सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १४/आयास्ये(प्रणइन्दो)

विकिस्रोतः तः
आयास्ये
आयास्ये द्वे.


प्र ण इन्दो महे तु न ऊर्मिं न बिभ्रदर्षसि ।
अभि देवां अयास्यः ॥ ५०९ ॥ ऋ. ९.४४.१

(५०९।१) ॥ आयास्ये द्वे । द्वयोरयास्यो गायत्री सोमः ॥
प्रनइन्दोऐ । हीऐहीऽ२३४या ॥ 'महेतुनऐऽ२हीऽ२हीऽ३या । ऊर्मिन्नबिभ्रदर्षसऐऽ२हीऐऽ२हीऽ३या । अभायेऽ३ ॥ दाऽ२इवाऽ२३४औहोवा ॥ अयासियाऽ२३४५: ॥
( दी० ७ ॥ प० ७ । मा० १० ) १८ ( छौ । ९३५ )

(५०९/२)
 
प्रनइन्दो । इयाऽ३४३ईऽ३४या । महेतुनइयाऽ२ईऽ३या । ऊर्मिन्नबिभ्रदर्षसइयाऽ२ईऽ३या ।। अभायेऽ३ ॥ दाऽ२इवाऽ२३४औहोवा ॥ एऽ३ । अयासियाऽ२३४५: ।।
( दी० ६ । प० ८ । मा० ९ ) १९ ( गो । ९३६ )


[सम्पाद्यताम्]

टिप्पणी

ताण्ड्यब्राह्मणे (११.८.१०) आयास्ये शब्दस्य उल्लेखः अस्ति। अयमन्वेषणीयः अस्ति यत् आयास्ये शब्दतः तात्पर्यं वर्तमान ग्रामगेयसामभ्यः अस्ति अथवा (ऐडमायास्यम्, एवं त्रिणिधनमायास्यम् सामेभ्यः।