सामग्री पर जाएँ

ऋग्वेदः सूक्तं ५.४४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ५.४४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ५.४३ ऋग्वेदः - मण्डल ५
सूक्तं ५.४४
[[लेखकः :|]]
सूक्तं ५.४५ →
काश्यपोऽवत्सारः (१० क्षत्र-मनस-एवावद-यजत-सध्रि-अवत्साराः, ११ विश्ववार - यजत-मायी - अवत्साराः, १२ अवत्सारेण सह सदापृण-यजत-बाहुवृक्त-श्रुतवित्- तर्याः, १३ सुतंभरश्च) ।

दे. विश्वे देवाः। जगती, १४-१५ त्रिष्टुप् ।

तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदं स्वर्विदम् ।
प्रतीचीनं वृजनं दोहसे गिराशुं जयन्तमनु यासु वर्धसे ॥१॥
श्रिये सुदृशीरुपरस्य याः स्वर्विरोचमानः ककुभामचोदते ।
सुगोपा असि न दभाय सुक्रतो परो मायाभिरृत आस नाम ते ॥२॥
अत्यं हविः सचते सच्च धातु चारिष्टगातुः स होता सहोभरिः ।
प्रसर्स्राणो अनु बर्हिर्वृषा शिशुर्मध्ये युवाजरो विस्रुहा हितः ॥३॥
प्र व एते सुयुजो यामन्निष्टये नीचीरमुष्मै यम्य ऋतावृधः ।
सुयन्तुभिः सर्वशासैरभीशुभिः क्रिविर्नामानि प्रवणे मुषायति ॥४॥
संजर्भुराणस्तरुभिः सुतेगृभं वयाकिनं चित्तगर्भासु सुस्वरुः ।
धारवाकेष्वृजुगाथ शोभसे वर्धस्व पत्नीरभि जीवो अध्वरे ॥५॥
यादृगेव ददृशे तादृगुच्यते सं छायया दधिरे सिध्रयाप्स्वा ।
महीमस्मभ्यमुरुषामुरु ज्रयो बृहत्सुवीरमनपच्युतं सहः ॥६॥
वेत्यग्रुर्जनिवान्वा अति स्पृधः समर्यता मनसा सूर्यः कविः ।
घ्रंसं रक्षन्तं परि विश्वतो गयमस्माकं शर्म वनवत्स्वावसुः ॥७॥
ज्यायांसमस्य यतुनस्य केतुन ऋषिस्वरं चरति यासु नाम ते ।
यादृश्मिन्धायि तमपस्यया विदद्य उ स्वयं वहते सो अरं करत् ॥८॥
समुद्रमासामव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्नायता ।
अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर्विद्यते पूतबन्धनी ॥९॥
स हि क्षत्रस्य मनसस्य चित्तिभिरेवावदस्य यजतस्य सध्रेः ।
अवत्सारस्य स्पृणवाम रण्वभिः शविष्ठं वाजं विदुषा चिदर्ध्यम् ॥१०॥
श्येन आसामदितिः कक्ष्यो मदो विश्ववारस्य यजतस्य मायिनः ।
समन्यमन्यमर्थयन्त्येतवे विदुर्विषाणं परिपानमन्ति ते ॥११॥
सदापृणो यजतो वि द्विषो वधीद्बाहुवृक्तः श्रुतवित्तर्यो वः सचा ।
उभा स वरा प्रत्येति भाति च यदीं गणं भजते सुप्रयावभिः ॥१२॥
सुतम्भरो यजमानस्य सत्पतिर्विश्वासामूधः स धियामुदञ्चनः ।
भरद्धेनू रसवच्छिश्रिये पयोऽनुब्रुवाणो अध्येति न स्वपन् ॥१३॥
यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति ।
यो जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥१४॥
अग्निर्जागार तमृचः कामयन्तेऽग्निर्जागार तमु सामानि यन्ति ।
अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥१५॥

सायणभाष्यम्

‘तं प्रत्नथा' इति पञ्चदशर्चं द्वादशं सूक्तम् । अवत्सारो नाम ऋषिः स च कश्यपगोत्रः। यासु ऋक्षु सदाप्रणबाहुवृक्तादयः श्रुतास्तासु तेऽपि समुच्चीयन्ते । चतुर्दशीपञ्चदश्यौ त्रिष्टुभौ शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । विश्वे देवा देवता । अनुक्रान्तं च ----’तं प्रत्नथा पञ्चोना काश्यपोऽवत्सारोऽन्ये च ऋषयोऽत्र दृष्टलिङ्गा द्वित्रिष्टुबन्तम्' इति ॥ वाजपेये अतिरिक्तोक्थे आदितस्त्रयोदशर्चः शंसनीयाः । सूत्रितं च---’तं प्रत्नथेति त्रयोदशानामेको शिष्ट्वाहूय दूरोहणं रोहेत्' (आश्व. श्रौ. ९. ९) इति ॥


तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षदं॑ स्व॒र्विद॑म् ।

प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे गि॒राशुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से ॥१

तम् । प्र॒त्नऽथा॑ । पू॒र्वऽथा॑ । वि॒श्वऽथा॑ । इ॒मऽथा॑ । ज्ये॒ष्ठऽता॑तिम् । ब॒र्हि॒ऽसद॑म् । स्वः॒ऽविद॑म् ।

प्र॒ती॒ची॒नम् । वृ॒जन॑म् । दो॒ह॒से॒ । गि॒रा । आ॒शुम् । जय॑न्तम् । अनु॑ । यासु॑ । वर्ध॑से ॥१

तम् । प्रत्नऽथा । पूर्वऽथा । विश्वऽथा । इमऽथा । ज्येष्ठऽतातिम् । बर्हिऽसदम् । स्वःऽविदम् ।

प्रतीचीनम् । वृजनम् । दोहसे । गिरा। आशुम् । जयन्तम् । अनु । यासु । वर्धसे ॥ १ ॥

इयमुत्तरा च द्वे ऐन्द्र्यावित्याहुः । तत्रोपपत्तिमेवमाहुः । तं प्रत्नथा इत्येषा शुक्रामन्थिग्रहणे विनियुक्ता । ऐन्द्रौ च शुक्रामन्थिनौ ।' यदैन्द्रं शंसति तेन शुक्रामन्थिना उक्थवन्तौ' ( ऐ. ब्रा. ३. १ ) इति हि ब्राह्मणम् । अध्वर्युसंप्रैषोऽपि भवति । ‘प्रातःप्रातः सवस्य शुक्रवतो मधुश्चुत इन्द्राय सोमान्प्रस्थितान्प्रेष्य' (श. ब्रा. ४.२.१.२३) इति । प्रशास्तृप्रैषश्च भवति ‘होता यक्षदिन्दं प्रातः प्रातःसावस्य' ( आश्व. श्रौ. ५. ५) इत्यादि । ‘प्रस्थिता इन्द्राय सोमाः' इति याज्या चैन्द्री 'इदं ते सोम्यं मधु' ( आश्व. श्रौ. ५. ५ ) इति । तस्मादैन्द्र्यौ ॥ “तम् इन्द्रं “प्रत्नथा पुरातना यजमाना इव “पूर्वथा अस्मदीयाः पूर्वे यथा “विश्वथा विश्वे सर्वे प्राणिनो यथा “इमथा इमे इदानीं वर्तमानाः यजमानाः । ते यथेन्द्रस्य स्तुत्या फलमलभन्त तद्वद्वयमपि हे अन्तरात्मन् त्वमपि “ज्येष्ठतातिं ज्येष्ठं “बर्हिषदं बर्हिषि सीदन्तं “स्वर्विदं सर्वज्ञं सर्वस्य लम्भयितारं वा “प्रतीचीनं प्रत्यस्मदभिमुखमञ्चन्तं “वृजनम् । बलनामैतद्बलवति वर्तते । बलवन्तम् “आशुं शीघ्रगामिनं व्याप्तं वा “जयन्तं सर्वमभिभवन्तमिन्द्रं “गिरा स्तुत्या साधनेन “दोहसे धुक्ष्व सर्वदा सर्वान् कामान् । इत्यन्तरात्मनः' प्रैषः' । “यासु स्तुतिषु “वर्धसे प्रवृद्धो भवसि वर्धयसि वेन्द्रं यया स्तुत्येति । यास्विति व्यत्ययेन बहुवचनम् ॥


श्रि॒ये सु॒दृशी॒रुप॑रस्य॒ याः स्व॑र्वि॒रोच॑मानः क॒कुभा॑मचो॒दते॑ ।

सु॒गो॒पा अ॑सि॒ न दभा॑य सुक्रतो प॒रो मा॒याभि॑रृ॒त आ॑स॒ नाम॑ ते ॥२

श्रि॒ये । सु॒ऽदृशीः॑ । उप॑रस्य । याः । स्वः॑ । वि॒ऽरोच॑मानः । क॒कुभा॑म् । अ॒चो॒दते॑ ।

सु॒ऽगो॒पाः । अ॒सि॒ । न । दभा॑य । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । प॒रः । मा॒याभिः॑ । ऋ॒ते । आ॒स॒ । नाम॑ । ते॒ ॥२

श्रिये । सुऽदृशीः । उपरस्य । याः । स्वः । विऽरोचमानः । ककुभाम् । अचोदते ।

सुऽगोपाः । असि । न । दभाय । सुक्रतो इति सुऽक्रतो । परः । मायाभिः । ऋते । आस । नाम । ते ॥२

हे इन्द्र “स्वः स्वर्गे “विरोचमानः त्वम् “अचोदते अप्रेरयितुः ॥ षष्ठ्यर्थे चतुर्थी ॥ “उपरस्य मेघस्य संबन्धिन्यः “सुदृशीः सुरोचमानाः “याः आपः सन्ति तासामपां “ककुभां सर्वासां दिशां मध्ये “श्रिये प्राणिनां श्रयणाय प्रेरको भवेति शेषः । हे 'सुक्रतो शोभनवृष्टिप्रदानादिकर्मन्निन्द्र त्वं “सुगोपाः प्राणिनां सुष्ठु गोपायितासि । अतः “न “दभाय न दम्भनाय वधाय प्राणिनां न “असि न प्रभवसि । त्वं च “मायाभिः आसुरीभिः “परः मायाभ्यः परस्ताद्वर्तमानः । यस्मात् “ते त्वदीयं “नाम नामकं रूपम् “ऋते सत्यलोके “आस आस्ते ॥


अत्यं॑ ह॒विः स॑चते॒ सच्च॒ धातु॒ चारि॑ष्टगातु॒ः स होता॑ सहो॒भरिः॑ ।

प्र॒सर्स्रा॑णो॒ अनु॑ ब॒र्हिर्वृषा॒ शिशु॒र्मध्ये॒ युवा॒जरो॑ वि॒स्रुहा॑ हि॒तः ॥३

अत्य॑म् । ह॒विः । स॒च॒ते॒ । सत् । च॒ । धातु॑ । च॒ । अरि॑ष्टऽगातुः । सः । होता॑ । स॒हः॒ऽभरिः॑ ।

प्र॒ऽसर्स्रा॑णः । अनु॑ । ब॒र्हिः । वृषा॑ । शिशुः॑ । मध्ये॑ । युवा॑ । अ॒जरः॑ । वि॒ऽस्रुहा॑ । हि॒तः ॥३

अत्यम् । हविः । सचते । सत् । च । धातु । च । अरिष्टऽगातुः । सः । होता । सहःऽभरिः ।

प्रऽसर्स्राणः । अनु । बर्हिः । वृषा । शिशुः । मध्ये । युवा । अजरः । विऽस्रुहा । हितः ॥३

इयमाग्नेयी होतृत्वयुवत्वादिलिङ्गैः । अयमग्निः "अत्यं सततमतनार्हं “हविः आज्यादिकं “सचते सेवते । कीदृशं हविः । “सत् । सत्फलसाधनत्वाद्धविरपि सत् । “धातु “च धारकं सर्वस्व । हूयमानस्य हविष आदित्यद्वारा वृष्टिसाधनत्वात् तया च वृष्ट्या प्रजोत्पत्तेर्धारकत्वम् । तथा हि --'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः' (मनु. ३. ७६) इति । “अरिष्टगातुः अहिंसितगमनः । सति तस्य गमने यज्ञनिष्पत्त्या फलसिद्धेररिष्टगमनत्वम् । तदेवाह। “सः स खलु "होता होमनिष्पादकः “सहोभरिः बलस्य भर्ता “बर्हिः “अनु 'प्रसर्स्राणः प्रकर्षेण सरन् “वृषा वर्षकः फलस्य “शिशुः स इव रक्षणीयोऽप्रौढो वा “युवा सर्वत्र मिश्रयिता “अजरः जरारहितः “विस्रुहा विस्रुहाणामोषधीनां “मध्ये “हितः निहितः स्थापितः एवंभूतः सचते॥


प्र व॑ ए॒ते सु॒युजो॒ याम॑न्नि॒ष्टये॒ नीची॑र॒मुष्मै॑ य॒म्य॑ ऋता॒वृधः॑ ।

सु॒यन्तु॑भिः सर्वशा॒सैर॒भीशु॑भि॒ः क्रिवि॒र्नामा॑नि प्रव॒णे मु॑षायति ॥४

प्र । वः॒ । ए॒ते । सु॒ऽयुजः॑ । याम॑न् । इ॒ष्टये॑ । नीचीः॑ । अ॒मुष्मै॑ । य॒म्यः॑ । ऋ॒त॒ऽवृधः॑ ।

सु॒यन्तु॑ऽभिः । स॒र्व॒ऽशा॒सैः । अ॒भीशु॑ऽभिः । क्रिविः॑ । नामा॑नि । प्र॒व॒णे । मु॒षा॒य॒ति॒ ॥४

प्र । वः । एते । सुऽयुजः । यामन् । इष्टये । नीचीः । अमुष्मै । यम्यः । ऋतऽवृधः ।

सुयन्तुऽभिः । सर्वऽशासैः । अभीशुऽभिः । क्रिविः । नामानि । प्रवणे । मुषायति ॥४

एषा सौरी वा । “एते रश्मयः "सुयुजः सुष्ठु परस्परं संयुक्ताः “यामन् यज्ञगमने “इष्टये एषणाय “नीचीः । नीचं गच्छन्तीति शेषः । 'अमुष्मै यजमानाय “यम्यः यम्या गमनार्हाः । अथवा यमो नियमितादित्यः । तस्य संबन्धिनः । “ऋतावृधः यज्ञस्य वर्धयितारश्च । अयमादित्यः "सुयन्तुभिः सुगमनैः “सर्वशासैः सर्वस्य शासकैः “अभीशुभिः रश्मिभिः “क्रिविः कर्ता “नामानि नामकान्युदकानि “प्रवणे निम्ने भूप्रदेशे “मुषायति मुष्णाति आदत्ते इत्यर्थः । अथवाग्निनावाह्यस्याग्नेरेतेऽश्वा इष्टये यज्ञगमनाय यामनि रथे सुयुजः प्रगच्छन्ति । शिष्टं समानम् । क्रिविः क्रिविसदृशोऽग्निः प्रवणे नामानि हवींष्युक्तलक्षणाभिर्ज्वालाभिर्मुषायति आदत्ते ॥


सं॒जर्भु॑राण॒स्तरु॑भिः सुते॒गृभं॑ वया॒किनं॑ चि॒त्तग॑र्भासु सु॒स्वरुः॑ ।

धा॒र॒वा॒केष्वृ॑जुगाथ शोभसे॒ वर्ध॑स्व॒ पत्नी॑र॒भि जी॒वो अ॑ध्व॒रे ॥५

स॒म्ऽजर्भु॑राणः । तरु॑ऽभिः । सु॒ते॒ऽगृभ॑म् । व॒या॒किन॑म् । चि॒त्तऽग॑र्भासु । सु॒ऽस्वरुः॑ ।

धा॒र॒ऽवा॒केषु॑ । ऋ॒जु॒ऽगा॒थ॒ । शो॒भ॒से॒ । वर्ध॑स्व । पत्नीः॑ । अ॒भि । जी॒वः । अ॒ध्व॒रे ॥५

सम्ऽजर्भुराणः । तरुऽभिः । सुतेऽगृभम् । वयाकिनम् । चित्तऽगर्भासु । सुऽस्वरुः ।

धारऽवाकेषु । ऋजुऽगाथ । शोभसे । वर्धस्व । पत्नीः । अभि । जीवः । अध्वरे ॥५

हे “ऋजुगाथ शोभनस्तुतिक अग्ने “तरुभिः तरुविकारैर्ग्रहै: "सुतेगृभम् अभिषुतेन रसेन गृहीतं "वयाकिनम् । कुत्सिता वयाः: शाखा वयाका लताः । तद्वन्तं सोमं “चित्तगर्भासु चित्तग्राहिणीषु स्तुतिषु स्तुतिभिः सह “संजर्भुराणः गृभ्णन् गृह्णन् “सुस्वरुः शोभनगमनः शोभनस्तुतिको वा त्वं “धारवाकेषु । धारयन्ति वाकान् स्तोत्राणीति धारवाका ऋत्विग्यजमानाः। तेषु मध्ये “शोभसे । किंच “अध्वरे “जीवः सर्वस्य जीवयिता “पत्नीः पालयित्रीरोषधीर्ज्वाला वा “अभि अभिमुखं “वर्धस्व अभिवर्धय ॥ ॥२३॥


या॒दृगे॒व ददृ॑शे ता॒दृगु॑च्यते॒ सं छा॒यया॑ दधिरे सि॒ध्रया॒प्स्वा ।

म॒हीम॒स्मभ्य॑मुरु॒षामु॒रु ज्रयो॑ बृ॒हत्सु॒वीर॒मन॑पच्युतं॒ सहः॑ ॥६

या॒दृक् । ए॒व । ददृ॑शे । ता॒दृक् । उ॒च्य॒ते॒ । सम् । छा॒यया॑ । द॒धि॒रे॒ । सि॒ध्रया॑ । अ॒प्ऽसु । आ ।

म॒हीम् । अ॒स्मभ्य॑म् । उ॒रु॒ऽसाम् । उ॒रु । ज्रयः॑ । बृ॒हत् । सु॒ऽवीर॑म् । अन॑पऽच्युतम् । सहः॑ ॥६

यादृक् । एव । ददृशे । तादृक् । उच्यते । सम् । छायया । दधिरे । सिध्रया । अप्ऽसु । आ ।

महीम् । अस्मभ्यम् । उरुऽसाम् । उरु । ज्रयः । बृहत् । सुऽवीरम् । अनपऽच्युतम् । सहः ॥६

एषा वैश्वदेवी। “यादृगेव “ददृशे यादृग्रूपमेव दृश्यते “तादृगुच्यते तादृग्रूपमेवोच्यते । यथादृष्टमेव स्तूयते न तु परवचनप्रत्ययेन । यस्मात् “छायया दीप्त्या “सिध्रया साधिकया सह “अप्सु व्यापिकासु स्तुतिषु अप्स्वेव वा “आ “सं “दधिरे सम्यग्धारयन्ति स्वीयं रूपं स्तुतिं वा । ते देवाः “महीं महतीं पूज्याम् “उरुषां बहुदात्रीं रयिम् “उरु प्रभूतं “ज्रयः वेगं “बृहत् महत् “सुवीरं शोभनवीर्यमपत्यम् "अनपच्युतम् अनुपक्षीणं “सहः बलं चाभिभावुकम् “अस्मभ्यं प्रयच्छन्त्वित्यर्थः ॥


वेत्यग्रु॒र्जनि॑वा॒न्वा अति॒ स्पृधः॑ समर्य॒ता मन॑सा॒ सूर्यः॑ क॒विः ।

घ्रं॒सं रक्ष॑न्तं॒ परि॑ वि॒श्वतो॒ गय॑म॒स्माकं॒ शर्म॑ वनव॒त्स्वाव॑सुः ॥७

वेति॑ । अग्रुः॑ । जनि॑ऽवान् । वै । अति॑ । स्पृधः॑ । स॒ऽम॒र्य॒ता । मन॑सा । सूर्यः॑ । क॒विः ।

घ्रं॒सम् । रक्ष॑न्तम् । परि॑ । वि॒श्वतः॑ । गय॑म् । अ॒स्माक॑म् । शर्म॑ । व॒न॒व॒त् । स्वऽव॑सुः ॥७

वेति । अग्रुः । जनिऽवान् । वै । अति । स्पृधः । सऽमर्यता । मनसा । सूर्यः । कविः ।

घ्रंसम् । रक्षन्तम् । परि । विश्वतः । गयम् । अस्माकम् । शर्म । वनवत् । स्वऽवसुः ॥७

इयं सौरी। “सूर्यः देवः “अग्रुः अग्रगामी “जनिवान्वै जन्मवान् जायावान्वा । उषा ह्यस्य जाया । वा इति प्रसिद्धौ। “कविः क्रान्तदर्शी “समर्यता समरमिच्छता “मनसा “स्पृधः संग्रामान् “अति “वेति अतिगच्छति मन्देहानसुरान् योद्धुम् । “घ्रंसं दीप्तं “गयं गृहमन्तरिक्षं वा “विश्वतः सर्वतः “रक्षन्तं परिचरेमेति शेषः । स देवः “अस्माकं “शर्म सुखं “परि सम्यक् “वनवत् दद्यात् । "स्वावसुः स्वायत्तधनः सन् ॥


ज्यायां॑सम॒स्य य॒तुन॑स्य के॒तुन॑ ऋषिस्व॒रं च॑रति॒ यासु॒ नाम॑ ते ।

या॒दृश्मि॒न्धायि॒ तम॑प॒स्यया॑ विद॒द्य उ॑ स्व॒यं वह॑ते॒ सो अरं॑ करत् ॥८

ज्यायां॑सम् । अ॒स्य । य॒तुन॑स्य । के॒तुना॑ । ऋ॒षि॒ऽस्व॒रम् । च॒र॒ति॒ । यासु॑ । नाम॑ । ते॒ ।

या॒दृश्मि॑न् । धायि॑ । तम् । अ॒प॒स्यया॑ । वि॒द॒त् । यः । ऊं॒ इति॑ । स्व॒यम् । वह॑ते । सः । अर॑म् । क॒र॒त् ॥८

ज्यायांसम् । अस्य । यतुनस्य । केतुना । ऋषिऽस्वरम् । चरति । यासु । नाम । ते ।

यादृश्मिन् । धायि । तम् । अपस्यया । विदत् । यः । ऊं इति । स्वयम् । वहते । सः । अरम् । करत् ॥८

इयमाग्नेयी सौरी वा । हे देव ज्यायांसम् अतिशयेन प्रवृद्धम् “अस्य “यतुनस्य । यततिर्गतिकर्मा। गन्तुरस्य सूर्यस्य ॥ कर्मणि षष्ठ्यौ ॥ अमुं गन्तारं “केतुना प्रज्ञापकेन कर्मणा उदयादिलक्षणेन विशिष्टम् “ऋषिस्वरम् ऋषिभिः स्तुत्यं त्वां “चरति गच्छति । भजते यजमानः । केन साधनेन । “यासु स्तुतिषु “ते त्वदीयं “नाम नमनं नामकं वा रूपं वर्तते ताभिरित्यर्थः । यद्वा । अस्य यतुनस्य गमनशीलस्य तव केतुना तमोनिर्हरणादिकर्मणा विशिष्टं त्वां चरति । “यादृश्मिन् यादृशे कामे “धायि धत्ते ॥ कर्तरि चिण् ॥ सामर्थ्यान्मनो गम्यते । “तम् । यथानिर्देशं प्रतिनिर्देष्टव्यत्वात्तादृशमित्यर्थो ज्ञातव्यः । तादृशं कामम् “अपस्यया कर्मणा हविःस्तुत्यादिलक्षणेन “विदत् विन्दते । “य “उ य एव स्वयम् अनन्यप्रेरितः सन् स्वमनीषयैव “वहते धारयति फलं "सः “अरम् अलमत्यर्थं “करत् करोति । अथवा य उ य एव स्वयं वहते स्वयमेवानुतिष्ठति सोऽत्यर्थं कुर्यात् । न ह्यन्येन कारितं फलवद्भवति ॥


स॒मु॒द्रमा॑सा॒मव॑ तस्थे अग्रि॒मा न रि॑ष्यति॒ सव॑नं॒ यस्मि॒न्नाय॑ता ।

अत्रा॒ न हार्दि॑ क्रव॒णस्य॑ रेजते॒ यत्रा॑ म॒तिर्वि॒द्यते॑ पूत॒बन्ध॑नी ॥९

स॒मु॒द्रम् । आ॒सा॒म् । अव॑ । त॒स्थे॒ । अ॒ग्रि॒मा । न । रि॒ष्य॒ति॒ । सव॑नम् । यस्मि॑न् । आऽय॑ता ।

अत्र॑ । न । हार्दि॑ । क्र॒व॒णस्य॑ । रे॒ज॒ते॒ । यत्र॑ । म॒तिः । वि॒द्यते॑ । पू॒त॒ऽबन्ध॑नी ॥९

समुद्रम् । आसाम् । अव । तस्थे । अग्रिमा । न । रिष्यति । सवनम् । यस्मिन् । आऽयता ।

अत्र । न । हार्दि । क्रवणस्य । रेजते । यत्र । मतिः । विद्यते । पूतऽबन्धनी ॥९

इयमपि सौरी । "आसां स्तुतीनां “समुद्रं समुद्रवत्पर्यवसानभूतं सूर्यम् “अग्रिमा अत्यन्तं श्रेष्ठा अस्मदीया स्तुतिः “अव “तस्थे अवगच्छति । यद्वा आसां प्रजानामृत्विजां स्तुतिरिति संबन्धः । “सवनम्। सूयते सोमोऽत्रेति सवनं यज्ञगृहम् । “न “रिष्यति न हिंस्यते । किंतु प्रवर्धते इत्यर्थः । “यस्मिनायता विस्तीर्णानि स्तोत्राणि तत्सवनमिति । “अत्र अस्मिन् यजमानगृहे “क्रवणस्य स्तुतिकर्तुः “हार्दि हृदयसंबन्धि हृदयगतं काम्यं फलं “न “रेजते न विचलति । न मृषा भवति । “यत्र यस्मिन् स्तोतृगृहे “मतिः स्तुतिः “पूतबन्धनी पूतं सूर्यम् अनुबध्नती “विद्यते अत्र न रेजत इति ॥


स हि क्ष॒त्रस्य॑ मन॒सस्य॒ चित्ति॑भिरेवाव॒दस्य॑ यज॒तस्य॒ सध्रेः॑ ।

अ॒व॒त्सा॒रस्य॑ स्पृणवाम॒ रण्व॑भि॒ः शवि॑ष्ठं॒ वाजं॑ वि॒दुषा॑ चि॒दर्ध्य॑म् ॥१०

सः । हि । क्ष॒त्रस्य॑ । म॒न॒सस्य॑ । चित्ति॑ऽभिः । ए॒व॒ऽव॒दस्य॑ । य॒ज॒तस्य॑ । सध्रेः॑ ।

अ॒व॒ऽत्सा॒रस्य॑ । स्पृ॒ण॒वा॒म॒ । रण्व॑ऽभिः । शवि॑ष्ठम् । वाज॑म् । वि॒दुषा॑ । चि॒त् । अर्ध्य॑म् ॥१०

सः । हि । क्षत्रस्य । मनसस्य । चित्तिऽभिः । एवऽवदस्य । यजतस्य । सध्रेः ।

अवऽत्सारस्य । स्पृणवाम । रण्वऽभिः । शविष्ठम् । वाजम् । विदुषा । चित् । अर्ध्यम् ॥१०

इयमपि सौरी। “स “हि स खलु सविता देवः सर्वैः स्तुत्यः। सर्वकामपूरक इत्यर्थः । हिशब्दो लोकवेदयोः प्रसिद्धिद्योतकः । तस्मात् सकाशात् । अत्र 'अन्ये च ऋषयोऽत्र दृष्टलिङ्गाः' इत्युक्तत्वात् क्षत्रादय ऋषयः। “क्षत्रस्य “मनसस्य “एवावदस्य “यजतस्य “सध्रेः “अवत्सारस्य चैषामृषीणामस्माकं “रण्वभिः रमणीयाभिः “चित्तिभिः स्पृणवाम पूरयाम । किम् । “शविष्ठं “वाजम् अतिशयेन बलवदन्नम् । 'अन्नं वै वाजः' (तै. ब्रा १. ३. ६. ६) इति श्रुतेः । “विदुषा “चित् विपश्चिता “अर्घ्यं समर्धनीयं स्पृणवाम । क्षत्रादयो वयमिति संबन्धः ॥२४॥


श्ये॒न आ॑सा॒मदि॑तिः क॒क्ष्यो॒३॒॑ मदो॑ वि॒श्ववा॑रस्य यज॒तस्य॑ मा॒यिनः॑ ।

सम॒न्यम॑न्यमर्थय॒न्त्येत॑वे वि॒दुर्वि॒षाणं॑ परि॒पान॒मन्ति॒ ते ॥११

श्ये॒नः । आ॒सा॒म् । अदि॑तिः । क॒क्ष्यः॑ । मदः॑ । वि॒श्वऽवा॑रस्य । य॒ज॒तस्य॑ । मा॒यिनः॑ ।

सम् । अ॒न्यम्ऽअ॑न्यम् । अ॒र्थ॒य॒न्ति॒ । एत॑वे । वि॒दुः । वि॒ऽसान॑म् । प॒रि॒ऽपान॑म् । अन्ति॑ । ते ॥११

श्येनः । आसाम् । अदितिः । कक्ष्यः । मदः । विश्वऽवारस्य । यजतस्य । मायिनः ।

सम् । अन्यम्ऽअन्यम् । अर्थयन्ति । एतवे । विदुः । विऽसानम् । परिऽपानम् । अन्ति । ते ॥११

मददेवत्येयम् । विश्ववारादीनां त्रयाणामृषीणां स्वभूतः “आसाम् अपां सोमरसलक्षणानां “मदः “श्येनः शंसनीयगमनः शीघ्रं पातृसकाशं गन्ता “अदितिः अदीनोऽतिसमृद्धः “कक्ष्यः कक्ष्यपूरकश्च भवतीति शेषः । ते विश्ववारादयः सत्रे प्रवृत्ताः “एतवे सोमं प्राप्तुं तत्पानाय "अन्यमन्यं परस्परं "सम् “अर्थयन्ति याचन्तेऽनुज्ञाम् । “ते “विषाणं विशेषेण मदस्य दातारं “परिपानम् "अन्ति अन्तिके “विदुः जानन्ति लभन्ते वा ॥


स॒दा॒पृ॒णो य॑ज॒तो वि द्विषो॑ वधीद्बाहुवृ॒क्तः श्रु॑त॒वित्तर्यो॑ व॒ः सचा॑ ।

उ॒भा स वरा॒ प्रत्ये॑ति॒ भाति॑ च॒ यदीं॑ ग॒णं भज॑ते सुप्र॒याव॑भिः ॥१२

स॒दा॒ऽपृ॒णः । य॒ज॒तः । वि । द्विषः॑ । व॒धी॒त् । बा॒हु॒ऽवृ॒क्तः । श्रु॒त॒ऽवित् । तर्यः॑ । वः॒ । सचा॑ ।

उ॒भा । सः । वरा॑ । प्रति॑ । ए॒ति॒ । भाति॑ । च॒ । यत् । ई॒म् । ग॒णम् । भज॑ते । सु॒प्र॒याव॑ऽभिः ॥१२

सदाऽपृणः । यजतः । वि । द्विषः । वधीत् । बाहुऽवृक्तः । श्रुतऽवित् । तर्यः । वः । सचा ।

उभा । सः । वरा । प्रति । एति । भाति । च । यत् । ईम् । गणम् । भजते । सुप्रयावऽभिः ॥१२

“सदापृणः सर्वदा दानशील एतन्नामा “यजतः यष्टा च “बाहुवृक्तः बाहुभ्यां वृक्तदर्भश्च “श्रुतवित् श्रुतस्य वेत्ता च “तर्यः च । एतेषां पञ्चानां परस्परापेक्षया प्रत्येकमेकवचनम् । सः सः ऋषिः “द्विषः शत्रून् “वि “वधीत् हिंस्यात् “वः युष्माकं "सचा सहितः । युष्माभिः सहित इत्यर्थः । “सः ऋषिः “वरा श्रेष्ठौ “उभा उभौ इहलोकपरलोकविषयौ कामौ “प्रत्येति अभिगच्छति । “भाति “च । “यत् यस्मात् “ईम् एनं “गणं देवसंघं "सुप्रयावभिः सुष्ठु प्रकर्षेण मिश्रयद्भिः स्तोत्रैः "भजते तस्मादेवं भवतीति ॥


सु॒त॒म्भ॒रो यज॑मानस्य॒ सत्प॑ति॒र्विश्वा॑सा॒मूध॒ः स धि॒यामु॒दञ्च॑नः ।

भर॑द्धे॒नू रस॑वच्छिश्रिये॒ पयो॑ऽनुब्रुवा॒णो अध्ये॑ति॒ न स्व॒पन् ॥१३

सु॒त॒म्ऽभ॒रः । यज॑मानस्य । सत्ऽप॑तिः । विश्वा॑साम् । ऊधः॑ । सः । धि॒याम् । उ॒त्ऽअञ्च॑नः ।

भर॑त् । धे॒नुः । रस॑ऽवत् । शि॒श्रि॒ये॒ । पयः॑ । अ॒नु॒ऽब्रु॒वा॒णः । अधि॑ । ए॒ति॒ । न । स्व॒पन् ॥१३

सुतम्ऽभरः । यजमानस्य । सत्ऽपतिः । विश्वासाम् । ऊधः । सः । धियाम् । उत्ऽअञ्चनः ।

भरत् । धेनुः । रसऽवत् । शिश्रिये । पयः । अनुऽब्रुवाणः । अधि । एति । न । स्वपन् ॥१३

“यजमानस्य अवत्सारस्य मम "सुतंभरः यागनिर्वाहक एतन्नामा ऋषिः “सत्पतिः सतां विद्यमानानां फलानां पालयिता होता भवतीत्यर्थः । “सः च “विश्वासां “धियां सर्वेषां कर्मणाम् “ऊधः उद्धततरं फलम् “उदञ्चनः ऊर्ध्वमुद्गमयिता फलप्रापक इत्यर्थः । “धेनुः गौः “रसवत् सारवत् “पयः “भरत् अहरत् । तत्र पयः “शिश्रिये श्रयति चास्य सामर्थ्यात् । तत्सर्वम् “अनुब्रुवाण: अनुक्रमेण संकीर्तयन् “न "स्वपन् स्वापमकुर्वन् अनवरतम् “अध्येति स्मरत्यवत्सारः। सुतंभरस्तादृश इति ॥


यो जा॒गार॒ तमृचः॑ कामयन्ते॒ यो जा॒गार॒ तमु॒ सामा॑नि यन्ति ।

यो जा॒गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥१४

यः । जा॒गार॑ । तम् । ऋचः॑ । का॒म॒य॒न्ते॒ । यः । जा॒गार॑ । तम् । ऊं॒ इति॑ । सामा॑नि । य॒न्ति॒ ।

यः । जा॒गार॑ । तम् । अ॒यम् । सोमः॑ । आ॒ह॒ । तव॑ । अ॒हम् । अ॒स्मि॒ । स॒ख्ये । निऽओ॑काः ॥१४

यः । जागार । तम् । ऋचः । कामयन्ते । यः । जागार । तम् । ऊं इति । सामानि । यन्ति ।

यः । जागार । तम् । अयम् । सोमः । आह । तव । अहम् । अस्मि । सख्ये । निऽओकाः ॥१४

“यः देवः “जागार सर्वदा विनिद्रो जागरूको गृहे वर्तते “तम् "ऋचः सर्वशास्त्रात्मिकाः “कामयन्ते । “यः च “जागार “तमु तमेव “सामानि स्तोत्ररूपाणि “यन्ति प्राप्नुवन्ति । “यो “जागार “तमयम् अभिषुतः “सोमः “आह वक्ति मां स्वीकुर्विति । हे अग्ने तादृशस्य “तव “सख्ये समानख्याने हितकरणे “न्योकाः नियतस्थानः “अहम् “अस्मि भवामि ॥


अ॒ग्निर्जा॑गार॒ तमृचः॑ कामयन्ते॒ऽग्निर्जा॑गार॒ तमु॒ सामा॑नि यन्ति ।

अ॒ग्निर्जा॑गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥१५

अ॒ग्निः । जा॒गा॒र॒ । तम् । ऋचः॑ । का॒म॒य॒न्ते॒ । अ॒ग्निः । जा॒गा॒र॒ । तम् । ऊं॒ इति॑ । सामा॑नि । य॒न्ति॒ ।

अ॒ग्निः । जा॒गा॒र॒ । तम् । अ॒यम् । सोमः॑ । आ॒ह॒ । तव॑ । अ॒हम् । अ॒स्मि॒ । स॒ख्ये । निऽओ॑काः ॥१५

अग्निः । जागार । तम् । ऋचः । कामयन्ते । अग्निः । जागार । तम् । ऊं इति । सामानि । यन्ति ।

अग्निः । जागार । तम् । अयम् । सोमः । आह । तव । अहम् । अस्मि । सख्ये । निऽओकाः ॥१५

पूर्वयैव निगदितव्याख्या । य इत्यस्य स्थानेऽग्निरिति विशेषः ॥ ॥२५॥ ॥३॥

टिप्पणी

काश्यपः अवत्सारः - डा. फतहसिंहः कथयति स्म यत् समाध्युन्मुखावस्थायाः संज्ञा पश्यकः अस्ति, समाधितः व्युत्थानस्य कश्यपः। पुराणेषु कालस्य वत्सरादिविभागानां कथनमस्ति। द्र. वत्सर उपरि संदर्भाः

बृहज्जाबालोपनिषत् ३.३ अनुसारेण प्रकृतिरूपा धेनुः अस्ति यस्यां गुणत्रयाः निहिताः सन्ति। स्मृतयः अस्याः वत्सः अस्ति। एका श्रुतिः अस्ति, मर्त्यस्तरे स्मृतिः। या स्मृतिः अस्ति, तदपि गुणत्रयेभ्यः ग्रस्ता अस्ति। - वत्सोपरि टिप्पणी

वा.सं. ७.१२ तै.सं. १.४.९.१ मै.सं. १.३.११ काठ.सं. ४.३ कौ.ब्रा. २४.९ श.ब्रा. ४.२.१.९ नि. ३.१६ वा.सं. ३३.२१, ३३, ४७, आश्व.श्रौ ९.९.१३, ९.१०.२ शां.श्रौ. १०.१३.२२, ११.१२.१३, १५.३.१० कात्या.श्रौ. ९.६.११ आप.श्रौ. १२.१४.१५ मानव श्रौ. २.३.५.८ बृ.दे. ५.४४




मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.४४&oldid=400610" इत्यस्माद् प्रतिप्राप्तम्