गः १९

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १८ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः २० →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनविंशः सर्गः ॥४-१९॥

स वानर महाराजः शयानः शर पीडितः ।
प्रत्युक्तो हेतुमद् वाक्यैः न उत्तरम् प्रत्यपद्यत ॥४-१९-१॥

अश्मभिः परिभिन्न अंगः पादपैर् आहतो भृशम् ।
राम बाणेन च आक्रान्तो जीवित अंते मुमोह सः ॥४-१९-२॥

तम् भार्या बाण मोक्षेण राम दत्तेन संयुगे ।
हतम् प्लवग शार्दूलम् तारा शुश्राव वालिनम् ॥४-१९-३॥

सा सपुत्र अप्रियम् श्रुत्वा वधम् भर्तुः सुदारुणम् ।
निष्पपात भृशम् तस्मात् उद्विग्ना गिरि कंदरात् ॥४-१९-४॥

ये ते अंगद परीवारा वानरा हि महाबलाः ।
ते सकार्मुकम् आलोक्य रामम् त्रस्ताः प्रदुद्रुवुः ॥४-१९-५॥

सा ददर्श ततः त्रस्तान् हरीन् आपततो द्रुतम् ।
यूथाद् इव परिभ्रष्टान् मृगान् निहत यूथपान् ॥४-१९-६॥

तान् उवाच समासाद्य दुःखितान् दुःखिता सती ।
राम वित्रासितान् सर्वान् अनुबद्धान् इव इषुभिः ॥४-१९-७॥

वानरा राज सिंहस्य यस्य यूयम् पुरः सराः ।
तम् विहाय सुवित्रस्ताः कस्माद् द्रवत दुर्गताः ॥४-१९-८॥

राज्य हेतोः स चेत् भ्राता भ्रात्रा कॄरेण पातितः ।
रामेण प्रसृतैः दूरात् मार्गणैः दूर पातिभिः ॥४-१९-९॥

कपि पत्न्या वचः श्रुत्वा कपयः काम रूपिणः ।
प्राप्त कालम् अविश्लिष्टम् ऊचुर् वचनम् अंगनाम् ॥४-१९-१०॥

जीवपुत्रे निवर्तस्व पुत्रम् रक्षस्व च अन्दगम् ।
अंतको राम रूपेण हत्वा नयति वालिनम् ॥४-१९-११॥

क्षिप्तान् वृक्षान् समाविध्य विपुलाः च शिलाः तथा ।
वाली वज्र समैर् बाणैर् वज्रेण इव निपातितः ॥४-१९-१२॥

अभिभूतम् इदम् सर्वम् विद्रुतम् वानरम् बलम् ।
अस्मिन् प्लवग शार्दूले हते शक्र सम प्रभे ॥४-१९-१३॥

रक्ष्यताम् नगरम् शूरैर् अंगदः च अभिषिच्यताम् ।
पदस्थम् वालिनः पुत्रम् भजिष्यन्ति प्लवंगमाः ॥४-१९-१४॥

अथवा अरुचितम् स्थानम् इह ते रुचिरानने ।
आविशन्ति हि दुर्गाणि क्षिप्रम् अद्य एव वानराः ॥४-१९-१५॥

अभार्याः सह भार्याः च सन्ति अत्र वन चारिणः ।
लुब्धेभ्यो विप्रलब्धेयः तेभ्यो नः सुमहद् भयम् ॥४-१९-१६॥

अल्पांतर गतानाम् तु श्रुत्वा वचनम् अंगना ।
आत्मनः प्रतिरूपम् सा बभाषे चारु हासिनी ॥४-१९-१७॥

पुत्रेण मम किम् कार्यम् किम् राज्येन किम् आत्मना ।
कपि सिम्हे महा भागे तस्मिन् भर्तरि नश्यति ॥४-१९-१८॥

पाद मूलम् गमिष्यामि तस्य एव अहम् महात्मनः ।
यो असौ राम प्रयुक्तेन शरेण विनिपातितः ॥४-१९-१९॥

एवम् उक्त्वा प्रदुद्राव रुदती शोक मूर्च्छिता ।
शिरः च उरः च बाहुभ्याम् दुःखेन समभिघ्नती ॥४-१९-२०॥

सा व्रजन्ती ददर्श अथ पतिम् निपतितम् भुवि ।
हन्तारम् दानव इन्द्राणाम् समरेषु अनिवर्तिनाम् ॥४-१९-२१॥

क्षेप्तारम् पर्वत इन्द्राणाम् वज्राणाम् इव वासवम् ।
महावात समाविष्टम् महामेघ औघ निःस्वनम् ॥४-१९-२२॥

शक्रतुल्य पराक्रांतम् वृष्ट्वा इव उपरतम् घनम् ।
नर्दन्तम् नर्दताम् भीमम् शूरम् शूरेण पातितम् ।
शार्दूलेन आमिषस्य अर्थे मृग राजम् इव आहतम् ॥४-१९-२३॥

अर्चितम् सर्व लोकस्य सपताकम् सवेदिकम् ।
नाग हेतोः सुपर्णेन चैत्यम् उन्मथितम् यथा ॥४-१९-२४॥

अवष्टभ्य अवतिष्ठंतम् ददर्श धनुर् ऊर्जितम् ।
रामम् रामानुजम् चैव भर्तुः चैव तथा अनुजम् ॥४-१९-२५॥

तान् अतीत्य समासाद्य भर्तारम् निहतम् रणे ।
समीक्ष्य व्यथिता भूमौ संभ्रांता निपपात ह ॥४-१९-२६॥

सुप्ता इव पुनर् उत्थाय आर्य पुत्र इति वादिनी ।
रुरोद सा पतिम् दृष्ट्वा सम्वीतम् मृत्यु दामभिः ॥४-१९-२७॥

ताम् अवेक्ष्य तु सुग्रीवः क्रोशन्तीम् कुररीम् इव ।
विषादम् अगमत् कष्टम् दृष्ट्वा च अंगदम् आगतम् ॥४-१९-२८॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे एकोनविंशः सर्गः ॥४-१९॥