रामायणम्/किष्किन्धाकाण्डम्/सर्गः ३४
← सर्गः ३३ | रामायणम्/किष्किन्धाकाण्डम् किष्किन्धाकाण्डम् वाल्मीकिः |
सर्गः ३५ → |
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः ॥४-३४॥
तम् अप्रतिहतम् क्रुद्धम् प्रविष्टम् पुरुषर्षभम् ।
सुग्रीवो लक्ष्मणम् दृष्ट्वा बभूव व्यथित इन्द्रियः ॥४-३४-१॥
क्रुद्धम् निःश्वसमानम् तम् प्रदीप्तम् इव तेजसा ।
भ्रातुर् व्यसन संतप्तम् दृष्ट्वा दशरथ आत्मजम् ॥४-३४-२॥
उत्पपात हरिश्रेष्ठो हित्वा सौवर्णम् आसनम् ।
महान् महेन्द्रस्य यथा स्वलंकृत इव ध्वजः ॥४-३४-३॥
उत्पतंतम् अनूत्पेतू रुमा प्रभृतयः स्त्रियः ।
सुग्रीवम् गगने पूर्णम् चंद्रम् तारा गणा इव ॥४-३४-४॥
संरक्त नयनः श्रीमान् संचचार कृतांजलिः ।
बभूव अवस्थितः तत्र कल्प वृक्षो महान् इव ॥४-३४-५॥
रुमा द्वितीयम् सुग्रीवम् नारी मध्य गतम् स्थितम् ।
अब्रवीत् लक्ष्मणः क्रुद्धः स तारम् शशिनम् यथा ॥४-३४-६॥
सत्त्व अभिजन संपन्नः स अनुक्रोशो जितेन्द्रियः ।
कृतज्ञः सत्य वादी च राजा लोके महीयते ॥४-३४-७॥
यस्तु राजा स्थितो अधर्मे मित्राणाम् उपकारिणाम् ।
मिथ्या प्रतिज्ञाम् कुरुते को नृशंस तरः ततः ॥४-३४-८॥
शतम् अश्व अनृते हन्ति सहस्रम् तु गव अनृते ।
आत्मानम् स्व जनम् हन्ति पुरुषः पुरुष अनृते ॥४-३४-९॥
पूर्वम् कृतार्थो मित्राणाम् न तत् प्रति करोति यः ।
कृतघ्नः सर्व भूतानाम् स वध्यः प्लवगेश्वर ॥४-३४-१०॥
गीतो अयम् ब्रह्मणा श्लोकः सर्व लोक नमस्कृतः ।
दृष्ट्वा कृतघ्नम् क्रुद्धेन तम् निबोध प्लवम्गम ॥४-३४-११॥
गो घ्ने च एव सुरापे च चौरे भग्न व्रते तथा ।
निष्कृतिर् विहिता सद्भिः कृतघ्ने न अस्ति निष्कृतिः ॥४-३४-१२॥
अनार्य त्वम् कृतघ्नः च मिथ्या वादी च वानर ।
पूर्वम् कृतार्थो रामस्य न तत् प्रतिकरोषि यत् ॥४-३४-१३॥
ननु नाम कृतार्थेन त्वया रामस्य वानर ।
सीताया मार्गणे यत्नः कर्तव्यः कृतम् इच्छता ॥४-३४-१४॥
स त्वम् ग्राम्येषु भोगेषु सक्तो मिथ्या प्रतिश्रवः ।
न त्वाम् रामो विजानीते सर्पम् मण्डूक राविणम् ॥४-३४-१५॥
महाभागेन रामेण पापः करुण वेदिना ।
हरीणाम् प्रापितो राज्यम् त्वम् दुरात्मा महात्मना ॥४-३४-१६॥
कृतम् चेत् न अभिजानीषे राघवस्य महात्मनः ।
सद्यः त्वम् निशितैर् बाणैर् हतो द्रक्ष्यसि वालिनम् ॥४-३४-१७॥
न च संकुचितः पन्था येन वाली हतो गतः ।
समये तिष्ठ सुग्रीव मा वालि पथम् अन्वगाः ॥४-३४-१८॥
न नूनम् इक्ष्वाकु वरस्य कार्मुकात्
शरान् च तान् पश्यसि वज्र संनिभान् ।
ततः सुखम् नाम विषेवसे सुखी
न राम कार्यम् मनसा अपि अवेक्षसे ॥४-३४-१९॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः ॥४-३४॥