रामायणम्/किष्किन्धाकाण्डम्/सर्गः ३३

विकिस्रोतः तः
← सर्गः ३२ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ३४ →
त्रयस्त्रिंशः सर्गः श्रूयताम्

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः ॥४-३३॥

अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा।
प्रविवेश गुहां रम्यां किष्किन्धां रामशासनात्॥ १॥

द्वारस्था हरयस्तत्र महाकाया महाबलाः।
बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः॥ २॥

निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम्।
बभूवुर्हरयस्त्रस्ता न चैनं पर्यवारयन्॥ ३॥

स तां रत्नमयीं दिव्यां श्रीमान् पुष्पितकाननाम्।
रम्यां रत्नसमाकीर्णां ददर्श महतीं गुहाम्॥ ४॥

हर्म्यप्रासादसम्बाधां नानारत्नोपशोभिताम्।
सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम्॥ ५॥

देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः।
दिव्यमाल्याम्बरधरैः शोभितां प्रियदर्शनैः॥ ६॥

चन्दनागुरुपद्मानां गन्धैः सुरभिगन्धिताम्।
मैरेयाणां मधूनां च सम्मोदितमहापथाम्॥ ७॥

विन्ध्यमेरुगिरिप्रख्यैः प्रासादैर्नैकभूमिभिः।
ददर्श गिरिनद्यश्च विमलास्तत्र राघवः॥ ८॥

अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य च।
गवयस्य गवाक्षस्य गजस्य शरभस्य च॥ ९॥

विद्युन्मालेश्च सम्पातेः सूर्याक्षस्य हनूमतः।
वीरबाहोः सुबाहोश्च नलस्य च महात्मनः॥ १०॥

कुमुदस्य सुषेणस्य तारजाम्बवतोस्तथा।
दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः॥ ११॥

एतेषां कपिमुख्यानां राजमार्गे महात्मनाम्।
ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः॥ १२॥

पाण्डुराभ्रप्रकाशानि गन्धमाल्ययुतानि च।
प्रभूतधनधान्यानि स्त्रीरत्नैः शोभितानि च॥ १३॥

पाण्डुरेण तु शैलेन परिक्षिप्तं दुरासदम्।
वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम्॥ १४॥

शुक्लैः प्रासादशिखरैः कैलासशिखरोपमैः।
सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभितम्॥ १५॥

महेन्द्रदत्तैः श्रीमद्भिर्नीलजीमूतसंनिभैः।
दिव्यपुष्पफलैर्वृक्षैः शीतच्छायैर्मनोरमैः॥ १६॥

हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः।
दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम्॥ १७॥

सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः।
अवार्यमाणः सौमित्रिर्महाभ्रमिव भास्करः॥ १८॥

स सप्त कक्ष्या धर्मात्मा यानासनसमावृताः।
ददर्श सुमहद‍्गुप्तं ददर्शान्तःपुरं महत्॥ १९॥

हैमराजतपर्यङ्कैर्बहुभिश्च वरासनैः।
महार्हास्तरणोपेतैस्तत्र तत्र समावृतम्॥ २०॥

प्रविशन्नेव सततं शुश्राव मधुरस्वनम्।
तन्त्रीगीतसमाकीर्णं समतालपदाक्षरम्॥ २१॥

बह्वीश्च विविधाकारा रूपयौवनगर्विताः।
स्त्रियः सुग्रीवभवने ददर्श स महाबलः॥ २२॥

दृष्ट्वाभिजनसम्पन्नास्तत्र माल्यकृतस्रजः।
वरमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः॥ २३॥

नातृप्तान् नाति चाव्यग्रान् नानुदात्तपरिच्छदान्।
सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः॥ २४॥

कूजितं नूपुराणां च काञ्चीनां निःस्वनं तथा।
स निशम्य ततः श्रीमान् सौमित्रिर्लज्जितोऽभवत्॥ २५॥

रोषवेगप्रकुपितः श्रुत्वा चाभरणस्वनम्।
चकार ज्यास्वनं वीरो दिशः शब्देन पूरयन्॥ २६॥

चारित्रेण महाबाहुरपकृष्टः स लक्ष्मणः।
तस्थावेकान्तमाश्रित्य रामकोपसमन्वितः॥ २७॥

तेन चापस्वनेनाथ सुग्रीवः प्लवगाधिपः।
विज्ञायागमनं त्रस्तः स चचाल वरासनात्॥ २८॥

अङ्गदेन यथा मह्यं पुरस्तात् प्रतिवेदितम्।
सुव्यक्तमेष सम्प्राप्तः सौमित्रिर्भ्रातृवत्सलः॥ २९॥

अङ्गदेन समाख्यातो ज्यास्वनेन च वानरः।
बुबुधे लक्ष्मणं प्राप्तं मुखं चास्य व्यशुष्यत॥ ३०॥

ततस्तारां हरिश्रेष्ठः सुग्रीवः प्रियदर्शनाम्।
उवाच हितमव्यग्रस्त्राससम्भ्रान्तमानसः॥ ३१॥

किं नु रुट्कारणं सुभ्रु प्रकृत्या मृदुमानसः।
सरोष इव सम्प्राप्तो येनायं राघवानुजः॥ ३२॥

किं पश्यसि कुमारस्य रोषस्थानमनिन्दिते।
न खल्वकारणे कोपमाहरेन्नरपुङ्गवः॥ ३३॥

यद्यस्य कृतमस्माभिर्बुध्यसे किंचिदप्रियम्।
तद‍्बुद‍्ध्या सम्प्रधार्याशु क्षिप्रमेवाभिधीयताम्॥ ३४॥

अथवा स्वयमेवैनं द्रष्टुमर्हसि भामिनि।
वचनैः सान्त्वयुक्तैश्च प्रसादयितुमर्हसि॥ ३५॥

त्वद्दर्शने विशुद्धात्मा न स्म कोपं करिष्यति।
नहि स्त्रीषु महात्मानः क्वचित् कुर्वन्ति दारुणम्॥ ३६॥

त्वया सान्त्वैरुपक्रान्तं प्रसन्नेन्द्रियमानसम्।
ततः कमलपत्राक्षं द्रक्ष्याम्यहमरिंदमम्॥ ३७॥

सा प्रस्खलन्ती मदविह्वलाक्षी
प्रलम्बकाञ्चीगुणहेमसूत्रा।
सलक्षणा लक्ष्मणसंनिधानं
जगाम तारा नमिताङ्गयष्टिः॥ ३८॥

स तां समीक्ष्यैव हरीशपत्नीं
तस्थावुदासीनतया महात्मा।
अवाङ्मुखोऽभून्मनुजेन्द्रपुत्रः
स्त्रीसंनिकर्षाद् विनिवृत्तकोपः॥ ३९॥

सा पानयोगाच्च निवृत्तलज्जा
दृष्टिप्रसादाच्च नरेन्द्रसूनोः।
उवाच तारा प्रणयप्रगल्भं
वाक्यं महार्थं परिसान्त्वरूपम्॥ ४०॥

किं कोपमूलं मनुजेन्द्रपुत्र
कस्ते न संतिष्ठति वाङ्‍‍निदेशे।
कः शुष्कवृक्षं वनमापतन्तं
दावाग्निमासीदति निर्विशङ्कः॥ ४१॥

स तस्या वचनं श्रुत्वा सान्त्वपूर्वमशङ्कितः।
भूयः प्रणयदृष्टार्थं लक्ष्मणो वाक्यमब्रवीत्॥ ४२॥

किमयं कामवृत्तस्ते लुप्तधर्मार्थसंग्रहः।
भर्ता भर्तृहिते युक्ते न चैनमवबुध्यसे॥ ४३॥

न चिन्तयति राज्यार्थं सोऽस्मान् शोकपरायणान्।
सामात्यपरिषत् तारे काममेवोपसेवते॥ ४४॥

स मासांश्चतुरः कृत्वा प्रमाणं प्लवगेश्वरः।
व्यतीतांस्तान् मदोदग्रो विहरन् नावबुध्यते॥ ४५॥

नहि धर्मार्थसिद्ध्यर्थं पानमेवं प्रशस्यते।
पानादर्थश्च कामश्च धर्मश्च परिहीयते॥ ४६॥

धर्मलोपो महांस्तावत् कृते ह्यप्रतिकुर्वतः।
अर्थलोपश्च मित्रस्य नाशे गुणवतो महान्॥ ४७॥

मित्रं ह्यर्थगुणश्रेष्ठं सत्यधर्मपरायणम्।
तद‍्द्वयं तु परित्यक्तं न तु धर्मे व्यवस्थितम्॥ ४८॥

तदेवं प्रस्तुते कार्ये कार्यमस्माभिरुत्तरम्।
तत् कार्यं कार्यतत्त्वज्ञे त्वमुदाहर्तुमर्हसि॥ ४९॥

सा तस्य धर्मार्थसमाधियुक्तं
निशम्य वाक्यं मधुरस्वभावम्।
तारा गतार्थे मनुजेन्द्रकार्ये
विश्वासयुक्तं तमुवाच भूयः॥ ५०॥

न कोपकालः क्षितिपालपुत्र
न चापि कोपः स्वजने विधेयः।
त्वदर्थकामस्य जनस्य तस्य
प्रमादमप्यर्हसि वीर सोढुम्॥ ५१॥

कोपं कथं नाम गुणप्रकृष्टः
कुमार कुर्यादपकृष्टसत्त्वे।
कस्त्वद्विधः कोपवशं हि गच्छेत्
सत्त्वावरुद्धस्तपसः प्रसूतिः॥ ५२॥

जानामि कोपं हरिवीरबन्धो-
र्जानामि कार्यस्य च कालसङ्गम्।
जानामि कार्यं त्वयि यत्कृतं न-
स्तच्चापि जानामि यदत्र कार्यम्॥ ५३॥

तच्चापि जानामि तथाविषह्यं
बलं नरश्रेष्ठ शरीरजस्य।
जानामि यस्मिंश्च जनेऽवबद्धं
कामेन सुग्रीवमसक्तमद्य॥ ५४॥

न कामतन्त्रे तव बुद्धिरस्ति
त्वं वै यथा मन्युवशं प्रपन्नः।
न देशकालौ हि यथार्थधर्मा-
ववेक्षते कामरतिर्मनुष्यः॥ ५५॥

तं कामवृत्तं मम संनिकृष्टं
कामाभियोगाच्च विमुक्तलज्जम्।
क्षमस्व तावत् परवीरहन्त-
स्त्वद्‍भ्रातरं वानरवंशनाथम्॥ ५६॥

महर्षयो धर्मतपोऽभिरामाः
कामानुकामाः प्रतिबद्धमोहाः।
अयं प्रकृत्या चपलः कपिस्तु
कथं न सज्जेत सुखेषु राजा॥ ५७॥

इत्येवमुक्त्वा वचनं महार्थं
सा वानरी लक्ष्मणमप्रमेयम्।
पुनः सखेदं मदविह्वलाक्षी
भर्तुर्हितं वाक्यमिदं बभाषे॥ ५८॥

उद्योगस्तु चिराज्ञप्तः सुग्रीवेण नरोत्तम।
कामस्यापि विधेयेन तवार्थप्रतिसाधने॥ ५९॥

आगता हि महावीर्या हरयः कामरूपिणः।
कोटीः शतसहस्राणि नानानगनिवासिनः॥ ६०॥

तदागच्छ महाबाहो चारित्रं रक्षितं त्वया।
अच्छलं मित्रभावेन सतां दारावलोकनम्॥ ६१॥

तारया चाभ्यनुज्ञातस्त्वरया वापि चोदितः।
प्रविवेश महाबाहुरभ्यन्तरमरिंदमः॥ ६२॥

ततः सुग्रीवमासीनं काञ्चने परमासने।
महार्हास्तरणोपेते ददर्शादित्यसंनिभम्॥ ६३॥

दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम्।
दिव्यमाल्याम्बरधरं महेन्द्रमिव दुर्जयम्॥ ६४॥

दिव्याभरणमाल्याभिः प्रमदाभिः समावृतम्।
संरब्धतररक्ताक्षो बभूवान्तकसंनिभः॥ ६५॥

रुमां तु वीरः परिरभ्य गाढं
वरासनस्थो वरहेमवर्णः।
ददर्श सौमित्रिमदीनसत्त्वं
विशालनेत्रः स विशालनेत्रम्॥ ६६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः ॥४-३३॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।