ऋग्वेदः सूक्तं ९.२६
← सूक्तं ९.२५ | ऋग्वेदः - मण्डल ९ सूक्तं ९.२६ इध्मवाहो दार्ढच्युतः। |
सूक्तं ९.२७ → |
दे. पवमानः सोमः। गायत्री। |
तममृक्षन्त वाजिनमुपस्थे अदितेरधि ।
विप्रासो अण्व्या धिया ॥१॥
तं गावो अभ्यनूषत सहस्रधारमक्षितम् ।
इन्दुं धर्तारमा दिवः ॥२॥
तं वेधां मेधयाह्यन्पवमानमधि द्यवि ।
धर्णसिं भूरिधायसम् ॥३॥
तमह्यन्भुरिजोर्धिया संवसानं विवस्वतः ।
पतिं वाचो अदाभ्यम् ॥४॥
तं सानावधि जामयो हरिं हिन्वन्त्यद्रिभिः ।
हर्यतं भूरिचक्षसम् ॥५॥
तं त्वा हिन्वन्ति वेधसः पवमान गिरावृधम् ।
इन्दविन्द्राय मत्सरम् ॥६॥
सायणभाष्यम्
‘तममृक्षन्त' इति षडृचं द्वितीयं सूक्तं दृळ्हच्युतपुत्रस्येध्मवाहनाम्न आर्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रान्तं च–' तममृक्षन्तेध्मवाहो दार्ढच्युतः' इति । गतो विनियोगः ॥
तम॑मृक्षंत वा॒जिन॑मु॒पस्थे॒ अदि॑ते॒रधि॑ ।
विप्रा॑सो॒ अण्व्या॑ धि॒या ॥१
तम् । अ॒मृ॒क्ष॒न्त॒ । वा॒जिन॑म् । उ॒पऽस्थे॑ । अदि॑तेः । अधि॑ ।
विप्रा॑सः । अण्व्या॑ । धि॒या ॥१
तम् । अमृक्षन्त । वाजिनम् । उपऽस्थे । अदितेः । अधि ।
विप्रासः । अण्व्या । धिया ॥१
“तं "वाजिनम् अश्वमश्ववदाशुम्। व्याप्तमित्यर्थः। “अदितेः पृथिव्याः “उपस्थे उत्सङ्गे। “अधि इति सप्तम्यर्थानुवादी । "अमृक्षन्त शोधितवन्तः । के। "विप्रासः मेधाविनोऽध्वर्य्वादयः । केन साधनेन । "अण्व्या अङ्गुल्या "धिया प्रज्ञया स्तुत्या वा अमृक्षन्त । अथवाण्व्या सूक्ष्मया धियाङ्गुल्येति विशेष्यविशेषणभावः ॥
तं गावो॑ अ॒भ्य॑नूषत स॒हस्र॑धार॒मक्षि॑तं ।
इंदुं॑ ध॒र्तार॒मा दि॒वः ॥२
तम् । गावः॑ । अ॒भि । अ॒नू॒ष॒त॒ । स॒हस्र॑ऽधारम् । अक्षि॑तम् ।
इन्दु॑म् । ध॒र्तार॑म् । आ । दि॒वः ॥२
तम् । गावः । अभि । अनूषत । सहस्रऽधारम् । अक्षितम् ।
इन्दुम् । धर्तारम् । आ । दिवः ॥२
“तं सोमं "गावः गन्त्र्यः स्तुतयः “अभ्यनूषत अस्तुवन् । कीदृशं तम् । "सहस्रधार बहुधारम् “अक्षितम् अक्षीणम् "इन्दुं दीप्तं "दिवः द्युलोकस्य “आ “धर्तारं सर्वतो धारकम् । सोमाधारत्वात् द्युलोकवासिनां संस्थानस्य ॥
तं वे॒धां मे॒धया॑ह्य॒न्पव॑मान॒मधि॒ द्यवि॑ ।
ध॒र्ण॒सिं भूरि॑धायसं ॥३
तम् । वे॒धाम् । मे॒धया॑ । अ॒ह्य॒न् । पव॑मानम् । अधि॑ । द्यवि॑ ।
ध॒र्ण॒सिम् । भूरि॑ऽधायसम् ॥३
तम् । वेधाम् । मेधया । अह्यन् । पवमानम् । अधि । द्यवि ।
धर्णसिम् । भूरिऽधायसम् ॥३
“वेधां विधातारं "पवमानं "तं "मेधया प्रज्ञया "अह्यन् प्रहिण्वन्ति । किं प्रति । "अधि “द्यवि द्युलोकं प्रति । पुनः कीदृशम् । “धर्णसिं सर्वस्य धारकं "भूरिधायसं बहूनां कर्तारम् ।।
तम॑ह्यन्भु॒रिजो॑र्धि॒या सं॒वसा॑नं वि॒वस्व॑तः ।
पतिं॑ वा॒चो अदा॑भ्यं ॥४
तम् । अ॒ह्य॒न् । भु॒रिजोः॑ । धि॒या । स॒म्ऽवसा॑नम् । वि॒वस्व॑तः ।
पति॑म् । वा॒चः । अदा॑भ्यम् ॥४
तम् । अह्यन् । भुरिजोः । धिया । सम्ऽवसानम् । विवस्वतः ।
पतिम् । वाचः । अदाभ्यम् ॥४
“तं सोमं "विवस्वतः परिचरत ऋत्विजः "भुरिजोः बाह्वोः “धिया अङ्गुल्या "अह्यन् प्राहिण्वन् । कीदृशं तम् । "संवसानं वसन्तं पात्रे “वाचः स्तुतेः "पतिं स्वामिनम् "अदाभ्यम् अदम्भनीयम् ॥
तं साना॒वधि॑ जा॒मयो॒ हरिं॑ हिन्वं॒त्यद्रि॑भिः ।
ह॒र्य॒तं भूरि॑चक्षसं ॥५
तम् । सानौ॑ । अधि॑ । जा॒मयः॑ । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ।
ह॒र्य॒तम् । भूरि॑ऽचक्षसम् ॥५
तम् । सानौ । अधि । जामयः । हरिम् । हिन्वन्ति । अद्रिऽभिः ।
हर्यतम् । भूरिऽचक्षसम् ॥५
“तं सोमं "हरिं हरितवर्णं "सानावधि समुच्छ्रिते देशे। अधीति सप्तम्यर्थानुवादी। "जामयः अङ्गुलयः “हिन्वन्ति प्रेरयन्ति । अधिषुण्वन्ति "अद्रिभिः ग्रावभिः । कीदृशम् । "हर्यतं कमनीयं "भूरिचक्षसं बहुद्रष्टारम् ॥
तं त्वा॑ हिन्वंति वे॒धसः॒ पव॑मान गिरा॒वृधं॑ ।
इंद॒विंद्रा॑य मत्स॒रं ॥६
तम् । त्वा॒ । हि॒न्व॒न्ति॒ । वे॒धसः॑ । पव॑मान । गि॒रा॒ऽवृध॑म् ।
इन्दो॒ इति॑ । इन्द्रा॑य । म॒त्स॒रम् ॥६
तम् । त्वा । हिन्वन्ति । वेधसः । पवमान । गिराऽवृधम् ।
इन्दो इति । इन्द्राय । मत्सरम् ॥६
हे "पवमान सोम “तम् उक्तगुणविशिष्टं "त्वा त्वां “हिन्वन्ति प्रेरयन्ति । कस्मै । "इन्द्राय । के। "वेधसः विधातार ऋत्विजः । कीदृशं त्वाम् । “गिरावृधं स्तुत्या वर्धमानम् “इन्दुं दीप्तं सरूपं वा "मत्सरं मदकरम् ॥ ॥ १६ ॥
मण्डल ९ | |||
---|---|---|---|