ऋग्वेदः सूक्तं ९.२५
← सूक्तं ९.२४ | ऋग्वेदः - मण्डल ९ सूक्तं ९.२५ दृळ्हच्युत आगस्त्यः। |
सूक्तं ९.२६ → |
दे. पवमानः सोमः। गायत्री। |
पवस्व दक्षसाधनो देवेभ्यः पीतये हरे ।
मरुद्भ्यो वायवे मदः ॥१॥
पवमान धिया हितोऽभि योनिं कनिक्रदत् ।
धर्मणा वायुमा विश ॥२॥
सं देवैः शोभते वृषा कविर्योनावधि प्रियः ।
वृत्रहा देववीतमः ॥३॥
विश्वा रूपाण्याविशन्पुनानो याति हर्यतः ।
यत्रामृतास आसते ॥४॥
अरुषो जनयन्गिरः सोमः पवत आयुषक् ।
इन्द्रं गच्छन्कविक्रतुः ॥५॥
आ पवस्व मदिन्तम पवित्रं धारया कवे ।
अर्कस्य योनिमासदम् ॥६॥
सायणभाष्यम्
द्वितीयेऽनुवाके षट्त्रिंशत्सूक्तानि । तत्र ‘पवस्व' इति षडृचं प्रथमं सूक्तं दृळ्हच्युतनाम्नोऽगस्त्यपुत्रस्यार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रान्तं च-’ पवस्व षड् दृळ्हच्युत आगस्त्यः । इति । गतो विनियोगः ॥
पव॑स्व दक्ष॒साध॑नो दे॒वेभ्यः॑ पी॒तये॑ हरे ।
म॒रुद्भ्यो॑ वा॒यवे॒ मदः॑ ॥१
पव॑स्व । द॒क्ष॒ऽसाध॑नः । दे॒वेभ्यः॑ । पी॒तये॑ । ह॒रे॒ ।
म॒रुत्ऽभ्यः॑ । वा॒यवे॑ । मदः॑ ॥१
पवस्व । दक्षऽसाधनः । देवेभ्यः । पीतये । हरे ।
मरुत्ऽभ्यः । वायवे । मदः ॥१
हे “हरे हरितवर्ण पापहर्तर्वा सोम “दक्षसाधनः । दक्षो बलम् । तस्य साधकः “मदः मदकरश्च त्वं “पवस्व क्षर। “देवेभ्यः इन्द्रादिभ्यः “पीतये पानाय । तथा “मरुद्यःस “वायवे च पीतये पवस्व ॥
पव॑मान धि॒या हि॒तो॒३॒॑ऽभि योनिं॒ कनि॑क्रदत् ।
धर्म॑णा वा॒युमा वि॑श ॥२
पव॑मान । धि॒या । हि॒तः । अ॒भि । योनि॑म् । कनि॑क्रदत् ।
धर्म॑णा । वा॒युम् । आ । वि॒श॒ ॥२
पवमान । धिया । हितः । अभि । योनिम् । कनिक्रदत् ।
धर्मणा । वायुम् । आ । विश ॥२
हे “पवमान सोम “धिया कर्मणास्मद्व्यापारेण अङ्गुल्या वा “हितः धृतः सन् “कनिक्रदत् शब्दं कुर्वन् “योनिं स्थानं ग्रहं वा “अभि विशेति शेषः । तदेवाह। “धर्मणाः “वायुम् । वायुसंबन्धि पात्रमित्यर्थः । तत् “आ “विश प्रविश ॥
सं दे॒वैः शो॑भते॒ वृषा॑ क॒विर्योना॒वधि॑ प्रि॒यः ।
वृ॒त्र॒हा दे॑व॒वीत॑मः ॥३
सम् । दे॒वैः । शो॒भ॒ते॒ । वृषा॑ । क॒विः । योनौ॑ । अधि॑ । प्रि॒यः ।
वृ॒त्र॒ऽहा । दे॒व॒ऽवीत॑मः ॥३
सम् । देवैः । शोभते । वृषा । कविः । योनौ । अधि । प्रियः ।
वृत्रऽहा । देवऽवीतमः ॥३
अयं सोमः "सं "शोभते "देवैः सह "योनौ स्थाने स्वीयेऽधिष्ठितः "वृषा कामानां वर्षकः “कविः क्रान्तप्रज्ञः "प्रियः प्रियभूतः सर्वेषां यद्वा प्रीणयिता “वृत्रहा वृत्रस्य हन्ता “देववीतमः अतिशयेन देवान् कामयमानः एवंमहानुभावः सोमः संशोभते ।।
विश्वा॑ रू॒पाण्या॑वि॒शन्पु॑ना॒नो या॑ति हर्य॒तः ।
यत्रा॒मृता॑स॒ आस॑ते ॥४
विश्वा॑ । रू॒पाणि॑ । आ॒ऽवि॒शन् । पु॒ना॒नः । या॒ति॒ । ह॒र्य॒तः ।
यत्र॑ । अ॒मृता॑सः । आस॑ते ॥४
विश्वा । रूपाणि । आऽविशन् । पुनानः । याति । हर्यतः ।
यत्र । अमृतासः । आसते ॥४
“विश्वा सर्वाणि रूपाण्याविशन् "पुनानः पूयमानः "हर्यतः कमनीयः । ‘हर्य गतिकान्त्योः । ईदृशः "याति गच्छति । "यत्र "अमृतासः अमृता देवाः "आसते तिष्ठन्ति तं देशं याति ॥
अ॒रु॒षो ज॒नय॒न्गिरः॒ सोमः॑ पवत आयु॒षक् ।
इंद्रं॒ गच्छ॑न्क॒विक्र॑तुः ॥५
अ॒रु॒षः । ज॒नय॑न् । गिरः॑ । सोमः॑ । प॒व॒ते॒ । आ॒यु॒षक् ।
इन्द्र॑म् । गच्छ॑न् । क॒विऽक्र॑तुः ॥५
अरुषः । जनयन् । गिरः । सोमः । पवते । आयुषक् ।
इन्द्रम् । गच्छन् । कविऽक्रतुः ॥५
“अरुषः आरोचमानः "सोमः "गिरः शब्दान् "जनयन् पवते क्षरति । किं कुर्वन् । "आयुषक् अनुषक्तम् "इन्द्रं "गच्छन् व्याप्नुवन् "कविक्रतुः क्रान्तप्रज्ञः ॥
आ प॑वस्व मदिंतम प॒वित्रं॒ धार॑या कवे ।
अ॒र्कस्य॒ योनि॑मा॒सदं॑ ॥६
आ । प॒व॒स्व॒ । म॒दि॒न्ऽत॒म॒ । प॒वित्र॑म् । धार॑या । क॒वे॒ ।
अ॒र्कस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥६
आ । पवस्व । मदिन्ऽतम । पवित्रम् । धारया । कवे ।
अर्कस्य । योनिम् । आऽसदम् ॥६
हे “मदिन्तम मादयितृतम "कवे क्रान्तप्रज्ञ सोम त्वं "पवित्रम् अतिक्रम्य “धारया “आ “पवस्व । किमर्थम् । "अर्कस्य अर्चनीयस्येन्द्रस्य "योनिं स्थानम् "आसदं प्राप्तुम् ॥ ॥ १५ ॥
टिप्पणी
९.२५.१ पवस्व दक्षसाधनो इति
चतुर्थे अहनि माध्यन्दिनपवमानस्य प्रथमं तृचम् -- पयस्व दक्षसाधन"इति गायत्री भवति सिध्यै। यत् पवस्वेति तद्बृहतो रूपं बार्हतं ह्येतदहः - तां.ब्रा. १२.९.१
पवस्व दक्षसाधन इति माध्यन्दिनस्य पवमानस्य दक्षवतीर् गायत्र्यो भवन्ति। अहर् एवैताभिर् दक्षयन्ति, छन्दांसि दक्षयन्ति, देवता दक्षयन्ति, षोडशिनं दक्षयन्ति। देवेभ्यः पीतये हरे मरुद्भ्यो वायवे मद इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। सं देवैश् शोभते वृषेति वृषेति वृषण्वतीर् भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः। पवमान धिया हितो ऽभि योनिं कनिक्रदद् इति योनिमतीर् भवन्ति। योनेर् वै प्रजाः पशवः प्रजायन्ते। जनद्वद् एतस्य वैराजस्याह्नो रूपम्। धर्मणा वायुम् आ रुहेति वायुमतीर् भवन्ति - वायुर् वै शान्तिश् - शान्त्या एवानिर्दाहाय। - जैब्रा ३.६६
मण्डल ९ | |||
---|---|---|---|