ऋग्वेदः सूक्तं ९.४४

विकिस्रोतः तः
← सूक्तं ९.४३ ऋग्वेदः - मण्डल ९
सूक्तं ९.४४
अयास्य आङ्गिरसः।
सूक्तं ९.४५ →
दे. पवमानः सोमः। गायत्री।


प्र ण इन्दो महे तन ऊर्मिं न बिभ्रदर्षसि ।
अभि देवाँ अयास्यः ॥१॥
मती जुष्टो धिया हितः सोमो हिन्वे परावति ।
विप्रस्य धारया कविः ॥२॥
अयं देवेषु जागृविः सुत एति पवित्र आ ।
सोमो याति विचर्षणिः ॥३॥
स नः पवस्व वाजयुश्चक्राणश्चारुमध्वरम् ।
बर्हिष्माँ आ विवासति ॥४॥
स नो भगाय वायवे विप्रवीरः सदावृधः ।
सोमो देवेष्वा यमत् ॥५॥
स नो अद्य वसुत्तये क्रतुविद्गातुवित्तमः ।
वाजं जेषि श्रवो बृहत् ॥६॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥ यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ सप्तमाष्टकस्य प्रथमाध्याय आरभ्यते । ‘प्र णः' इति षडृचं विंशं सूक्तमाङ्गिरसस्यायास्यस्यार्षं गायत्रं पवमानसोमदेवताकम् । तथा चानुक्रान्तं- प्र णोऽयास्यः' इति । गतो विनियोगः ॥


प्र ण॑ इन्दो म॒हे तन॑ ऊ॒र्मिं न बिभ्र॑दर्षसि ।

अ॒भि दे॒वाँ अ॒यास्यः॑ ॥१

प्र । नः॒ । इ॒न्दो॒ इति॑ । म॒हे । तने॑ । ऊ॒र्मिम् । न । बिभ्र॑त् । अ॒र्ष॒सि॒ ।

अ॒भि । दे॒वान् । अ॒यास्यः॑ ॥१

प्र । नः । इन्दो इति । महे । तने । ऊर्मिम् । न । बिभ्रत् । अर्षसि ।

अभि । देवान् । अयास्यः ॥१

हे “इन्दो सोम त्वं "नः अस्माकं “महे महते “तने धनाय “प्र “अर्षसि प्रगच्छसि । “न संप्रति “अयास्यः चायमृषिः तव “ऊर्मिं तरङ्गं “बिभ्रत् धारयन् “देवान् “अभि गच्छति यष्टुम् ॥


म॒ती जु॒ष्टो धि॒या हि॒तः सोमो॑ हिन्वे परा॒वति॑ ।

विप्र॑स्य॒ धार॑या क॒विः ॥२

म॒ती । जु॒ष्टः । धि॒या । हि॒तः । सोमः॑ । हि॒न्वे॒ । प॒रा॒ऽवति॑ ।

विप्र॑स्य । धार॑या । क॒विः ॥२

मती । जुष्टः । धिया । हितः । सोमः । हिन्वे । पराऽवति ।

विप्रस्य । धारया । कविः ॥२

“कविः क्रान्तकर्मा “सोमः “विप्रस्य मेधाविनः स्तोतुः “मती मत्या स्तुत्या “जुष्टः सेवितः “धिया कर्मणा “हितः यज्ञे निहितः “परावति पवित्राद्दूरदेशे “धारया “हिन्वे प्रेर्यते ॥


अ॒यं दे॒वेषु॒ जागृ॑विः सु॒त ए॑ति प॒वित्र॒ आ ।

सोमो॑ याति॒ विच॑र्षणिः ॥३

अ॒यम् । दे॒वेषु॑ । जागृ॑विः । सु॒तः । ए॒ति॒ । प॒वित्रे॑ । आ ।

सोमः॑ । या॒ति॒ । विऽच॑र्षणिः ॥३

अयम् । देवेषु । जागृविः । सुतः । एति । पवित्रे । आ ।

सोमः । याति । विऽचर्षणिः ॥३

“जागृविः जागरणशीलः "अयं “सोमः "देवेषु देवार्थं "सुतः अभिषुतः “आ “एति समन्तात् गच्छति । अपि च “विचर्षणिः विद्रष्टा सोमः “पवित्रे “याति पावनाय गच्छति ॥


स नः॑ पवस्व वाज॒युश्च॑क्रा॒णश्चारु॑मध्व॒रं ।

ब॒र्हिष्माँ॒ आ वि॑वासति ॥४

सः । नः॒ । प॒व॒स्व॒ । वा॒ज॒ऽयुः । च॒क्रा॒णः । चारु॑म् । अ॒ध्व॒रम् ।

ब॒र्हिष्मा॑न् । आ । वि॒वा॒स॒ति॒ ॥४

सः । नः । पवस्व । वाजऽयुः । चक्राणः । चारुम् । अध्वरम् ।

बर्हिष्मान् । आ । विवासति ॥४

हे सोम यं त्वां “बर्हिष्मान् ऋत्विक् “आ “विवासति परिचरति “सः त्वं “नः अस्मदर्थं "वाजयुः अन्नमिच्छन् 'अध्वरं हिंसारहितं यागं “चारु कल्याणं "चक्राणः कुर्वन् "पवस्व क्षर ॥


स नो॒ भगा॑य वा॒यवे॒ विप्र॑वीरः स॒दावृ॑धः ।

सोमो॑ दे॒वेष्वा य॑मत् ॥५

सः । नः॒ । भगा॑य । वा॒यवे॑ । विप्र॑ऽवीरः । स॒दाऽवृ॑धः ।

सोमः॑ । दे॒वेषु॑ । आ । य॒म॒त् ॥५

सः । नः । भगाय । वायवे । विप्रऽवीरः । सदाऽवृधः ।

सोमः । देवेषु । आ । यमत् ॥५

“सः पवमानः “सोमः “वायवे वायुदेवार्थं “भगाय भगदेवार्थं च “विप्रवीरः विप्रैर्मेधाविभिः स्तुत्या प्रेरितः “सदावृधः नित्यवृद्धो भवन् “नः अस्मभ्यं “देवेषु स्थितं धनम् “आ "यमत् आ प्रयच्छतु ।।


स नो॑ अ॒द्य वसु॑त्तये क्रतु॒विद्गा॑तु॒वित्त॑मः ।

वाजं॑ जेषि॒ श्रवो॑ बृ॒हत् ॥६

सः । नः॒ । अ॒द्य । वसु॑त्तये । क्र॒तु॒ऽवित् । गा॒तु॒वित्ऽत॑मः ।

वाज॑म् । जे॒षि॒ । श्रवः॑ । बृ॒हत् ॥६

सः । नः । अद्य । वसुत्तये । क्रतुऽवित् । गातुवित्ऽतमः ।

वाजम् । जेषि । श्रवः । बृहत् ॥६

हे सोम “क्रतुवित् क्रतूनां कर्मणां लम्भकः “गातुवित्तमः पुण्यलोकानामतिशयेन मार्गस्य ज्ञाता त्वम् “अद्य अस्मिन्नहनि “नः अस्माकं “वसुत्तये धनलाभाय “बृहत् महत् “श्रवः अन्नं “वाजं बलं च “जेषि जय ॥ ॥ १ ॥

[सम्पाद्यताम्]

टिप्पणी


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.४४&oldid=400559" इत्यस्माद् प्रतिप्राप्तम्