ऋग्वेदः सूक्तं ९.७७
← सूक्तं ९.७६ | ऋग्वेदः - मण्डल ९ सूक्तं ९.७७ कविर्भार्गवः |
सूक्तं ९.७८ → |
दे. पवमानः सोमः। जगती। |
एष प्र कोशे मधुमाँ अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टरः ।
अभीमृतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसेव धेनवः ॥१॥
स पूर्व्यः पवते यं दिवस्परि श्येनो मथायदिषितस्तिरो रजः ।
स मध्व आ युवते वेविजान इत्कृशानोरस्तुर्मनसाह बिभ्युषा ॥२॥
ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते ।
ईक्षेण्यासो अह्यो न चारवो ब्रह्मब्रह्म ये जुजुषुर्हविर्हविः ॥३॥
अयं नो विद्वान्वनवद्वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः ।
इनस्य यः सदने गर्भमादधे गवामुरुब्जमभ्यर्षति व्रजम् ॥४॥
चक्रिर्दिवः पवते कृत्व्यो रसो महाँ अदब्धो वरुणो हुरुग्यते ।
असावि मित्रो वृजनेषु यज्ञियोऽत्यो न यूथे वृषयुः कनिक्रदत् ॥५॥
सायणभाष्यम्
‘एष प्र कोशे' इति पञ्चर्च दशमं सूक्तम् । ऋष्यांद्याः पूर्ववत् । ‘एषः' इत्यनुक्रान्तम् । गतो विनियोगः ॥
ए॒ष प्र कोशे॒ मधु॑माँ अचिक्रद॒दिंद्र॑स्य॒ वज्रो॒ वपु॑षो॒ वपु॑ष्टरः ।
अ॒भीमृ॒तस्य॑ सु॒दुघा॑ घृत॒श्चुतो॑ वा॒श्रा अ॑र्षंति॒ पय॑सेव धे॒नवः॑ ॥१
ए॒षः । प्र । कोशे॑ । मधु॑ऽमान् । अ॒चि॒क्र॒द॒त् । इन्द्र॑स्य । वज्रः॑ । वपु॑षः । वपुः॑ऽतरः ।
अ॒भि । ई॒म् । ऋ॒तस्य॑ । सु॒ऽदुघाः॑ । घृ॒त॒ऽश्चुतः॑ । वा॒श्राः । अ॒र्ष॒न्ति॒ । पय॑साऽइव । धे॒नवः॑ ॥१
एषः । प्र । कोशे । मधुऽमान् । अचिक्रदत् । इन्द्रस्य । वज्रः । वपुषः । वपुःऽतरः ।
अभि । ईम् । ऋतस्य । सुऽदुघाः । घृतऽश्चुतः । वाश्राः । अर्षन्ति । पयसाऽइव । धेनवः ॥१
“एषः अयं सोमः मधुमान् मधुररसः कोशे द्रोणकलशे “ “अचिक्रदत् प्रकर्षेण शब्दायते । कीदृश एषः । इन्द्रस्य “वज्रः वज्रस्थानीयः । बलकरत्वेन वज्रवत् प्रहरणसधनत्वात् वज्रत्वोपचारः । एष एव हि सोमो वज्र इन्द्रस्य साधने । तथा “वपुषः बीजानां वप्तुः अन्यस्मात् वपुष्टरः अतिशयेन वप्ता । बीजवापस्य सोमकर्तृकत्वात् ' सोमो वै रेतोधाः' (तै. सं. २. १. १. ६) इति श्रुतेः । “ईम् अस्य “ऋतस्य सत्यफलस्य सोमस्य । धारा इति शेषः । ताः “अभि “अर्षन्ति अभिगच्छन्ति । कीदृश्यस्ताः । सुदुघाः सुष्टुं दोग्ध्यः फलाना “घृतश्चुतः उदकस्य रसस्य वा क्षारथियः “वाश्राः शब्दयन्त्यः । किमिव । पयसा युक्ता वाश्रः “धेनवः “इव इति ॥
स पू॒र्व्यः प॑वते॒ यं दि॒वस्परि॑ श्ये॒नो म॑था॒यदि॑षि॒तस्ति॒रो रजः॑ ।
स मध्व॒ आ यु॑वते॒ वेवि॑जान॒ इत्कृ॒शानो॒रस्तु॒र्मन॒साह॑ बि॒भ्युषा॑ ॥२
सः । पू॒र्व्यः । प॒व॒ते॒ । यम् । दि॒वः । परि॑ । श्ये॒नः । म॒था॒यत् । इ॒षि॒तः । ति॒रः । रजः॑ ।
सः । मध्वः॑ । आ । यु॒व॒ते॒ । वेवि॑जानः । इत् । कृ॒शानोः॑ । अस्तुः॑ । मन॑सा । अह॑ । बि॒भ्युषा॑ ॥२
सः । पूर्व्यः । पवते । यम् । दिवः । परि । श्येनः । मथायत् । इषितः । तिरः । रजः ।
सः । मध्वः । आ । युवते । वेविजानः । इत् । कृशानोः । अस्तुः । मनसा । अह । बिभ्युषा ॥२
“सः सोमः “पूर्व्यः प्रत्नः “पवते पूयते । अभिषूयत इत्यर्थः । “यं सोमं “दिवः द्युलोकात्, “श्येनः “इषितः स्वमात्रा प्रेषितः सन् “परि “मथायत् पर्यमथ्नात् “तिरः तीर्णं तिरस्कुर्वन् । किम् । “रजः तृतीयं लोकम् । “सः एव सोमः “मध्वः मधुररसं सोमम् “आ "युवते यौति पृथक्करोति द्युलोकात् । स्वयं “वेविजान “इत् चलन् अधो गच्छन् “कृशानोः सोमपालस्य “अस्तुः शरक्षेप्तुः सकाशात् “बिभ्युषा भीतेन “मनसाह । मध्व आ युवत इति संबन्धः । कृशानोः सोमपालत्वं ब्राह्मणे स्पष्टमुक्तं- कृशानुः सोमपालः सव्यस्य पदः' (ऐ. ब्रा. ३. २६ ) ॥
ते नः॒ पूर्वा॑स॒ उप॑रास॒ इंद॑वो म॒हे वाजा॑य धन्वंतु॒ गोम॑ते ।
ई॒क्षे॒ण्या॑सो अ॒ह्यो॒३॒॑ न चार॑वो॒ ब्रह्म॑ब्रह्म॒ ये जु॑जु॒षुर्ह॒विर्ह॑विः ॥३
ते । नः॒ । पूर्वा॑सः । उप॑रासः । इन्द॑वः । म॒हे । वाजा॑य । ध॒न्व॒न्तु॒ । गोऽम॑ते ।
ई॒क्षे॒ण्या॑सः । अ॒ह्यः॑ । न । चार॑वः । ब्रह्म॑ऽब्रह्म । ये । जु॒जु॒षुः । ह॒विःऽह॑विः ॥३
ते । नः । पूर्वासः । उपरासः । इन्दवः । महे । वाजाय । धन्वन्तु । गोऽमते ।
ईक्षेण्यासः । अह्यः । न । चारवः । ब्रह्मऽब्रह्म । ये । जुजुषुः । हविःऽहविः ॥३
“ते वक्ष्यमाणाः पूर्वासः पूर्वे “उपरासः । उपरता अत्रेत्युपराः । तादृशाः “इन्दवः सोमाः “महे महते “गोमते “नः मह्यं “वाजाय अन्नाय अन्नलाभार्थं “धन्वन्तु गच्छन्तु प्राप्नुवन्तु । कीदृशा इन्दवः । “ईक्षेण्यासः ईक्षणीयाः संदर्शनीयाः “अह्यो “न । अह्यः स्त्रिय आहननात् । ता इव सुवेषाः स्त्रिय इव “चारवः रमणीयाः । त इत्युक्तं क इत्याह । “ये इन्दवः “ब्रह्मब्रह्म सर्वमपि स्तावकमन्त्रजातं "हविर्हविः सर्वमपि हविर्जातं च “जुजुषुः सेवन्ते ॥
अ॒यं नो॑ वि॒द्वान्व॑नवद्वनुष्य॒त इंदुः॑ स॒त्राचा॒ मन॑सा पुरुष्टु॒तः ।
इ॒नस्य॒ यः सद॑ने॒ गर्भ॑माद॒धे गवा॑मुरु॒ब्जम॒भ्यर्ष॑ति व्र॒जं ॥४
अ॒यम् । नः॒ । वि॒द्वान् । व॒न॒व॒त् । व॒नु॒ष्य॒तः । इन्दुः॑ । स॒त्राचा॑ । मन॑सा । पु॒रु॒ऽस्तु॒तः ।
इ॒नस्य॑ । यः । सद॑ने । गर्भ॑म् । आ॒ऽद॒धे । गवा॑म् । उ॒रु॒ब्जम् । अ॒भि । अर्ष॑ति । व्र॒जम् ॥४
अयम् । नः । विद्वान् । वनवत् । वनुष्यतः । इन्दुः । सत्राचा । मनसा । पुरुऽस्तुतः ।
इनस्य । यः । सदने । गर्भम् । आऽदधे । गवाम् । उरुब्जम् । अभि । अर्षति । व्रजम् ॥४
“अयम् “इन्दुः सोमः “नः अस्मान् “वनुष्यतः हन्तुमिच्छतः शत्रून् “विद्वान् जानन् हन्तुं “वनवत् हन्तु तान् । केन साधनेन । “सत्राचा सहाञ्चता “मनसा । कीदृशः । “पुरुष्टुतः बहुभिः स्तुतः । “यः सोमः “इनस्य ईश्वरस्याग्नेः “सदने स्थाने भूमौ वेद्यां वा वर्तमानः “गर्भमादधे धारयत्योषधीषु । "यश्च “गवाम् अस्मदीयानां शत्रुभिरपहृतानाम् “उरुब्जं प्रभूतानामपां पयसां जनकं “व्रजम् “अभ्यर्षति गच्छति । स वनवदिति ॥
चक्रि॑र्दि॒वः प॑वते॒ कृत्व्यो॒ रसो॑ म॒हाँ अद॑ब्धो॒ वरु॑णो हु॒रुग्य॒ते ।
असा॑वि मि॒त्रो वृ॒जने॑षु य॒ज्ञियोऽत्यो॒ न यू॒थे वृ॑ष॒युः कनि॑क्रदत् ॥५
चक्रिः॑ । दि॒वः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । म॒हान् । अद॑ब्धः । वरु॑णः । हु॒रुक् । य॒ते ।
असा॑वि । मि॒त्रः । वृ॒जने॑षु । य॒ज्ञियः॑ । अत्यः॑ । न । यू॒थे । वृ॒ष॒ऽयुः । कनि॑क्रदत् ॥५
चक्रिः । दिवः । पवते । कृत्व्यः । रसः । महान् । अदब्धः । वरुणः । हुरुक् । यते ।
असावि । मित्रः । वृजनेषु । यज्ञियः । अत्यः । न । यूथे । वृषऽयुः । कनिक्रदत् ॥५
“चक्रिः सर्वस्य कर्ता “कृत्व्यः कर्मण्यः “रसः रसात्मकः "महान् गुणैरधिकः “अदब्धः अहिंस्यः "हुरुक् कुटिलं “यते गच्छते । इतस्ततः परिचरत इत्यर्थः । तदर्थं "दिवः सकाशात् "पवते पूयते । अन्तरिक्षस्थाद्दशापवित्रादित्यर्थः । किंचासौ सोमः "असावि सूयते । कदा । “वृजनेषु अरिष्टेषु सत्सु तत्परिहारार्थम् । कीदृशः सः । “मित्रः सर्वेषां मित्रभूतः “यज्ञियः यष्टव्यः “अत्यो “न अश्व इव “यूथे वडवायूथे स यथा “वृषयुः सन् शब्दं करोति तद्वदसौ वृषभो रसस्य वर्षिता “कनिक्रदत् शब्दं कुर्वन् असावीति ॥ ॥ २ ॥
टिप्पणी
९.७७.१ एष प्र कोषे मधुमाँ इति
मण्डल ९ | |||
---|---|---|---|