रामायणम्/किष्किन्धाकाण्डम्/सर्गः ४४

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ४३ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ४५ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः ॥४-४४॥

विशेषेण तु सुग्रीवो हनूमति अर्थम् उक्तवान् ।
स हि तस्मिन् हरि श्रेष्ठे निश्चितार्थो अर्थ साधने ॥४-४४-१॥

अब्रवीत् च हनूमंतम् विक्रंतम् अनिल आत्मजम् ।
सुग्रीवः परम प्रीतः प्रभुः सर्व वन ओकसाम् ॥४-४४-२॥

न भूमौ न अंतरिक्षे वा न अंबरे न अमर आलये ।
न अप्सु वा गति संगम् ते पश्यामि हरि पुम्गव ॥४-४४-३॥

स असुराः सह गंधर्वाः स नाग नर देवताः ।
विदिताः सर्व लोकाः ते स सागर धरा धराः ॥४-४४-४॥

गतिः वेगः च तेजः च लाघवम् च महाकपे ।
पितुः ते सदृशम् वीर मारुतस्य महा ओजसः ॥४-४४-५॥

तेजसा वा अपि ते भूतम् न समम् भुवि विद्यते ।
तत् यथा लभ्यते सीता तत् त्वम् एव अनुचिंतय ॥४-४४-६॥

त्वयि एव हनुमन् अस्ति बलम् बुद्धिः पराक्रमः ।
देश काल अनुवृत्तिः च नयः च नय पण्डित ॥४-४४-७॥

ततः कार्य समासंगम् अवगम्य हनूमति ।
विदित्वा हनुमन्तम् च चिन्तयामास राघवः ॥४-४४-८॥

सर्वथा निश्चित अर्थो अयम् हनूमति हरि ईश्वरः ।
निश्चित अर्थतरः च अपि हनूमान् कार्य साधने ॥४-४४-९॥

तत् एवम् प्रस्थितस्य अस्य परिज्ञातस्य कर्मभिः ।
भर्त्रा परिगृहीतस्य ध्रुवः कार्य फलोदयः ॥४-४४-१०॥

तम् समीक्ष्य महातेजा व्यवसायोत्तरम् हरिम् ।
कृतार्थ इव संहृष्टः प्रहृष्ट इन्द्रिय मानसः ॥४-४४-११॥

ददौ तस्य ततः प्रीतः स्व नामांक उपशोभितम् ।
अंगुलीयम् अभिज्ञानम् राजपुत्र्याः परंतपः ॥४-४४-१२॥

अनेन त्वाम् हरिश्रेष्ठ चिह्नेन जनकाअत्मजा ।
मत् सकाशात् अनुप्राप्तम् अनुद्विग्ना अनुपश्यति ॥४-४४-१३॥

व्यवसायः च ते वीर सत्त्व युक्तः च विक्रमः ।
सुग्रीवस्य च संदेशः सिद्धिम् कथयति इव मे ॥४-४४-१४॥

स तत् गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृतांजलिः ।
वन्दित्वा चरणौ चैव प्रस्थितः प्लवगर्षभः ॥४-४४-१५॥

स तत् प्रकर्षन् हरिणाम् महत् बलम्
बभूव वीरः पवनात्मजः कपिः ।
गत अंबुदे व्योम्नि विशुद्ध मण्डलः
शशी इव नक्षत्र गणोपशोभितः ॥४-४४-१६॥

अतिबल बलम् आश्रितः तव अहम्
हरि वर विक्रम विक्रमैः अनल्पैः ।
पवन सुत यथा अधिगम्यते सा
जनक सुता हनुमन् तथा कुरुष्व ॥४-४४-१७॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः ॥४-४४॥