ऋग्वेदः सूक्तं ९.२३
← सूक्तं ९.२२ | ऋग्वेदः - मण्डल ९ सूक्तं ९.२३ कश्यपोऽसितो देवलो वा। |
सूक्तं ९.२४ → |
दे. पवमानः सोमः। गायत्री। |
सोमा असृग्रमाशवो मधोर्मदस्य धारया ।
अभि विश्वानि काव्या ॥१॥
अनु प्रत्नास आयवः पदं नवीयो अक्रमुः ।
रुचे जनन्त सूर्यम् ॥२॥
आ पवमान नो भरार्यो अदाशुषो गयम् ।
कृधि प्रजावतीरिषः ॥३॥
अभि सोमास आयवः पवन्ते मद्यं मदम् ।
अभि कोशं मधुश्चुतम् ॥४॥
सोमो अर्षति धर्णसिर्दधान इन्द्रियं रसम् ।
सुवीरो अभिशस्तिपाः ॥५॥
इन्द्राय सोम पवसे देवेभ्यः सधमाद्यः ।
इन्दो वाजं सिषाससि ॥६॥
अस्य पीत्वा मदानामिन्द्रो वृत्राण्यप्रति ।
जघान जघनच्च नु ॥७॥
सायणभाष्यम्
‘सोमा असृग्रम्' इति सप्तर्चं त्रयोविंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘सोमा असृग्रम्' इत्यनुक्रान्तम् । गतो विनियोगः ।।
सोमा॑ असृग्रमा॒शवो॒ मधो॒र्मद॑स्य॒ धार॑या ।
अ॒भि विश्वा॑नि॒ काव्या॑ ॥१
सोमाः॑ । अ॒सृ॒ग्र॒म् । आ॒शवः॑ । मधोः॑ । मद॑स्य । धार॑या ।
अ॒भि । विश्वा॑नि । काव्या॑ ॥१
सोमाः । असृग्रम् । आशवः । मधोः । मदस्य । धारया ।
अभि । विश्वानि । काव्या ॥१
“आशवः शीघ्राः “सोमाः “असृग्रम् असृग्रन् सृज्यन्ते । “मधोः मधुरस्य “मदस्य मदकरस्य “धारया असृग्रमिति संबन्धः । किं प्रति उच्यते । “अभि लक्षीकृत्य “विश्वानि सर्वाणि “काव्या काव्यानि स्तोत्राणि प्रति । स्तोत्रसमय इत्यर्थः ।
अनु॑ प्र॒त्नास॑ आ॒यवः॑ प॒दं नवी॑यो अक्रमुः ।
रु॒चे ज॑नंत॒ सूर्यं॑ ॥२
अनु॑ । प्र॒त्नासः॑ । आ॒यवः॑ । प॒दम् । नवी॑यः । अ॒क्र॒मुः॒ ।
रु॒चे । ज॒न॒न्त॒ । सूर्य॑म् ॥२
अनु । प्रत्नासः । आयवः । पदम् । नवीयः । अक्रमुः ।
रुचे । जनन्त । सूर्यम् ॥२
“प्रत्नासः पुराणाः केचित् “आयवः शीघ्रगमना अश्वाः "नवीयः नवतरं “पदम् “अनु “अक्रमुः अनुक्रमन्ते । रूपकव्याहारेण सोमाः स्तूयन्ते । “रुचे दीप्त्यै “सूर्यं “जनन्त कुर्वन्ति । दीप्तं कुर्वन्तीत्यर्थः । सोमप्यायनेन हि चन्द्रो रोचते ।
आ प॑वमान नो भरा॒र्यो अदा॑शुषो॒ गयं॑ ।
कृ॒धि प्र॒जाव॑ती॒रिषः॑ ॥३
आ । प॒व॒मा॒न॒ । नः॒ । भ॒र॒ । अ॒र्यः । अदा॑शुषः । गय॑म् ।
कृ॒धि । प्र॒जाऽव॑तीः । इषः॑ ॥३
आ । पवमान । नः । भर । अर्यः । अदाशुषः । गयम् ।
कृधि । प्रजाऽवतीः । इषः ॥३
हे “पवमान सोम त्वं “नः अस्मभ्यम् “अर्यः अरेः “अदाशुषः अप्रयच्छतः “गयं गृहं गृहोपलक्षितं धनम् “आ “भर आहर । तथास्मभ्यं “प्रजावतीरिषः च “कृधि कुरु ।।
अ॒भि सोमा॑स आ॒यवः॒ पवं॑ते॒ मद्यं॒ मदं॑ ।
अ॒भि कोशं॑ मधु॒श्चुतं॑ ॥४
अ॒भि । सोमा॑सः । आ॒यवः॑ । पव॑न्ते । मद्य॑म् । मद॑म् ।
अ॒भि । कोश॑म् । म॒धु॒ऽश्चुत॑म् ॥४
अभि । सोमासः । आयवः । पवन्ते । मद्यम् । मदम् ।
अभि । कोशम् । मधुऽश्चुतम् ॥४
“आयवः गन्तारः “सोमासः सोमाः “मद्यं मदकरं रसम् “अभि “पवन्ते क्षरन्ति । तथा “मधुश्चुतं मधुस्राविणं "कोशम् । रसाधारेण कोशशब्देन तत्रामिश्रितो रसो लक्ष्यते। तम् “अभि पवन्त इति शेषः ।।
सोमो॑ अर्षति धर्ण॒सिर्दधा॑न इंद्रि॒यं रसं॑ ।
सु॒वीरो॑ अभिशस्ति॒पाः ॥५
सोमः॑ । अ॒र्ष॒ति॒ । ध॒र्ण॒सिः । दधा॑नः । इ॒न्द्रि॒यम् । रस॑म् ।
सु॒ऽवीरः॑ । अ॒भि॒श॒स्ति॒ऽपाः ॥५
सोमः । अर्षति । धर्णसिः । दधानः । इन्द्रियम् । रसम् ।
सुऽवीरः । अभिशस्तिऽपाः ॥५
“सोमः “अर्षति गच्छति । कीदृशः सः। “धर्णसिः धारको जगतां तथा “इन्द्रियम् इन्द्रियवर्धकं “रसं “दधानः धारयन् “सुवीरः सुवीर्यः “अभिशस्तिपाः अभिशस्तेः पाता। अभितो हिंसा ततो रक्षक इत्यर्थः। सोमपानं ब्रह्महत्यादिनिन्दामनुमार्ष्टीति प्रसिद्धम् ॥
इंद्रा॑य सोम पवसे दे॒वेभ्यः॑ सध॒माद्यः॑ ।
इंदो॒ वाजं॑ सिषाससि ॥६
इन्द्रा॑य । सो॒म॒ । प॒व॒से॒ । दे॒वेभ्यः॑ । स॒ध॒ऽमाद्यः॑ ।
इन्दो॒ इति॑ । वाज॑म् । सि॒सा॒स॒सि॒ ॥६
इन्द्राय । सोम । पवसे । देवेभ्यः । सधऽमाद्यः ।
इन्दो इति । वाजम् । सिसाससि ॥६
हे सोम “सधमाद्यः । सधमादो यज्ञः । तदर्हस्त्वम् “इन्द्राय “देवेभ्यः चान्येभ्यः “पवसे क्षरसि । हे तादृश "इन्दो सोम अस्मभ्यं “वाजम् अन्नं “सिषाससि दातुमिच्छसि ।।
अ॒स्य पी॒त्वा मदा॑ना॒मिंद्रो॑ वृ॒त्राण्य॑प्र॒ति ।
ज॒घान॑ ज॒घन॑च्च॒ नु ॥७
अ॒स्य । पी॒त्वा । मदा॑नाम् । इन्द्रः॑ । वृ॒त्राणि॑ । अ॒प्र॒ति ।
ज॒घान॑ । ज॒घन॑त् । च॒ । नु ॥७
अस्य । पीत्वा । मदानाम् । इन्द्रः । वृत्राणि । अप्रति ।
जघान । जघनत् । च । नु ॥७
“मदानां मदकराणां मध्येऽतिशयेन मदकरम् “अस्य अमुं सोमं “पीत्वा “वृत्राणि शत्रून् अप्रतिगतः सन् “इन्द्रः "जघान हतवान् । “नु क्षिप्रं “जघनत् “च । हन्तु चेदानीमपि ॥ ॥१३॥
टिप्पणी
९.२३.४ अभि सोमास आयवः इति
द्विहिङ्कारवामदेव्यम् (ऊहगानम् १.८.७)
गायत्रपार्श्वम् (ऊहगानम् १.८.८)
पौरुहन्मनम् (ऊहगानम् १.८.९)
द्वैगतम् (ऊहगानम् १.८.१०)
हारायणम् (ऊहगानम् १.८.११)
अच्छिद्रम् (ऊहगानम् १.८.१२)
मण्डल ९ | |||
---|---|---|---|