ऋग्वेदः सूक्तं ९.२४
← सूक्तं ९.२३ | ऋग्वेदः - मण्डल ९ सूक्तं ९.२४ कश्यपोऽसितो देवलो वा। |
सूक्तं ९.२५ → |
दे. पवमानः सोमः। गायत्री। |
प्र सोमासो अधन्विषुः पवमानास इन्दवः ।
श्रीणाना अप्सु मृञ्जत ॥१॥
अभि गावो अधन्विषुरापो न प्रवता यतीः ।
पुनाना इन्द्रमाशत ॥२॥
प्र पवमान धन्वसि सोमेन्द्राय पातवे ।
नृभिर्यतो वि नीयसे ॥३॥
त्वं सोम नृमादनः पवस्व चर्षणीसहे ।
सस्निर्यो अनुमाद्यः ॥४॥
इन्दो यदद्रिभिः सुतः पवित्रं परिधावसि ।
अरमिन्द्रस्य धाम्ने ॥५॥
पवस्व वृत्रहन्तमोक्थेभिरनुमाद्यः ।
शुचिः पावको अद्भुतः ॥६॥
शुचिः पावक उच्यते सोमः सुतस्य मध्वः ।
देवावीरघशंसहा ॥७॥
सायणभाष्यम्
'प्र सोमासः' इति सप्तर्चं चतुर्विंशं सूक्तम् । असितो देवलो वर्षिर्गायत्री छन्दः सोमो देवता । ‘प्र सोमासः' इत्यनुक्रान्तम् । गतो विनियोगः ॥
प्र सोमा॑सो अधन्विषुः॒ पव॑मानास॒ इंद॑वः ।
श्री॒णा॒ना अ॒प्सु मृं॑जत ॥१
प्र । सोमा॑सः । अ॒ध॒न्वि॒षुः॒ । पव॑मानासः । इन्द॑वः ।
श्री॒णा॒नाः । अ॒प्ऽसु । मृ॒ञ्ज॒त॒ ॥१
प्र । सोमासः । अधन्विषुः । पवमानासः । इन्दवः ।
श्रीणानाः । अप्ऽसु । मृञ्जत ॥१
“सोमासः सोमाः “पवमानासः पूयमानाः “इन्दवः दीप्ताः “प्र “अधन्विषुः । धन्वतिर्गतिकर्मा। प्रगच्छन्ति । किंच “श्रीणानाः गोभिः श्रयमाणाः "अप्सु वसतीवरीषु च “मृञ्जत मृज्यन्ते ।
अ॒भि गावो॑ अधन्विषु॒रापो॒ न प्र॒वता॑ य॒तीः ।
पु॒ना॒ना इंद्र॑माशत ॥२
अ॒भि । गावः॑ । अ॒ध॒न्वि॒षुः॒ । आपः॑ । न । प्र॒ऽवता॑ । य॒तीः ।
पु॒ना॒नाः । इन्द्र॑म् । आ॒श॒त॒ ॥२
अभि । गावः । अधन्विषुः । आपः । न । प्रऽवता । यतीः ।
पुनानाः । इन्द्रम् । आशत ॥२
“गावः गमनशीला इन्दवः “अभि “अधन्विषुः अभिगच्छन्ति दशापवित्रम् । किमिव । “प्रवता प्रवणवता देशेन “यतीः गच्छन्त्यः "आपो “न आप इव । पश्चात् “पुनानाः “इन्द्रं प्रीणयितुम् “आशत व्याप्नुवन् । आहुतिप्रणाड्येन्द्रमेव वा व्याप्नुवन् ॥
प्र प॑वमान धन्वसि॒ सोमेंद्रा॑य॒ पात॑वे ।
नृभि॑र्य॒तो वि नी॑यसे ॥३
प्र । प॒व॒मा॒न॒ । ध॒न्व॒सि॒ । सोम॑ । इन्द्रा॑य । पात॑वे ।
नृऽभिः॑ । य॒तः । वि । नी॒य॒से॒ ॥३
प्र । पवमान । धन्वसि । सोम । इन्द्राय । पातवे ।
नृऽभिः । यतः । वि । नीयसे ॥३
हे पवमान “सोम “इन्द्राय इन्द्रस्य “पातवे पानाय “प्र “धन्वसि प्रगच्छस्याहवनीयं प्रति हविर्धानात् । तदेवाह। "नृभिः नेतृभिर्ऋत्विग्भिः “यतः विनीतः “वि “नीयसे हविर्धानात् । अथवा । पवमान प्र धन्वसि पात्रं प्रतीन्द्रपानाय तदर्थं हविर्धानाद्वि नीयसे ।
त्वं सो॑म नृ॒माद॑नः॒ पव॑स्व चर्षणी॒सहे॑ ।
सस्नि॒र्यो अ॑नु॒माद्यः॑ ॥४
त्वम् । सो॒म॒ । नृ॒ऽमाद॑नः । पव॑स्व । च॒र्ष॒णि॒ऽसहे॑ ।
सस्निः॑ । यः । अ॒नु॒ऽमाद्यः॑ ॥४
त्वम् । सोम । नृऽमादनः । पवस्व । चर्षणिऽसहे ।
सस्निः । यः । अनुऽमाद्यः ॥४
हे “सोम “त्वं नृमादनः नृणां मादयिता त्वं “चर्षणीसहे । चर्षणयो मनुष्या द्वेष्टारः । तेषां समभिभवित्र इन्द्राय “पवस्व क्षर "यः त्वं “सस्निः शुद्धः “अनुमाद्यः स्तुत्यः स पवस्वेति समन्वयः ॥
इंदो॒ यदद्रि॑भिः सु॒तः प॒वित्रं॑ परि॒धाव॑सि ।
अर॒मिंद्र॑स्य॒ धाम्ने॑ ॥५
इन्दो॒ इति॑ । यत् । अद्रि॑ऽभिः । सु॒तः । प॒वित्र॑म् । प॒रि॒ऽधाव॑सि ।
अर॑म् । इन्द्र॑स्य । धाम्ने॑ ॥५
इन्दो इति । यत् । अद्रिऽभिः । सुतः । पवित्रम् । परिऽधावसि ।
अरम् । इन्द्रस्य । धाम्ने ॥५
हे “इन्दो त्वं “यत् यदा “अद्रिभिः ग्रावभिः “सुतः अभिषुतः “पवित्रं दशापवित्रं “परिधावसि परिगच्छसि । तदा “इन्द्रस्य “धाम्ने स्थानायाधारकायोदराय वा “अरं पर्याप्तो भवसि ।।
पव॑स्व वृत्रहंतमो॒क्थेभि॑रनु॒माद्यः॑ ।
शुचिः॑ पाव॒को अद्भु॑तः ॥६
पव॑स्व । वृ॒त्र॒ह॒न्ऽत॒म॒ । उ॒क्थेभिः॑ । अ॒नु॒ऽमाद्यः॑ ।
शुचिः॑ । पा॒व॒कः । अद्भु॑तः ॥६
पवस्व । वृत्रहन्ऽतम । उक्थेभिः । अनुऽमाद्यः ।
शुचिः । पावकः । अद्भुतः ॥६
हे “वृत्रहन्तम शत्रूणामतिशयेन हन्तरिन्दो त्वं “पवस्व क्षर । कीदृशस्त्वम् । “उक्थेभिः शस्त्रैः “अनुमाद्यः स्तुत्यः “शुचिः शुद्धः “पावकः अन्यस्य शोधकः “अद्भुतः महान् । एवंमहानुभावः पवस्व ॥
शुचिः॑ पाव॒क उ॑च्यते॒ सोमः॑ सु॒तस्य॒ मध्वः॑ ।
दे॒वा॒वीर॑घशंस॒हा ॥७
शुचिः॑ । पा॒व॒कः । उ॒च्य॒ते॒ । सोमः॑ । सु॒तस्य॑ । मध्वः॑ ।
दे॒व॒ऽअ॒वीः । अ॒घ॒शं॒स॒ऽहा ॥७
शुचिः । पावकः । उच्यते । सोमः । सुतस्य । मध्वः ।
देवऽअवीः । अघशंसऽहा ॥७
“सुतस्य अभिषुतस्य “मध्वः मदकरस्य वल्ल्यात्मकः “सोमः रसरूपः “शुचिः स्वयं शुद्धः “पावकः शोधकश्च “उच्यते । तथा “देवावीः देवानामविता तर्पयिता “अघशंसहा । अघं पापं शंसन्तीत्यघशंसा असुराः। तेषां हन्तेति चोच्यते ॥ ॥ १४ ॥ ॥ १ ॥
मण्डल ९ | |||
---|---|---|---|