ऋग्वेदः सूक्तं ९.२७
← सूक्तं ९.२६ | ऋग्वेदः - मण्डल ९ सूक्तं ९.२७ नृमेध आङ्गिरसः |
सूक्तं ९.२८ → |
दे. पवमानः सोमः। गायत्री। |
एष कविरभिष्टुतः पवित्रे अधि तोशते ।
पुनानो घ्नन्नप स्रिधः ॥१॥
एष इन्द्राय वायवे स्वर्जित्परि षिच्यते ।
पवित्रे दक्षसाधनः ॥२॥
एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः ।
सोमो वनेषु विश्ववित् ॥३॥
एष गव्युरचिक्रदत्पवमानो हिरण्ययुः ।
इन्दुः सत्राजिदस्तृतः ॥४॥
एष सूर्येण हासते पवमानो अधि द्यवि ।
पवित्रे मत्सरो मदः ॥५॥
एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः ।
पुनान इन्दुरिन्द्रमा ॥६॥
सायणभाष्यम्
‘एष कविः' इति षडृचं तृतीयं सूक्तं नृमेधनाम्न अङ्गिरसस्यार्षं गायत्रं सौम्यम् । ‘एष कविर्नृमेधः' इत्यनुक्रान्तम् । उक्तो विनियोगः ॥
ए॒ष क॒विर॒भिष्टु॑तः प॒वित्रे॒ अधि॑ तोशते ।
पु॒ना॒नो घ्नन्नप॒ स्रिधः॑ ॥१
ए॒षः । क॒विः । अ॒भिऽस्तु॑तः । प॒वित्रे॑ । अधि॑ । तो॒श॒ते॒ ।
पु॒ना॒नः । घ्नन् । अप॑ । स्रिधः॑ ॥१
एषः । कविः । अभिऽस्तुतः । पवित्रे । अधि । तोशते ।
पुनानः । घ्नन् । अप । स्रिधः ॥१
“एषः सोमः "कविः मेधावी “अभिष्टुतः अभितः स्तुतः "पवित्रे "अधि दशापवित्रमतीत्य “तोशते । यद्यपि तोशतिर्वधकर्मा तथापि हनने गतिसद्भावादत्र गतिमात्रे वर्तते । गच्छतीत्यर्थः । अथवा । पवित्रेऽधि कृष्णाजिने तोशते हन्यते । पीड्यत इत्यर्थः । किं कुर्वन् । “पुनानः पूयमानः “स्रिधः शत्रून् "अप “घ्नन् अपगमयन् ।
ए॒ष इंद्रा॑य वा॒यवे॑ स्व॒र्जित्परि॑ षिच्यते ।
प॒वित्रे॑ दक्ष॒साध॑नः ॥२
ए॒षः । इन्द्रा॑य । वा॒यवे॑ । स्वः॒ऽजित् । परि॑ । सि॒च्य॒ते॒ ।
प॒वित्रे॑ । द॒क्ष॒ऽसाध॑नः ॥२
एषः । इन्द्राय । वायवे । स्वःऽजित् । परि । सिच्यते ।
पवित्रे । दक्षऽसाधनः ॥२
“एषः सोमः "स्वर्जित् स्वर्गस्य सर्वस्य वा जेता' “इन्द्राय "वायवे च "पवित्रे "परि “षिच्यते । कीदृश एषः । "दक्षसाधनः बलकारी ।।
ए॒ष नृभि॒र्वि नी॑यते दि॒वो मू॒र्धा वृषा॑ सु॒तः ।
सोमो॒ वने॑षु विश्व॒वित् ॥३
ए॒षः । नृऽभिः॑ । वि । नी॒य॒ते॒ । दि॒वः । मू॒र्धा । वृषा॑ । सु॒तः ।
सोमः॑ । वने॑षु । वि॒श्व॒ऽवित् ॥३
एषः । नृऽभिः । वि । नीयते । दिवः । मूर्धा । वृषा । सुतः ।
सोमः । वनेषु । विश्वऽवित् ॥३
“एषः "सोमः "नृभिः कर्मनेतृभिर्ऋत्विग्भिः "वि "नीयते विविधं नीयते । एष कीदृशः । "दिवः द्युलोकस्य "मूर्धा शिरोवत्प्रधानभूतः "वृषा अभिमतवर्षकः "सुतः अभिषुतः । कुत्र नीयते । “वनेषु वननीयेषु वनसंभूतद्रुमविकारेषु वा पात्रेषु । "विश्ववित् सर्वज्ञ एष इति समन्वयः ॥
ए॒ष ग॒व्युर॑चिक्रद॒त्पव॑मानो हिरण्य॒युः ।
इंदुः॑ सत्रा॒जिदस्तृ॑तः ॥४
ए॒षः । ग॒व्युः । अ॒चि॒क्र॒द॒त् । पव॑मानः । हि॒र॒ण्य॒ऽयुः ।
इन्दुः॑ । स॒त्रा॒ऽजित् । अस्तृ॑तः ॥४
एषः । गव्युः । अचिक्रदत् । पवमानः । हिरण्यऽयुः ।
इन्दुः । सत्राऽजित् । अस्तृतः ॥४
“एषः सोमः "पवमानः पूयमानः "अचिक्रदत् शब्दं करोति । कथंभूतः सन् । "गव्युः अस्माकं गा इच्छन् 'हिरण्ययुः धनमिच्छन् "इन्दुः दीप्तः सन् "सत्राजित् महतः शत्रोरसुरादेर्जेता “अस्तृतः स्वयमन्यैरहिंस्यश्च सन् ॥
ए॒ष सूर्ये॑ण हासते॒ पव॑मानो॒ अधि॒ द्यवि॑ ।
प॒वित्रे॑ मत्स॒रो मदः॑ ॥५
ए॒षः । सूर्ये॑ण । हा॒स॒ते॒ । पव॑मानः । अधि॑ । द्यवि॑ ।
प॒वित्रे॑ । म॒त्स॒रः । मदः॑ ॥५
एषः । सूर्येण । हासते । पवमानः । अधि । द्यवि ।
पवित्रे । मत्सरः । मदः ॥५
“एषः "पवमानः पूयमानः सोमः "सूर्येण देवेन “अधि “द्यवि द्युलोकेऽन्तरिक्षे "पवित्रे “हासते परित्यज्यते । "मत्सरः मदकरः “मदः सोमः । यद्यप्यध्वर्युहस्तादृशापवित्रे परित्यज्यते सोमस्तथाप्यन्तरिक्षे सूर्येण पवित्रे त्यज्यत इति भावना वीर्यवत्त्वाय । सत्स्वप्यन्यदेवेषु सोमस्रावणे सूर्यस्य कः प्रसङ्ग इति न वाच्यं सूर्यरश्मिभिरेव सोमस्याप्यायनात् ॥
ए॒ष शु॒ष्म्य॑सिष्यददं॒तरि॑क्षे॒ वृषा॒ हरिः॑ ।
पु॒ना॒न इंदु॒रिंद्र॒मा ॥६
ए॒षः । शु॒ष्मी । अ॒सि॒स्य॒द॒त् । अ॒न्तरि॑क्षे । वृषा॑ । हरिः॑ ।
पु॒ना॒नः । इन्दुः॑ । इन्द्र॑म् । आ ॥६
एषः । शुष्मी । असिस्यदत् । अन्तरिक्षे । वृषा । हरिः ।
पुनानः । इन्दुः । इन्द्रम् । आ ॥६
“एष "शुष्मी बलवान् सोमः "अन्तरिक्षे दशापवित्रे “असिष्यदत् स्यन्दते । कीदृश एषः । "वृषा वर्षकः "हरिः हरितवर्णः "पुनानः पूयमानः “इन्दुः दीप्तश्चैव "इन्द्रमा इन्द्रं च अभिगच्छतीति शेषः । आ इति चार्थे ॥ ॥ १७ ॥
मण्डल ९ | |||
---|---|---|---|