महाभारतम्-14-आश्वमेधिकपर्व-024
← आश्वमेधिकपर्व-023 | महाभारतम् वेदव्यासः |
|
कृष्णेनार्जुनंप्रति प्राणापानादीनां स्वस्वश्रैष्ठ्यप्रकारकविवादादिप्रतिपादकब्राह्मणदंपतिसंवादानुवादः।।
।।ब्राह्मण उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
सुभगे पञ्चहोतॄणां विधानमिह यादृशम्।। 1
प्राणापानवुदानश्च समानो व्यान एव च।
पञ्चहोतॄंस्तथैतान्वै परं भावं विदुर्बुधाः।। 2
ब्राह्मण्युवाच।
स्वभावात्सप्तहोतार इति मे पूर्विका मतिः।
यथा वै पञ्च होतारः परो भावस्तदुच्यताम्।। 3
ब्राह्मण उवाच।
प्राणेन सम्भृतो वायुरपानो जायते ततः।
अपाने सम्भृतो वायुस्ततो व्यानः प्रवर्तते।। 4
व्यानेन सम्भृतो वायुस्ततोदानः प्रवर्तते।
उदाने सम्भृतो वायुः समानो नाम जायते।। 5
तेऽपृच्छन्त पुरो गत्वा पूर्वजातं पितामहम्।
यो नः श्रेष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति।। 6
ब्रह्मोवाच।
यस्मिन्प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे।
यस्मिन्प्रवृत्ते च पुनश्चरन्ति
स वै श्रेष्ठो गच्छत यत्र कामः।। 7
प्राण उवाच।
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे।
मयि प्रवृत्ते च पुनश्चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्।। 8
8
ब्राह्मण उवाच।
प्रामः प्रालीयत ततः पुनश्च प्रचचार ह।
समानश्चाप्युदानश्च वचो ब्रूतां पुनः शुभे।। 9
न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम्।
न त्वं श्रेष्ठो हि नः प्राण अपानो हि वशे तव।
प्रचचार पुनः प्राणस्ततोऽपानोऽभ्यभाषत।। 10
उपान उवाच। 11
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे
मयि प्रवृत्ते च पुनश्चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्।। 11
ब्राह्मण उवाच। 12
व्यानश्च तमुदानश्चि भाषमाणमथोचतुः।
अपान न त्वं श्रेष्ठोसि प्राणो हि वशगस्तव।। 12
अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत्।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना।। 13
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे।
मयि प्रवृत्ते च पुनश्चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्।। 14
ब्राह्मण उवाच।
प्रालीयत ततो व्यानः पुनश्च प्रचचार ह।
प्राणापानावुदानस्च समानश्च तमब्रुवन्।। 15
न त्वं श्रेष्ठोसि नो व्यान समानस्तु वशे तव।
प्रचचार पुनर्व्यानः समानः पुनरब्रवीत्।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना।। 16
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे।
मयि प्रवृत्ते च पुनश्चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्।। 17
`ततः समानः प्रालिल्ये पुनश्च प्रचचार ह।
प्राणापानावुदानस्च व्यानश्चैव तमब्रवीत्।
न त्वं समान श्रेष्ठोसि व्यान एव वशे तव।।' 18
समानः प्रचचाराथ उदानस्तमुवाच ह।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना।। 19
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे।
मयि प्रवृत्ते च पुनश्चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्।। 20
ततः प्रालीयतोदानः पुनश्च प्रचचार ह।
प्राणापानौ समानश्च व्यानश्चैव तमब्रुवन्।
उदानि न त्वं श्रेष्ठोसि व्यानि एव वशे तव।। 21
ब्राह्मण उवाच।
ततस्तानब्रवीत्सर्वान्स्मयमानः प्रजापतिः।
सर्वे श्रेष्ठा न च श्रेष्ठाः सर्वे चान्योन्यकाङ्क्षिणः।। 22
सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यधर्मिणः।
इति तानब्रवीत्सर्वान्समवेतान्प्रजापतिः।। 23
एकः स्थिरश्चराश्चान्ये विशेषात्पञ्च वायवः।
एक एव च सर्वात्मा बहुधाऽप्युपचीयते।। 24
परस्परस्य सुहृदो भावयन्तः परस्परम्।
स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम्।। 25
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि चतुर्विशोऽध्यायः।। 24 ।।
24 बहुधाप्युपलीयते इति क.थ.पाठः।।
आश्वमेधिकपर्व-023 | पुटाग्रे अल्लिखितम्। | आश्वमेधिकपर्व-025 |