रामायणम्/किष्किन्धाकाण्डम्/सर्गः २६

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः २५ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः २७ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षड्विंशः सर्गः ॥४-२६॥

ततः शोक अभिसंतप्तम् सुग्रीवम् क्लिन्न वासनम् ।
शाखा मृग महामात्राः परिवार्य उपतस्थिरे ॥४-२६-१॥

अभिगम्य महाबाहुम् रामम् अक्लिष्ट कारिणम् ।
स्थिताः प्रांजलयः सर्वे पितामहम् इव ऋषयः ॥४-२६-२॥

ततः कांचन शैल आभः तरुण अर्क निभ आननः ।
अब्रवीत् प्रांजलिर् वाक्यम् हनुमान् मारुत आत्मजः ॥४-२६-३॥

भवत् प्रसादात् काकुत्स्थ पितृ पैतामहम् महत् ।
वानराणाम् सुदंष्ट्राणाम् संपन्न बलशालिनाम् ॥४-२६-४॥
महात्मानाम् सुदुष्प्रापम् प्राप्तम् राज्यम् इदम् प्रभो ।

भवता समनुज्ञातः प्रविश्य नगरम् शुभम् ॥४-२६-५॥
संविधास्यति कार्याणि सर्वाणि ससुहृत् गणः।
स्नातो अयम् विविधैर् गन्धैर् औषधैः च यथा विधि ॥४-२६-६॥

अर्चयिष्यति माल्यैः च रत्नैः च त्वाम् विशेषतः ।
इमाम् गिरि गुहाम् रम्याम् अभिगन्तुम् त्वम् अर्हसि ॥४-२६-७॥
कुरुष्व स्वामि संबन्धम् वानरान् संप्रहर्षयन् ।

एवम् उक्तो हनुमता राघवः पर वीरहा ॥४-२६-८॥
प्रत्युवाच हनूमन्तम् बुद्धिमान् वाक्य कोविदः ।

चतुर्दश समाः सौम्य ग्रामम् वा यदि वा पुरम् ॥४-२६-९॥
न प्रवेक्ष्यामि हनुमन् पितुर् निर्देश पालकः ।

सुसमृद्धाम् गुहाम् दिव्याम् सुग्रीवो वानरर्षभः ॥४-२६-१०॥
प्रविष्टो विधिवत् वीरः क्षिप्रम् राज्ये अभिषिच्यताम् ।

एवम् उक्त्वा हनूमन्तम् रामः सुग्रीवम् अब्रवीत् ॥४-२६-११॥
वृत्तज्ञो वृत्त संपन्नम् उदार बल विक्रमम् ।

इमम् अपि अंगदम् वीरम् यौवराज्ये अभिषेचय ॥४-२६-१२॥
ज्येष्ठस्य हि सुतो ज्येष्ठः सदृशो विक्रमेण च ।
अंगदो अयम् अदीनात्मा यौवराज्यस्य भाजनम् ॥४-२६-१३॥

पूर्वो अयम् वार्षिको मासः श्रावणः सलिल आगमः ।
प्रवृत्ताः सौम्य चत्वारो मासा वार्षिक संज्ञिताः ॥४-२६-१४॥

न अयम् उद्योग समयः प्रविश त्वम् पुरीम् शुभाम् ।
अस्मिन् वत्स्यामि अहम् सौम्य पर्वते सह लक्ष्मणः ॥४-२६-१५॥

इयम् गिरि गुहा रम्या विशाला युक्त मारुता ।
प्रभूत सलिला सौम्य प्रभूत कमल उत्पला ॥४-२६-१६॥

कार्तिके समनुप्राप्ते त्वम् रावण वधे यत ।
एष नः समयः सौम्य प्रविश त्वम् स्वम् आलयम् ॥४-२६-१७॥
अभिषिंचस्व राज्ये च सुहृदः संप्रहर्षय ।

इति राम अभ्यनुज्ञातः सुग्रीवो वानरर्षभः ॥४-२६-१८॥
प्रविवेश पुरीम् रम्याम् किष्किंधाम् वालि पालिताम् ।

तम् वानर सहस्राणि प्रविष्टम् वानर ईश्वरम् ॥४-२६-१९॥
अभिवार्य प्रहृष्टानि सर्वतः प्लवगेश्वरम् ।

ततः प्रकृतयः सर्वा दृष्ट्वा हरि गण ईश्वरम् ॥४-२६-२०॥
प्रणम्य मूर्ध्ना पतिता वसुधायाम् समाहिताः ।

सुग्रीवः प्रकृतीः सर्वाः संभाष्य उत्थाप्य वीर्यवान् ॥४-२६-२१॥
भ्रातुर् अंतः पुरम् सौम्यम् प्रविवेश महाबलः ।

प्रविष्टम् भीम विक्रांतम् सुग्रीवम् वानरर्षभम् ॥४-२६-२२॥
अभ्यषिंचंत सुहृदः सहस्राक्षम् इव अमराः ।

तस्य पाण्डुरम् आजह्रुः छत्रम् हेम परिष्कृतम् ॥४-२६-२३॥
शुक्ले च वाल व्यजने हेम दण्डे यशस्करे ।
तथा सर्वाणि रत्नानि सर्व बीज औषधानि च ॥४-२६-२४॥
स क्षीराणाम् च वृक्षाणाम् प्ररोहान् कुसुमानि च ।
शुक्लानि चैव वस्त्राणि श्वेतम् चैव अनुलेपनम् ॥४-२६-२५॥
सुगंधीनि च माल्यानि स्थलजानि अंबुजानि च ।
चन्दनानि च दिव्यानि गन्धाम् च विविधान् बहून् ॥४-२६-२६॥
अक्षतम् जात रूपम् च प्रियंगु मधु सर्पिषी ।
दधि चर्म च वैयाघ्रम् परार्ध्ये च अपि उपानहौ ॥४-२६-२७॥
समालंभनम् आदाय गोरोचनम् मनः शिलाम् ।
आजग्मुः तत्र मुदिता वराः कन्याः च षोडश ॥४-२६-२८॥

ततः ते वानर श्रेष्ठम् अभिषेक्तुम् यथा विधि ।
रत्नैर् वस्त्रैः च भक्ष्यैः च तोषयित्वा द्विजर्षभान् ॥४-२६-२९॥

ततः कुश परिस्तीर्णम् समिद्धम् जात वेदसम् ।
मंत्र पूतेन हविषा हुत्वा मंत्रविदो जनाः ॥४-२६-३०॥

ततो हेम प्रतिष्ठाने वर आस्तरण संवृते ।
प्रासाद शिखरे रम्ये चित्र माल्य उपशोभिते ॥४-२६-३१॥
प्राङ्मुखम् विधिवत् मंत्रैः स्थापयित्वा वर आसने ।
नदी नदेभ्यः संहृत्य तीर्थेभ्यः च समंततः ॥४-२६-३२॥
आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः ।
अपः कनक कुंभेषु निधाय विमलम् जलम् ॥४-२६-३३॥
शुभैः वृषभ शृन्गैः च कलशैः च एव कांचनैः ।
शास्त्र दृष्टेन विधिना महर्षि विहितेन च ॥४-२६-३४॥
गजो गवाक्षो गवयः शरभो गंधमादनः ।
मैन्दः च द्विविदः चैव हनूमान् जांबवान् तथा ॥४-२६-३५॥
अभ्यषिंचंत सुग्रीवम् प्रसन्नेन सुगंधिना ।
सलिलेन सहस्राक्षम् वसवो वासवम् यथा ॥४-२६-३६॥

अभिषिक्ते तु सुग्रीवे सर्वे वानर पुंगवाः ।
प्रचुक्रुशुर् महात्मानो हृष्टाः शत सहस्रशः ॥४-२६-३७॥

रामस्य तु वचः कुर्वन् सुग्रीवो हरि पुंगवः ।
अंगदम् संपरिष्वज्य यौवराज्ये अभिषेचयत् ॥४-२६-३८॥

अंगदे च अभिषिक्ते तु सानुक्रोशाः प्लवंगमाः ।
साधु साधु इति सुग्रीवम् महात्मानो हि अपूजयन् ॥४-२६-३९॥

रामम् च एव महात्मानम् लक्ष्मणम् च पुनः पुनः ।
प्रीताः च तुष्टुवुः सर्वे तादृशे तत्र वर्तिनि ॥४-२६-४०॥

हृष्ट पुष्ट जन आकीर्णा पताका ध्वज शोभिता ।
बभूव नगरी रम्या क्षिकिंधा गिरि गह्वरे ॥४-२६-४१॥

निवेद्य रामाय तदा महात्मने
महा अभिषेकम् कपि वाहनी पतिः ।
रुमाम् च भार्याम् उपलभ्य वीर्यवान्
अवाप राज्यम् त्रिदश अधिपो यथा ॥४-२६-४२॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे षड्विंशः सर्गः ॥४-२६॥