ऋग्वेदः सूक्तं ९.६६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.६६ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.६५ ऋग्वेदः - मण्डल ९
सूक्तं ९.६६
शतंं वैखानसाः।
सूक्तं ९.६७ →
दे. पवमानः सोमः, १९-२१ अग्निः पवमानः। गायत्री, १८ अनुष्टुप्।


पवस्व विश्वचर्षणेऽभि विश्वानि काव्या ।
सखा सखिभ्य ईड्यः ॥१॥
ताभ्यां विश्वस्य राजसि ये पवमान धामनी ।
प्रतीची सोम तस्थतुः ॥२॥
परि धामानि यानि ते त्वं सोमासि विश्वतः ।
पवमान ऋतुभिः कवे ॥३॥
पवस्व जनयन्निषोऽभि विश्वानि वार्या ।
सखा सखिभ्य ऊतये ॥४॥
तव शुक्रासो अर्चयो दिवस्पृष्ठे वि तन्वते ।
पवित्रं सोम धामभिः ॥५॥
तवेमे सप्त सिन्धवः प्रशिषं सोम सिस्रते ।
तुभ्यं धावन्ति धेनवः ॥६॥
प्र सोम याहि धारया सुत इन्द्राय मत्सरः ।
दधानो अक्षिति श्रवः ॥७॥
समु त्वा धीभिरस्वरन्हिन्वतीः सप्त जामयः ।
विप्रमाजा विवस्वतः ॥८॥
मृजन्ति त्वा समग्रुवोऽव्ये जीरावधि ष्वणि ।
रेभो यदज्यसे वने ॥९॥
पवमानस्य ते कवे वाजिन् त्सर्गा असृक्षत ।
अर्वन्तो न श्रवस्यवः ॥१०॥
अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये ।
अवावशन्त धीतयः ॥११॥
अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः ।
अग्मन्नृतस्य योनिमा ॥१२॥
प्र ण इन्दो महे रण आपो अर्षन्ति सिन्धवः ।
यद्गोभिर्वासयिष्यसे ॥१३॥
अस्य ते सख्ये वयमियक्षन्तस्त्वोतयः ।
इन्दो सखित्वमुश्मसि ॥१४॥
आ पवस्व गविष्टये महे सोम नृचक्षसे ।
एन्द्रस्य जठरे विश ॥१५॥
महाँ असि सोम ज्येष्ठ उग्राणामिन्द ओजिष्ठः ।
युध्वा सञ्छश्वज्जिगेथ ॥१६॥
य उग्रेभ्यश्चिदोजीयाञ्छूरेभ्यश्चिच्छूरतरः ।
भूरिदाभ्यश्चिन्मंहीयान् ॥१७॥
त्वं सोम सूर एषस्तोकस्य साता तनूनाम् ।
वृणीमहे सख्याय वृणीमहे युज्याय ॥१८॥
अग्न आयूंषि पवस आ सुवोर्जमिषं च नः ।
आरे बाधस्व दुच्छुनाम् ॥१९॥
अग्निर्ऋषिः पवमानः पाञ्चजन्यः पुरोहितः ।
तमीमहे महागयम् ॥२०॥
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् ।
दधद्रयिं मयि पोषम् ॥२१॥
पवमानो अति स्रिधोऽभ्यर्षति सुष्टुतिम् ।
सूरो न विश्वदर्शतः ॥२२॥
स मर्मृजान आयुभिः प्रयस्वान्प्रयसे हितः ।
इन्दुरत्यो विचक्षणः ॥२३॥
पवमान ऋतं बृहच्छुक्रं ज्योतिरजीजनत् ।
कृष्णा तमांसि जङ्घनत् ॥२४॥
पवमानस्य जङ्घ्नतो हरेश्चन्द्रा असृक्षत ।
जीरा अजिरशोचिषः ॥२५॥
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
हरिश्चन्द्रो मरुद्गणः ॥२६॥
पवमानो व्यश्नवद्रश्मिभिर्वाजसातमः ।
दधत्स्तोत्रे सुवीर्यम् ॥२७॥
प्र सुवान इन्दुरक्षाः पवित्रमत्यव्ययम् ।
पुनान इन्दुरिन्द्रमा ॥२८॥
एष सोमो अधि त्वचि गवां क्रीळत्यद्रिभिः ।
इन्द्रं मदाय जोहुवत् ॥२९॥
यस्य ते द्युम्नवत्पयः पवमानाभृतं दिवः ।
तेन नो मृळ जीवसे ॥३०॥


सायणभाष्यम्

‘पवस्व' इति त्रिंशदृचं षष्ठं सूक्तम् । अत्रानुक्रम्यते- पवस्व शतं वैखानसा अष्टादश्यनुष्टुप्परास्तिस्र आग्नेय्यः' इति । शतसंख्याका वैखानसाख्याः संहता ऋषयः । ‘ त्वं सोम सूरः ' इत्येषानुष्टुप् । शिष्टा गायत्र्यः । ‘ अग्न आयूंषि' इत्याद्यास्तिस्रः पवमानविशिष्टाग्निदेवताकाः । अन्यासां पवमानः सोमो देवता । गतः सूक्तविनियोगः ॥


पव॑स्व विश्वचर्षणे॒ऽभि विश्वा॑नि॒ काव्या॑ ।

सखा॒ सखि॑भ्य॒ ईड्यः॑ ॥१

पव॑स्व । वि॒श्व॒ऽच॒र्ष॒णे॒ । अ॒भि । विश्वा॑नि । काव्या॑ ।

सखा॑ । सखि॑ऽभ्यः । ईड्यः॑ ॥१

पवस्व । विश्वऽचर्षणे । अभि । विश्वानि । काव्या ।

सखा । सखिऽभ्यः । ईड्यः ॥१

हे "विश्वचर्षणे सर्वव्यापित्वेन सर्वस्य द्रष्टर्हे सोम “सखा स्तुत्यस्तोतृयष्टृयष्टव्यलक्षणेन संबन्धेन सखिभूतस्त्वम् “ईड्यः स्तोतव्यः सन् “सखिभ्यः हविष्प्रदानेनोपकारकत्वात् मित्रभूतेभ्योऽस्मभ्यं “विश्वानि सर्वाणि "काव्या । कवेः कर्माणि काव्यानि । ब्राह्मणादित्वात् ष्यञ्। सर्वाणि स्तोत्राणि “अभि लक्षीकृत्य “पवस्व आगच्छ॥


ताभ्यां॒ विश्व॑स्य राजसि॒ ये प॑वमान॒ धाम॑नी ।

प्र॒ती॒ची सो॑म त॒स्थतुः॑ ॥२

ताभ्या॑म् । विश्व॑स्य । रा॒ज॒सि॒ । ये इति॑ । प॒व॒मा॒न॒ । धाम॑नी॒ इति॑ ।

प्र॒ती॒ची इति॑ । सो॒म॒ । त॒स्थतुः॑ ॥२

ताभ्याम् । विश्वस्य । राजसि । ये इति । पवमान । धामनी इति ।

प्रतीची इति । सोम । तस्थतुः ॥२

हे “पवमान दशापवित्रेण पूयमान पुनान वा हे “सोम “ये “धामनी पूर्वपक्षापरपक्षयोर्लतारूपस्य सोमस्य तवैकैकपर्णवृद्धिहासाभ्यां तव स्वभूतौ पूर्वादिपक्षौ । यद्वा ये धामनी नामनी अंशुसोमात्मके अपि “प्रतीची त्वदभिमुखं गच्छन्तौ गच्छती वा पक्षौ नामनी वा “तस्थतुः उपजग्मतुः “ताभ्यां त्वं “विश्वस्य सर्वस्य लोकस्य “राजसि स्वामी भवसि । पूर्वादिपक्षाभ्यां सर्वलोकस्योपनायकत्वात्तस्य स्वामी भवसि । पृथिव्यामंशुनाम्ना मनुष्याणां सर्वेषामभीप्सितदानेन तस्य लोकस्य द्युलोके देवेभ्यः स्वसुधामयकलादानेन तेषां प्रीणयिता भवसि । देवाः खलु सोमस्यैकैकवृद्धिहासाभ्यां कलाः पिबन्ति ॥


परि॒ धामा॑नि॒ यानि॑ ते॒ त्वं सो॑मासि वि॒श्वतः॑ ।

पव॑मान ऋ॒तुभिः॑ कवे ॥३

परि॑ । धामा॑नि । यानि॑ । ते॒ । त्वम् । सो॒म॒ । अ॒सि॒ । वि॒श्वतः॑ ।

पव॑मान । ऋ॒तुऽभिः॑ । क॒वे॒ ॥३

परि । धामानि । यानि । ते । त्वम् । सोम । असि । विश्वतः ।

पवमान । ऋतुऽभिः । कवे ॥३

हे “सोम यस्मात् “ते त्वदीयानि “धामानि त्वदधीना अहोरात्ररूपाः कालविशेषाः “परि भवन्ति सर्वत्र व्याप्तास्तिष्ठन्ति । यद्वा त्वदीयानि धामानि तेजांसि परि वर्तन्ते अत एव हे "पवमान पूयमान हे “कवे क्रान्तकर्मन हे सोम त्वम् “ऋतुभिः वसन्तादिकालविशेषैः सह “विश्वतः सर्वतः “असि भवसि । अहोरात्रौ यत्र यत्र व्याप्तौ तत्र तत्र वसन्तादिकालोपाधिकः सोमस्तिष्ठति । तयोस्तधीनत्वादित्यर्थः ॥


पव॑स्व ज॒नय॒न्निषो॒ऽभि विश्वा॑नि॒ वार्या॑ ।

सखा॒ सखि॑भ्य ऊ॒तये॑ ॥४

पव॑स्व । ज॒नय॑न् । इषः॑ । अ॒भि । विश्वा॑नि । वार्या॑ ।

सखा॑ । सखि॑ऽभ्यः । ऊ॒तये॑ ॥४

पवस्व । जनयन् । इषः । अभि । विश्वानि । वार्या ।

सखा । सखिऽभ्यः । ऊतये ॥४

हे सोम “सखा सखिभूतस्त्वं “विश्वानि सर्वाणि “वार्या वरणीयान्यस्मत्कृतानि स्तोत्राणि “अभि लक्षीकृत्य “सखिभ्यः अस्मभ्यम् “ऊतये रक्षणाय जीवनाय “इषः अन्नानि “जनयन् प्रयच्छन् “पवस्व आगच्छ । पवतिर्गतिकर्मा ॥


तव॑ शु॒क्रासो॑ अ॒र्चयो॑ दि॒वस्पृ॒ष्ठे वि त॑न्वते ।

प॒वित्रं॑ सोम॒ धाम॑भिः ॥५

तव॑ । शु॒क्रासः॑ । अ॒र्चयः॑ । दि॒वः । पृ॒ष्ठे । वि । त॒न्व॒ते॒ ।

प॒वित्र॑म् । सो॒म॒ । धाम॑ऽभिः ॥५

तव । शुक्रासः । अर्चयः । दिवः । पृष्ठे । वि । तन्वते ।

पवित्रम् । सोम । धामऽभिः ॥५

हे “सोम “शुक्रासः सर्वत्र ज्वलनशीलाः “धामभिः तेजोभिः सहितस्य “तव स्वभूताः “अर्चयः अर्चनीया रश्मयः “दिवः द्योतमानस्यादित्यस्य द्युलोकस्य वा “पृष्ठे अधरभागे। पृथिव्यामित्यर्थः। “पवित्रं पवनसाधनमुदकं "वि “तन्वते विशेषेण तन्वन्ति विस्तारयन्ति । सर्वत्र कुर्वन्तीत्यर्थः ॥ ॥ ७ ॥


तवे॒मे स॒प्त सिंध॑वः प्र॒शिषं॑ सोम सिस्रते ।

तुभ्यं॑ धावंति धे॒नवः॑ ॥६

तव॑ । इ॒मे । स॒प्त । सिन्ध॑वः । प्र॒ऽशिष॑म् । सो॒म॒ । सि॒स्र॒ते॒ ।

तुभ्य॑म् । धा॒व॒न्ति॒ । धे॒नवः॑ ॥६

तव । इमे । सप्त । सिन्धवः । प्रऽशिषम् । सोम । सिस्रते ।

तुभ्यम् । धावन्ति । धेनवः ॥६

सृष्टिकर्तृत्वप्रसङ्गादाह । हे “सोम “इमे इमाः त्वया सृष्टाः “सप्त सप्तसंख्याकाः “सिन्धवः स्यन्दमाना गङ्गाद्या नद्यः । यद्वा सप्त सर्पणशीला नद्यः “तव “प्रशिषं प्रशासनमाज्ञामभि “सिस्रते अनुसरन्ति । त्वदाज्ञामनुसृत्य समुद्रं गच्छन्तीत्यर्थः । किंच “धेनवः नवप्रसूतिका देवानां हविष्प्रदानेन प्रीणयित्र्यो गावः “तुभ्यं त्वदर्थमेवाशिरं प्रयच्छाम इति “धावन्ति आगच्छन्ति ।


प्र सो॑म याहि॒ धार॑या सु॒त इंद्रा॑य मत्स॒रः ।

दधा॑नो॒ अक्षि॑ति॒ श्रवः॑ ॥७

प्र । सो॒म॒ । या॒हि॒ । धार॑या । सु॒तः । इन्द्रा॑य । म॒त्स॒रः ।

दधा॑नः । अक्षि॑ति । श्रवः॑ ॥७

प्र । सोम । याहि । धारया । सुतः । इन्द्राय । मत्सरः ।

दधानः । अक्षिति । श्रवः ॥७

हे “सोम अभिषूयमाण देव “मत्सरः इन्द्रस्य मदकरस्वं “सुतः अस्माभिरभिषुतः सन् “इन्द्राय इन्द्रार्थं दशापवित्रान्निर्गतया संततया त्वदीयया “धारया द्रोणकलशं “प्र “याहि प्रकर्षेण प्राप्नुहि । यद्वा । हे सोम सुतोऽभिषुतस्त्वमिन्द्राय मत्सरो मादयितृतमः सन् धारयाग्नौ स्वाहाकारेण पात्रात् पतन्त्या धारया सह त्वमिन्द्रमुपयाहि । कीदृशः । “अक्षिति अक्षीणं “श्रवः। श्रव इत्यन्ननाम । “दधानः अस्मभ्यं प्रयच्छन् प्र याहीति ।।


समु॑ त्वा धी॒भिर॑स्वरन्हिन्व॒तीः स॒प्त जा॒मयः॑ ।

विप्र॑मा॒जा वि॒वस्व॑तः ॥८

सम् । ऊं॒ इति॑ । त्वा॒ । धी॒भिः । अ॒स्व॒र॒न् । हि॒न्व॒तीः । स॒प्त । जा॒मयः॑ ।

विप्र॑म् । आ॒जा । वि॒वस्व॑तः ॥८

सम् । ऊं इति । त्वा । धीभिः । अस्वरन् । हिन्वतीः । सप्त । जामयः ।

विप्रम् । आजा । विवस्वतः ॥८

हे “सोम “हिन्वतीः । लिङ्गव्यत्ययः । हिन्वन्तः स्तुतीः प्रेरयन्तः “सप्त सप्तसंख्याकाः “जामयः एकस्मिन् यज्ञे कर्मकरणेन परस्परं बन्धुभूता होतृप्रभृतयः सप्त होत्रकाः “विवस्वतः देवानां हविष्प्रदानेन परिचरणवतो यजमानस्य “आजा आजौ । अजन्ति गच्छन्ति ऋत्विजोऽत्रेत्याजिर्यज्ञः । तस्मिन् “विप्रं मेधाविनं पवमानं “त्वा त्वामेव “धीभिः धीतिभिः स्तुतिभिः “सम् “अस्वरन् अशब्दयन् अस्तुवन् । यद्वा । हिन्वतीर्गच्छन्त्यः सप्त जामयो गङ्गाद्याः सप्त नद्यो धीभिः । वर्णलोपश्छान्दसः । धीतिभिः अङ्गुलीभिर्विप्रं त्वां समस्वरन् प्रेरयन्ति । वसतीवरीभिरेकधनाभिश्च परिशोधनार्थं प्रेरयन्तीति ।।


मृ॒जंति॑ त्वा॒ सम॒ग्रुवोऽव्ये॑ जी॒रावधि॒ ष्वणि॑ ।

रे॒भो यद॒ज्यसे॒ वने॑ ॥९

मृ॒जन्ति॑ । त्वा॒ । सम् । अ॒ग्रुवः॑ । अव्ये॑ । जी॒रौ । अधि॑ । स्वनि॑ ।

रे॒भः । यत् । अ॒ज्यसे॑ । वने॑ ॥९

मृजन्ति । त्वा । सम् । अग्रुवः । अव्ये । जीरौ । अधि । स्वनि ।

रेभः । यत् । अज्यसे । वने ॥९

हे सोम “अग्रुवः । अङ्गुलिनामैतत् । अजन्ति प्रक्षिपन्ति हवींष्यग्नाविति । यद्वा अगेर्गत्यर्थस्य । कर्मकरणार्थमितस्ततो गच्छन्तीति । अग्रुवोऽङ्गुलयोऽस्मदीयाः “जीरौ पापानामभिभावुके क्षिप्रं कृते वा “स्वनि “अधि अधिकं शब्दायमाने “अव्ये अविवालेन कृते पवित्रे “त्वा त्वां तदा “सं “मृजन्ति सम्यक् शोधयन्ति । “यत् यदा “रेभः । ‘ रेभृ शब्दे । उदकमध्ये प्रक्षेपेण शब्दायमानस्त्वं “वने वननीये वसतीवर्याख्य उदके “अज्यसे अक्तः सिक्तो भवसि । तदा मृजन्तीत्यन्वयः ॥


पव॑मानस्य ते कवे॒ वाजि॒न्त्सर्गा॑ असृक्षत ।

अर्वं॑तो॒ न श्र॑व॒स्यवः॑ ॥१०

पव॑मानस्य । ते॒ । क॒वे॒ । वाजि॑न् । सर्गाः॑ । अ॒सृ॒क्ष॒त॒ ।

अर्व॑न्तः । न । श्र॒व॒स्यवः॑ ॥१०

पवमानस्य । ते । कवे । वाजिन् । सर्गाः । असृक्षत ।

अर्वन्तः । न । श्रवस्यवः ॥१०

मार्जनप्रसङ्गमाह । हे “कवे क्रान्तप्रज्ञ हे “वाजिन् अन्नवन् सोम “पवमानस्य दशापवित्रेण पूयमानस्य “ते तव "सर्गाः । सृज्यन्त इति सर्गा धाराः । कीदृशाः । “श्रवस्यवः । छन्दसि परेच्छायां क्यच् । यष्टॄणामन्नं कामयमानास्त्वदीया धाराः “असृक्षत सृजन्ति । निर्गच्छन्तीत्यर्थः । तत्र दृष्टान्तः । “अर्वन्तो “न । यथाश्वा मन्दुरातो निर्गच्छन्ति तद्वत् पवित्रान्निःसरन्तीत्यर्थः । प्रयोगापेक्षं चात्र धाराबाहुल्यम् ॥ ॥ ८ ॥


अच्छा॒ कोशं॑ मधु॒श्चुत॒मसृ॑ग्रं॒ वारे॑ अ॒व्यये॑ ।

अवा॑वशंत धी॒तयः॑ ॥११

अच्छ॑ । कोश॑म् । म॒धु॒ऽश्चुत॑म् । असृ॑ग्रम् । वारे॑ । अ॒व्यये॑ ।

अवा॑वशन्त । धी॒तयः॑ ॥११

अच्छ । कोशम् । मधुऽश्चुतम् । असृग्रम् । वारे । अव्यये ।

अवावशन्त । धीतयः ॥११

धारानिर्गमनप्रसङ्गादभिधीयते । “मधुश्चुतं मधुररसस्य च्यावयितारं क्षारयितारं “कोशं द्रोणकलशम् "अच्छ अभिलक्ष्य “अव्यये अविमये अविस्वभूते वा “वारे वाले दशापवित्रे “असृग्रं सोमा ऋत्विग्भिः सृज्यन्ते । सृजेः कर्मणि तिङां तिङो भवन्ति' इति झो रमादेशः। किंच “धीतयः । अङ्गुलिनामैतत् । धयन्ति पिबन्त्याभिरिति । अस्मदीया अङ्गुलयः “अवावशन्त तान् सोमान् पुनःपुनर्मार्जनार्थं कामयन्ते ॥


अच्छा॑ समु॒द्रमिंद॒वोऽस्तं॒ गावो॒ न धे॒नवः॑ ।

अग्म॑न्नृ॒तस्य॒ योनि॒मा ॥१२

अच्छ॑ । स॒मु॒द्रम् । इन्द॑वः । अस्त॑म् । गावः॑ । न । धे॒नवः॑ ।

अग्म॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥१२

अच्छ । समुद्रम् । इन्दवः । अस्तम् । गावः । न । धेनवः ।

अग्मन् । ऋतस्य । योनिम् । आ ॥१२

“इन्दवः क्षरन्तः सोमाः "समुद्रं सोमानामेकत्रैव संगमनस्थानं द्रोणकलशम् "अच्छ अभि गच्छन्ति । तत्र दृष्टान्तः । “धेनवः पयःप्रदानेन जनानां प्रीणयित्र्यो नवप्रसूतिकाः “गावः “अस्तं गृहं यथाभिगच्छन्ति तद्वत् । किंच ते सोमाः “ऋतस्य सत्यभूतस्य यज्ञस्य “योनिं स्थानम् “आ “अग्मन् आभिमुख्येन गच्छन्ति । गमेर्लुङि सिचो लुक्युपधालोपः ।।


प्र ण॑ इंदो म॒हे रण॒ आपो॑ अर्षंति॒ सिंध॑वः ।

यद्गोभि॑र्वासयि॒ष्यसे॑ ॥१३

प्र । नः॒ । इ॒न्दो॒ इति॑ । म॒हे । रणे॑ । आपः॑ । अ॒र्ष॒न्ति॒ । सिन्ध॑वः ।

यत् । गोभिः॑ । वा॒स॒यि॒ष्यसे॑ ॥१३

प्र । नः । इन्दो इति । महे । रणे । आपः । अर्षन्ति । सिन्धवः ।

यत् । गोभिः । वासयिष्यसे ॥१३

हे "इन्दो क्षरन् सोम “नः अस्माकं स्वभूताय “रणे रणाय । रणन्ति स्तुवन्ति देवानत्रेति रणो यज्ञः । अधिकरणे अप् । ङेर्यः' (पा. सू. ७.१.१३) इति न भवति सर्वविधीनां छन्दसि विकल्पितत्वात् । “महे महते रणाय यज्ञाय तदर्थं “सिन्धवः स्यन्दमानाः “आपः वसतीवर्याख्याः सोमसेकार्थं तदा “अर्षन्ति प्रगच्छन्ति । “यत् यदा त्वं “गोभिः गव्यैर्दधिक्षीरादिभिः “वासयिष्यसे आच्छाद्यसे मिश्रितो भवसि तदापो गच्छन्तीति ॥


अस्य॑ ते स॒ख्ये व॒यमिय॑क्षंत॒स्त्वोत॑यः ।

इंदो॑ सखि॒त्वमु॑श्मसि ॥१४

अस्य॑ । ते॒ । स॒ख्ये । व॒यम् । इय॑क्षन्तः । त्वाऽऊ॑तयः ।

इन्दो॒ इति॑ । स॒खि॒ऽत्वम् । उ॒श्म॒सि॒ ॥१४

अस्य । ते । सख्ये । वयम् । इयक्षन्तः । त्वाऽऊतयः ।

इन्दो इति । सखिऽत्वम् । उश्मसि ॥१४

हे “इन्दो पवमान “इयक्षन्तः यष्टुमिच्छन्तः पूजयितुमिच्छन्तो वा “अस्य प्रसिद्धस्य “ते तव “सख्ये सखिकर्मणि स्थिताः “वयं “त्वोतयः त्वदायत्तरक्षणाः सन्तः “सखित्वं सखिभावमेव “उश्मसि उश्मः कामयामहे ।।


आ प॑वस्व॒ गवि॑ष्टये म॒हे सो॑म नृ॒चक्ष॑से ।

एंद्र॑स्य ज॒ठरे॑ विश ॥१५

आ । प॒व॒स्व॒ । गोऽइ॑ष्टये । म॒हे । सो॒म॒ । नृ॒ऽचक्ष॑से ।

आ । इन्द्र॑स्य । ज॒ठरे॑ । वि॒श॒ ॥१५

आ । पवस्व । गोऽइष्टये । महे । सोम । नृऽचक्षसे ।

आ । इन्द्रस्य । जठरे । विश ॥१५

हे “सोम पवमान “गविष्टये अङ्गिरसां गवामन्वेष्ट्रे “महे महते "नृचक्षसे नॄणां मनुष्याणां द्रष्रेमा कर्मनेतॄणां फलं पश्यते वा इन्द्राय “आ “पवस्व पात्रेषु दशापवित्रेण पूतो भव । ततः “इन्द्रस्य “जठरे उदर उदरभूते द्रोणकलशे वा “आ “विश प्रविश ॥ ॥ ९ ॥


म॒हाँ अ॑सि सोम॒ ज्येष्ठ॑ उ॒ग्राणा॑मिंद॒ ओजि॑ष्ठः ।

युध्वा॒ संछश्व॑ज्जिगेथ ॥१६

म॒हान् । अ॒सि॒ । सो॒म॒ । ज्येष्ठः॑ । उ॒ग्राणा॑म् । इ॒न्दो॒ इति॑ । ओजि॑ष्ठः ।

युध्वा॑ । सन् । शश्व॑त् । जि॒गे॒थ॒ ॥१६

महान् । असि । सोम । ज्येष्ठः । उग्राणाम् । इन्दो इति । ओजिष्ठः ।

युध्वा । सन् । शश्वत् । जिगेथ ॥१६

हे “सोम त्वं “महान् “असि यतस्त्वं देवानां प्रीणयितासि खलु। त्वं “ज्येष्ठः प्रशस्यतमो भवसि । किंच हे “इन्दो पवमान त्वम् “उग्राणाम् उद्गूर्णबलानामपि “ओजिष्ठः ओजस्वितमो भवसि । त्वं “युध्वा “सन् शत्रुभिः सह युद्धं कुर्वन्नेव “शश्वत् सर्वदा “जिगेथ तांस्तेषां धनानि च जितवानसि ।' जि जये'। थलि ‘ सन्लिटोर्जेः' इत्यभ्यासादुत्तरस्य कवर्गादेशः ॥


य उ॒ग्रेभ्य॑श्चि॒दोजी॑यां॒छूरे॑भ्यश्चि॒च्छूर॑तरः ।

भू॒रि॒दाभ्य॑श्चि॒न्मंही॑यान् ॥१७

यः । उ॒ग्रेभ्यः॑ । चि॒त् । ओजी॑यान् । शूरे॑भ्यः । चि॒त् । शूर॑ऽतरः ।

भू॒रि॒ऽदाभ्यः॑ । चि॒त् । मंही॑यान् ॥१७

यः । उग्रेभ्यः । चित् । ओजीयान् । शूरेभ्यः । चित् । शूरऽतरः ।

भूरिऽदाभ्यः । चित् । मंहीयान् ॥१७

“यः सोमः “उग्रेभ्यश्चित् उद्गूर्णेभ्यो बलवद्भ्योऽपि “ओजीयान् ओजस्वितमः । किंच यः “शूरेभ्यश्चित् वीरेभ्योऽपि “शूरतरः अत्यन्तसमर्थो भवति । तथा यः सोमः “भूरिदाभ्यः। ‘डुदाञ् दाने' ।' आतो मनिन्” इति विच् । बहुधनानां दातृभ्योऽपि “मंहीयान् दातृतमो भवति । तं त्वां वृणीमह इत्युत्तरेण संबन्धः ॥


त्वं सो॑म॒ सूर॒ एष॑स्तो॒कस्य॑ सा॒ता त॒नूनां॑ ।

वृ॒णी॒महे॑ स॒ख्याय॑ वृणी॒महे॒ युज्या॑य ॥१८

त्वम् । सो॒म॒ । सूरः॑ । आ । इषः॑ । तो॒कस्य॑ । सा॒ता । त॒नूना॑म् ।

वृ॒णी॒महे॑ । स॒ख्याय॑ । वृ॒णी॒महे॑ । युज्या॑य ॥१८

त्वम् । सोम । सूरः । आ । इषः । तोकस्य । साता । तनूनाम् ।

वृणीमहे । सख्याय । वृणीमहे । युज्याय ॥१८

हे “सोम “सूरः सुवीर्यः । यद्वा । सर्वस्य यागादिकर्मणि प्रेरकः “त्वम् “इषः अन्नानि अस्माकम् “आ धेहि। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। किंच त्वं “तोकस्य पुत्रस्य “तनूनाम् । ‘ तन्वन्ति विस्तारयन्ति कुलमिति तन्वः पौत्राः। तेषां च "साता दाता भव। ‘षणु दाने'। जनसन' इति विट्। 'जनसन °' इत्यात्वम् । वयं तं त्वां “सख्याय सखिभावाय कर्मणे वा “वृणीमहे संभजामहे । तथा “युज्याय । युज् सहायः । तस्य भावे कर्मणि वा ष्यञ् । संज्ञापूर्वकस्य विधेत्यरनित्वादवृद्धिः । शत्रुवधादिलक्षणसाहाय्याय च वयं “वृणीमहे ।।


अग्निहोत्रे पूर्वस्यामाहुतौ हुतायामुपस्थितेन यजमानेन प्रतिदिवसं प्रतिसंवत्सरं वानेन तृचेनाग्निरुपस्थेयः । सूत्रितं च--- आग्नेयीभिश्चाग्न आयूंषि पवस इति तिसृभिः संवत्सरे संवत्सरे ( आश्व. श्रौ. २.३-४ ) इति । चौलादिकर्मसु चतस्र आज्याहुतयो होतव्यास्तत्रैव तिस्रः । सूत्रितं च -- तेषां पुरस्ताच्चतस्र आज्याहुतीर्जुहुयादग्न आयूंषि पवस इति तिसृभिः' (आश्व. गृ. १.४.३-४) इति । आधाने पवमानेष्टावग्नेः पवमानस्य ' अग्न आयूंषि' इत्येषानुवाक्या। ‘अग्ने पवस्व' इत्येषा याज्या । सूत्रितं च----’ प्रथमायामग्निरग्निः पवमानोऽग्न आयूंषि पवसेऽग्ने पवस्व स्वपाः' ( आश्व. श्रौ. २.१ ) इति । पुनराधेये द्वितीयाज्यभागस्य ‘अग्न आयूंषि' इत्येषा वैकल्पिकानुवाक्या। सूत्रितं च’ नित्यं पूर्वमनुब्राह्मणिनोऽग्न आयूंषि पवस इत्युत्तरम्' (आश्व. श्रौ. २.८) इति ॥

अग्न॒ आयूं॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः ।

आ॒रे बा॑धस्व दु॒च्छुनां॑ ॥१९

अग्ने॑ । आयूं॑षि । प॒व॒से॒ । आ । सु॒व॒ । ऊर्ज॑म् । इष॑म् । च॒ । नः॒ ।

आ॒रे । बा॒ध॒स्व॒ । दु॒च्छुना॑म् ॥१९

अग्ने । आयूंषि । पवसे । आ । सुव । ऊर्जम् । इषम् । च । नः ।

आरे । बाधस्व । दुच्छुनाम् ॥१९

हे “अग्ने पवमानरूप त्वमस्माकम् “आयूंषि जीवनानि “पवसे रक्षसि । “नः अस्माकम् 'ऊर्जम् अन्नरसम् “इषम् अन्नं च “आ “सुव आभिमुख्येन प्रेरय । किंच “दुच्छुनाम् । रक्षोनामैतत् । रक्षांसि “आरे अस्मत्तो दूर एव “बाधस्व संपीडय ॥


अ॒ग्निर्ऋषिः॒ पव॑मानः॒ पांच॑जन्यः पु॒रोहि॑तः ।

तमी॑महे महाग॒यं ॥२०

अ॒ग्निः । ऋषिः॑ । पव॑मानः । पाञ्च॑ऽजन्यः । पु॒रःऽहि॑तः ।

तम् । ई॒म॒हे॒ । म॒हा॒ऽग॒यम् ॥२०

अग्निः । ऋषिः । पवमानः । पाञ्चऽजन्यः । पुरःऽहितः ।

तम् । ईमहे । महाऽगयम् ॥२०

“पाञ्चजन्यः । निषादपञ्चमाश्चत्वारो वर्णाः पञ्चजनाः। यद्वा । गन्धर्वाः पितरो देवा असुरा रक्षांसीत्येते पञ्चजनाः । अथवा देवमनुष्या गन्धर्वाप्सरसः सर्पाः पितर इति ब्राह्मणेऽभिहिताः पञ्चजनाः। ‘ गम्भीराञ्यः् ' इत्यत्र ‘ बहिर्देवपञ्चजनेभ्य इति वक्तव्यम्' (का. ४. ३. ५८. १ ) इति वचनात् भवार्थे ञ्यप्रत्ययः । तेषां तत्तदभीष्टप्रदानेन स्वभूतः “ऋषिः सर्वस्य द्रष्टा “पवमानः तद्रूपोऽग्निः “पुरोहितः कर्मार्थमृत्विग्भिः पुरो निहितः । “तं पूर्वोक्तलक्षणं "महागयं महद्भिर्देवादिभिरपि गीर्भिः गातव्यम् । महान्ति प्रभूतानि यज्ञगृहाणि वा यस्य स तथोक्तः । तं पवमानगुणविशिष्टमग्निम् “ईमहे धनादीनि याचामहे ॥ ॥ १० ॥


अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्यं॑ ।

दध॑द्र॒यिं मयि॒ पोषं॑ ॥२१

अग्ने॑ । पव॑स्व । सु॒ऽअपाः॑ । अ॒स्मे इति॑ । वर्चः॑ । सु॒ऽवीर्य॑म् ।

दध॑त् । र॒यिम् । मयि॑ । पोष॑म् ॥२१

अग्ने । पवस्व । सुऽअपाः । अस्मे इति । वर्चः । सुऽवीर्यम् ।

दधत् । रयिम् । मयि । पोषम् ॥२१

हे “अग्ने “स्वपाः । ‘सोर्मनसी' इत्युत्तरपदाद्युदात्तत्वम्। शोभनकर्मा त्वम् “अस्मे अस्मासु “सुवीर्यं शोभनवीर्योपेतं “वर्चः। ‘ वर्च दीप्तौ । तेजः “पवस्व आगमय । तथा भवान् “रयिं धनं पुत्रं वा “पोषम् । भावे कर्मणि वा घञ् । गवां पुष्टिं यद्वा गवादिकं मयि भवान् “दधत् दधातु । करोत्वित्यर्थः । दधातेर्लेट्यडागमः। ‘घोर्लोपो लेटि वा' (पा. सू. ७. ३. ७० ) इत्याकारलोपः ॥


पव॑मानो॒ अति॒ स्रिधो॒ऽभ्य॑र्षति सुष्टु॒तिं ।

सूरो॒ न वि॒श्वद॑र्शतः ॥२२

पव॑मानः । अति॑ । स्रिधः॑ । अ॒भि । अ॒र्ष॒ति॒ । सु॒ऽस्तु॒तिम् ।

सूरः॑ । न । वि॒श्वऽद॑र्शतः ॥२२

पवमानः । अति । स्रिधः । अभि । अर्षति । सुऽस्तुतिम् ।

सूरः । न । विश्वऽदर्शतः ॥२२

“पवमानः सोमः “अस्रिधः हिंसकान् शत्रूनतिक्रम्य गच्छति । तथा “सुष्टुतिं स्तोतॄणां शोभनां स्तुतिम् “अभ्यर्षति आभिमुख्येन गच्छति । ‘ऋषी गतौ'। तौदादिकः । ‘बहुलं छन्दसि' इति शप् । गुणः । किंच “सूरो “न सूर्य इव “विश्वदर्शतः सर्वस्य द्रष्टा सर्वैर्वा दर्शनीयो भवति ॥


स म॑र्मृजा॒न आ॒युभिः॒ प्रय॑स्वा॒न्प्रय॑से हि॒तः ।

इंदु॒रत्यो॑ विचक्ष॒णः ॥२३

सः । म॒र्मृ॒जा॒नः । आ॒युऽभिः॑ । प्रय॑स्वान् । प्रय॑से । हि॒तः ।

इन्दुः॑ । अत्यः॑ । वि॒ऽच॒क्ष॒णः ॥२३

सः । मर्मृजानः । आयुऽभिः । प्रयस्वान् । प्रयसे । हितः ।

इन्दुः । अत्यः । विऽचक्षणः ॥२३

“आयुभिः कर्मनेतृभिर्मनुष्यैः “मर्मृजानः पुनःपुनर्मृज्यमानः शोध्यमानः “सः “इन्दुः स सोमः “अत्यः देवान् संततं गन्ता भवति । कीदृशः । “प्रयस्वान् प्रीणनशीलान्नवान् । यद्वा । स्तोतृभ्यो देयत्वेनान्नयुक्तः । अत एव “प्रयसे हवीरूपायान्नाय “हितः “विचक्षणः सर्वस्य प्रदर्शनकारी सर्वस्य विद्रष्टा वा सोमो देवानभिगन्ता भवति । ‘चक्षिङ् व्यक्तायां वाचि'। ' अनुदात्तेतश्च हलादेः' इति युच् ॥


पव॑मान ऋ॒तं बृ॒हच्छु॒क्रं ज्योति॑रजीजनत् ।

कृ॒ष्णा तमां॑सि॒ जंघ॑नत् ॥२४

पव॑मानः । ऋ॒तम् । बृ॒हत् । शु॒क्रम् । ज्योतिः॑ । अ॒जी॒ज॒न॒त् ।

कृ॒ष्णा । तमां॑सि । जङ्घ॑नत् ॥२४

पवमानः । ऋतम् । बृहत् । शुक्रम् । ज्योतिः । अजीजनत् ।

कृष्णा । तमांसि । जङ्घनत् ॥२४

“पवमानः “ऋतं सत्यं यथार्थभूतं "बृहत् प्रभूतं सर्वदेशेषु व्यापकं “शुक्रं दीप्यमानं श्वेतवर्णं “ज्योतिः तेजः "अजीजनत् द्युलोक उदपादयत् । किं कुर्वन् । “कृष्णा कृष्णवर्णानि “तमांसि “जङ्घनत् भृशं विनाशयन् । हन्तेर्यङ्लुकि शतरि रूपम् । ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥


पव॑मानस्य॒ जङ्घ्न॑तो॒ हरे॑श्च॒न्द्रा अ॑सृक्षत ।

जी॒रा अ॑जि॒रशो॑चिषः ॥२५

पव॑मानस्य । जङ्घ्न॑तः । हरेः॑ । च॒न्द्राः । अ॒सृ॒क्ष॒त॒ ।

जी॒राः । अ॒जि॒रऽशो॑चिषः ॥२५

पवमानस्य । जङ्घ्नतः । हरेः । चन्द्राः । असृक्षत ।

जीराः । अजिरऽशोचिषः ॥२५

“जङ्घ्नतः पुनःपुनस्तमांसि विनाशयतः “हरेः हरितवर्णस्य “अजिरशोचिषः सर्वत्र गमनशीलतेजसः “पवमानस्य सोमस्य “चन्द्राः । ‘चदि आह्लादने । देवानामाह्लादयित्र्यः “जीराः क्षिप्रंक्षरणशीला धाराः "असृक्षत सृजन्ति । पवित्रान्निर्गच्छन्तीत्यर्थः ॥ ॥ ११ ॥


पव॑मानो र॒थीत॑मः शु॒भ्रेभिः॑ शु॒भ्रश॑स्तमः ।

हरि॑श्चन्द्रो म॒रुद्ग॑णः ॥२६

पव॑मानः । र॒थिऽत॑मः । शु॒भ्रेभिः॑ । शु॒भ्रशः॑ऽतमः ।

हरि॑ऽचन्द्रः । म॒रुत्ऽग॑णः ॥२६

पवमानः । रथिऽतमः । शुभ्रेभिः । शुभ्रशःऽतमः ।

हरिऽचन्द्रः । मरुत्ऽगणः ॥२६

“पवमानः देवः “रथीतमः अतिशयेन रथवान्। 'ईद्रथिनः' ( पा. सू. ८. २. १७, १ ) इति ईकारः । तथा “शुभ्रेभिः शोभायुक्तेभ्यस्तेजोभ्योऽपि “शुभ्रशस्तमः अत्यन्तदीप्यमानश्च । यद्वा । निर्मलेभ्योऽपि निर्मलतमयशोयुक्तः "हरिश्चन्द्रः । ‘ह्रस्वाच्चन्द्रोत्तरपदे ' इति सांहितिकः सुट् । हरितवर्णदीप्तिर्हरितधारावान् वा “मरुद्गणः । मरुतो यस्य गणः सहायभूताः स तथोक्तः । तादृशः सर्वांल्लोकान्' स्वरश्मिभिः स्वदीप्तिभिः व्यश्नवत् व्याप्नोत्वित्युत्तरेणान्वयः ॥


पव॑मानो॒ व्य॑श्नवद्र॒श्मिभि॑र्वाज॒सात॑मः ।

दध॑त्स्तो॒त्रे सु॒वीर्यम् ॥२७

पव॑मानः । वि । अ॒श्न॒व॒त् । र॒श्मिऽभिः॑ । वा॒ज॒ऽसात॑मः ।

दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥२७

पवमानः । वि । अश्नवत् । रश्मिऽभिः । वाजऽसातमः ।

दधत् । स्तोत्रे । सुऽवीर्यम् ॥२७

“पवमानः सोमः “रश्मिभिः स्वदीप्तिभिः “व्यश्नवत् सर्वं जगद्व्याप्नोतु । कीदृशः । “वाजसातमः अतिशयेनान्नस्य दाता बलस्य संभक्ता वा । तथा “स्तोत्रे पवमानस्तोत्रं कुर्वते मनवे “सुवीर्यं सुवीर्योपेतं पुत्रं धनं वा “दधत् विदधत् प्रयच्छन् व्याप्नोतु । अश्नोतेर्लेट्यडागमः ॥


प्र सु॑वा॒न इन्दु॑रक्षाः प॒वित्र॒मत्य॒व्यय॑म् ।

पु॒ना॒न इन्दु॒रिन्द्र॒मा ॥२८

प्र । सु॒वा॒नः । इन्दुः॑ । अ॒क्षा॒रिति॑ । प॒वित्र॑म् । अति॑ । अ॒व्यय॑म् ।

पु॒ना॒नः । इन्दुः॑ । इन्द्र॑म् । आ ॥२८

प्र । सुवानः । इन्दुः । अक्षारिति । पवित्रम् । अति । अव्ययम् ।

पुनानः । इन्दुः । इन्द्रम् । आ ॥२८

“सुवानः अभिषूयमाणः “इन्दुः सोमः “अव्ययम् अविमयमूर्णास्तुकेन निर्मितं दशापवित्रमतीत्य “प्र “अक्षाः कलशं प्रति प्रकर्षेण क्षरति । क्षरतेर्लुङि तिपि सिचि छान्दस इडागमाभावः । ‘ अतो र्लान्तस्य' (पा. सू. ७. २. २) इति वृद्धिः। रात्सस्य' इति सिचो लोपः। रेफान्तं स्पष्टयितुमितिकारः । ‘ बहुलं छन्दसि' (पा. सू. ७.३.९७ ) इति ईडभावः । हल्ङ्यादिना तिलोपः । ततः “पुनानः पवित्रेण शुद्धः “इन्दुः सोमः “इन्द्रमा विशति । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥


ए॒ष सोमो॒ अधि॑ त्व॒चि गवां॑ क्रीळ॒त्यद्रि॑भिः ।

इन्द्रं॒ मदा॑य॒ जोहु॑वत् ॥२९

ए॒षः । सोमः॑ । अधि॑ । त्व॒चि । गवा॑म् । क्री॒ळ॒ति॒ । अद्रि॑ऽभिः ।

इन्द्र॑म् । मदा॑य । जोहु॑वत् ॥२९

एषः । सोमः । अधि । त्वचि । गवाम् । क्रीळति । अद्रिऽभिः ।

इन्द्रम् । मदाय । जोहुवत् ॥२९

“एषः अंशुरूपः “सोमः “गवां “त्वचि आनडुहचर्मणि । अधिशब्द उपर्यर्थद्योतकः । चर्मण्युपरि “अद्रिभिः ग्रावभिः सह “क्रीडति अभिषवाय संक्रीडते । किं कुर्वन् । “मदाय सोमपानेन मादयितुम् “इन्द्रं "जोहुवत् भृशमाह्वयन् । एतेन तत्काल इन्द्रविषयां स्तुतिं कुर्वन्तीत्यवगम्यते ॥


यस्य॑ ते द्यु॒म्नव॒त्पयः॒ पव॑मा॒नाभृ॑तं दि॒वः ।

तेन॑ नो मृळ जी॒वसे॑ ॥३०

यस्य॑ । ते॒ । द्यु॒म्नऽव॑त् । पयः॑ । पव॑मान । आऽभृ॑तम् । दि॒वः ।

तेन॑ । नः॒ । मृ॒ळ॒ । जी॒वसे॑ ॥३०

यस्य । ते । द्युम्नऽवत् । पयः । पवमान । आऽभृतम् । दिवः ।

तेन । नः । मृळ । जीवसे ॥३०

हे “पवमान पूयमान हे सोम “दिवः द्युलोकात् “आभृतं श्येनरूपया गायत्र्याहृतं “द्युम्नवत् अन्नवत् यशोयुक्तं वा “पयः सोमलक्षणमन्नं “यस्य “ते तव स्वभूतं विद्यते तस्मात्त्वं “तेन अन्नेन “नः अस्मान् “जीवसे चिरजीवनाय "मृळ मृळय सुखय ॥ ॥ १२ ॥


[सम्पाद्यताम्]

टिप्पणी

विखनन उपरि संदर्भाः

मणिखननस्य संदर्भः

९.६६.६ तवेमे सप्त सिन्धवः इति

सप्तसिन्धवः Saptasindhu


९.६६.१० पवमानस्य ते कवे इति

साम ६५७


९.६६.१९ अग्न आयूंषि पवस इति

भ्राजाभ्राजे

अग्न आयूंषि पवस इति प्रतिपदं कुर्याद्येषां दीक्षितानां प्रमीयते। अपूता इव वा एते येषां दीक्षितानां प्रमीयते यद्येषाग्निपावमानी प्रतिपद्भवत्यग्निरेवैनान्निष्टपति पवमानः पुनाति। यदायूंषीत्याह य एव जीवन्ति तेष्वायुर्दधाति - पञ्च.ब्रा ६.१०.१

यन्ति वा एते पथ इत्याहुर्ये मृताय कुर्वन्तीत्यैन्द्रवायवाग्रान् ग्रहान् गृह्णते पुनः पन्थानमपियन्ति। अग्न आयूंषि पवस इति प्रतिपत्कार्या य एव जीवन्ति तेष्वायुर्दधाति - पञ्च.ब्रा. ९.८.१२

आहवनीयोपस्थानम् - अग्न आयूंषि पवस इति षड्भिः संवत्सरेसंवत्सरे सदा वा आप.श्रौ.सू. ६.१६.८

त्रीनग्निष्टोमेऽतिग्राह्यान्गृह्णाति । आग्नेयमैन्द्रं सौर्यमिति । अग्न आयूंष्युत्तिष्ठंस्तरणिरिति ग्रहणसादनाः आप.श्रौ.सू. १२.१५.१०

अथाग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठतेऽग्न आयूँ षि पवसेऽग्ने पवस्वेति - बौ.श्रौ.सू. ३.२१, आप.श्रौ.सू. ४.१६.२. ६.१९.१

अग्न्याधेयम् - ततः सभ्यावसथ्यावादधाति लौकिकमग्निमाहृत्य मथित्वाहवनीयाद्वा यथर्ष्याधानेन । अग्न आयूंषि पवसेऽग्ने पवस्व स्वपाः । अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयमिति तिस्र आश्वत्थ्यः समिध एकैकस्मिन्नादधाति । आहवनीये वा तिस्रः आप.श्रौ.सू. ५.१७.३

महारात्रे बुद्ध्वाग्ने नयेत्याग्नीध्रमभिमृशति । इदं विष्णुर्विचक्रम इति हविर्धानम् । अग्न आयूंषि पवस इति स्रुचः ।...आप.श्रौ.सू. १२.१.२

स्तोत्रेस्तोत्रे ऽस्थिकुम्भमुपनिदधाति । मार्जालीये भक्षान्निनयन्ते । अग्न आयूंषि पवस इति प्रतिपदं कुर्वीरन् । रथंतरसामैषां सोमः स्यात् । आयुरेवात्मन्दधतेऽथो पाप्मानमेव विजहतो यन्तीति विज्ञायते आप.श्रौ.सू. १४.२२.१०

ओदनसवः -- तस्य पुरोरुचः । अस्याजरासोऽग्न आयूंषि पवस इत्यैन्द्रवायवस्य । - आप.श्रौ.सू. २२.२७.५

पुनराधानम् -

प्रेतकर्म - अथ गृहेष्वग्निं समाधाय वारणान्परिधीन्परिधाय वारणेन स्रुवेणाग्नय आयुष्मत आहुतिं जुहोत्यग्निर्वा आयुष्मानायुष ईष्टे तमेवैभ्य आयुर्याचत्यग्न आयूंषि पवस इति पुरोऽनुवाक्याभाजनम् - माश १३.८.४.८]

उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहाः । सार्वकालमेके विवाहम् । तेषां पुरस्ताच्चतस्र आज्याहुतीर्जुहुयात् । अग्न आयूंषि पवस इति तिसृभिः प्रजापते न त्वदेतान्यन्य इति च व्याहृतिभिर्वा । समुच्चयमेके । नैके काञ्चन । त्वमर्यमा भवसि यत्कनीनामिति विवाहे चतुर्थीम् अश्व.गृ.सू. १.४.७


९.६६.२० अग्निर्ऋषिः पवमानः पाञ्चजन्यः पुरोहितः। तमीमहे महागयम् इति

ततः सभ्यावसथ्यावादधाति लौकिकमग्निमाहृत्य मथित्वाहवनीयाद्वा यथर्ष्याधानेन । अग्न आयूंषि पवसेऽग्ने पवस्व स्वपाः । अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयमिति तिस्र आश्वत्थ्यः समिध एकैकस्मिन्नादधाति । आहवनीये वा तिस्रः आप.श्रौ.सू. ५.१७.३

तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रम्पावमानीषु सामगाः स्तुवत आग्नेयं होताज्यं शंसति कथमस्य पावमान्योऽनुशस्ता भवन्तीति यो वा अग्निः स पवमानस्तदप्येतदृषिणोक्तम् अग्निर्ऋषिः पवमान इत्येवमु हास्याग्नेयीभिरेव प्रतिपद्यमानस्य पावमान्योऽनुशस्ता भवन्ति - ऐ.ब्रा. २.३७

ये अग्नयः पाञ्चजन्या अस्यां पृथिव्यामधि तेषामसि त्वमुत्तमः प्र नो जीवातवे सुवेति ये केचाग्नयः पञ्चचितिका अस्यां पृथिव्यामधि तेषामसि त्वं सत्तमः प्रोअस्माञ्जीवनाय सुवेति - श.ब्रा. ९.५.१.५३

पाञ्चजन्य/पञ्चजनोपरि टिप्पणी


९.६६.२५ पवमानस्य जङ्घ्नतो इति

अदारसृक् १.९.१४

सुरूपोत्तरम् १.९.१५

हरिश्रीनिधनम् १.९.१६

सैन्धुक्षितम् १.९.१७

गतनिधनबाभ्रवम् १.९.१८

इडानां संक्षारः १.९.१९

ऋषभः पवमानः


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.६६&oldid=315685" इत्यस्माद् प्रतिप्राप्तम्