ऋग्वेदः सूक्तं ६.६५
← सूक्तं ६.६४ | ऋग्वेदः - मण्डल ६ सूक्तं ६.६५ बार्हस्पत्यो भरद्वाजः |
सूक्तं ६.६६ → |
दे. उषाः। त्रिष्टुप्। |
एषा स्या नो दुहिता दिवोजाः क्षितीरुच्छन्ती मानुषीरजीगः ।
या भानुना रुशता राम्यास्वज्ञायि तिरस्तमसश्चिदक्तून् ॥१॥
वि तद्ययुररुणयुग्भिरश्वैश्चित्रं भान्त्युषसश्चन्द्ररथाः ।
अग्रं यज्ञस्य बृहतो नयन्तीर्वि ता बाधन्ते तम ऊर्म्यायाः ॥२॥
श्रवो वाजमिषमूर्जं वहन्तीर्नि दाशुष उषसो मर्त्याय ।
मघोनीर्वीरवत्पत्यमाना अवो धात विधते रत्नमद्य ॥३॥
इदा हि वो विधते रत्नमस्तीदा वीराय दाशुष उषासः ।
इदा विप्राय जरते यदुक्था नि ष्म मावते वहथा पुरा चित् ॥४॥
इदा हि त उषो अद्रिसानो गोत्रा गवामङ्गिरसो गृणन्ति ।
व्यर्केण बिभिदुर्ब्रह्मणा च सत्या नृणामभवद्देवहूतिः ॥५॥
उच्छा दिवो दुहितः प्रत्नवन्नो भरद्वाजवद्विधते मघोनि ।
सुवीरं रयिं गृणते रिरीह्युरुगायमधि धेहि श्रवो नः ॥६॥
सायणभाष्यम्
‘ एषा स्या ' इति षड़ृचं चतुर्थं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभम् । अनुक्रम्यते च – ' एषा स्या ' इति । 'उषस्यं तु ' इति पूर्वसूक्ते उक्तत्वात् इदमपि उषोदेवताकम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ।।
ए॒षा स्या नो॑ दुहि॒ता दि॑वो॒जाः क्षि॒तीरु॒च्छन्ती॒ मानु॑षीरजीगः ।
या भा॒नुना॒ रुश॑ता रा॒म्यास्वज्ञा॑यि ति॒रस्तम॑सश्चिद॒क्तून् ॥१
ए॒षा । स्या । नः॒ । दु॒हि॒ता । दि॒वः॒ऽजाः । क्षि॒तीः । उ॒च्छन्ती॑ । मानु॑षीः । अ॒जी॒ग॒रिति॑ ।
या । भा॒नुना॑ । रुश॑ता । रा॒म्यासु॑ । अज्ञा॑यि । ति॒रः । तम॑सः । चि॒त् । अ॒क्तून् ॥१
एषा । स्या । नः । दुहिता । दिवःऽजाः । क्षितीः । उच्छन्ती । मानुषीः । अजीगरिति ।
या । भानुना । रुशता । राम्यासु । अज्ञायि । तिरः । तमसः । चित् । अक्तून् ॥१
“एषा “स्या सा “दिवोजाः दिवो जाता अत एव “दुहिता दिवः पुत्री उषाः "नः अस्मदर्थम् "उच्छन्ती तमांसि वर्जयन्ती “क्षितीः प्रजाः "मानुषीः "अजीगः उद्गिरति ।' जिगर्तिर्गिरतिकर्मा वा ' ( निरु. ६.८ ) इति यास्कः । प्रकाशयतीति यावत् । "या “रुशता दीप्यमानेन “भानुना युक्ता "राम्यासु याम्यासु रात्रिषु । रेफयकारयोर्व्यत्ययः । "अक्तून् नक्षत्रादितेजांसि “तमसश्चित् तमांसि च “तिर: तिरस्कुर्वती "अज्ञायि दृश्यते ॥
वि तद्य॑युररुण॒युग्भि॒रश्वै॑श्चि॒त्रं भा॑न्त्यु॒षस॑श्च॒न्द्रर॑थाः ।
अग्रं॑ य॒ज्ञस्य॑ बृह॒तो नय॑न्ती॒र्वि ता बा॑धन्ते॒ तम॒ ऊर्म्या॑याः ॥२
वि । तत् । य॒युः॒ । अ॒रु॒ण॒युक्ऽभिः॑ । अश्वैः॑ । चि॒त्रम् । भा॒न्ति॒ । उ॒षसः॑ । च॒न्द्रऽर॑थाः ।
अग्र॑म् । य॒ज्ञस्य॑ । बृ॒ह॒तः । नय॑न्तीः । वि । ताः । बा॒ध॒न्ते॒ । तमः॑ । ऊर्म्या॑याः ॥२
वि । तत् । ययुः । अरुणयुक्ऽभिः । अश्वैः । चित्रम् । भान्ति । उषसः । चन्द्रऽरथाः ।
अग्रम् । यज्ञस्य । बृहतः । नयन्तीः । वि । ताः । बाधन्ते । तमः । ऊर्म्यायाः ॥२
“चन्द्ररथाः कान्तिरथाः । ‘ चन्द्रश्चन्दतेः कान्तिकर्मणः ' (निरु. ११.५ ) इति यास्कः । ताः “उषसः "तत् तदानीं प्रातःकाले "बृहतः बृंहणशीलस्य "यज्ञस्य “अग्रं मुखं “नयन्तीः संपादयन्त्यः "अरुणयुग्भिः अरुणवर्णयुक्तैः "अश्वैः “वि “ययुः विस्तीर्णं यान्ति । “चित्रं यथा भवति तथा "भान्ति च । "ऊर्म्यायाः रात्रेः । ‘अक्तुः ऊर्म्या ' इति रात्रिनामसु पाठात् । "तमः “वि “बाधन्ते सम्यगपनयन्ति च ॥
श्रवो॒ वाज॒मिष॒मूर्जं॒ वह॑न्ती॒र्नि दा॒शुष॑ उषसो॒ मर्त्या॑य ।
म॒घोनी॑र्वी॒रव॒त्पत्य॑माना॒ अवो॑ धात विध॒ते रत्न॑म॒द्य ॥३
श्रवः॑ । वाज॑म् । इष॑म् । ऊर्ज॑म् । वह॑न्तीः । नि । दा॒शुषे॑ । उ॒ष॒सः॒ । मर्त्या॑य ।
म॒घोनीः॑ । वी॒रऽव॑त् । पत्य॑मानाः । अवः॑ । धा॒त॒ । वि॒ध॒ते । रत्न॑म् । अ॒द्य ॥३
श्रवः । वाजम् । इषम् । ऊर्जम् । वहन्तीः । नि । दाशुषे । उषसः । मर्त्याय ।
मघोनीः । वीरऽवत् । पत्यमानाः । अवः । धात । विधते । रत्नम् । अद्य ॥३
हे "उषसः "दाशुषे हविषां दात्रे “मर्त्याय “श्रवः कीर्तिं “वाजं बलम् "इषम् अन्नम् “ऊर्जं रसं च "वहन्तीः वहन्त्यो यूयं “मघोनीः धनवत्यः "पत्यमानाः गच्छन्त्यः "अद्य “विधते परिचरते मह्यं "वीरवत् पुत्रपौत्रादिसहितम् "अवः अन्नम् । ‘ सिनम् अवः ' इत्यन्ननामसु पाठात् । "रत्नं धनं च । श्वात्रं रत्नम् ' इति धननामसु पाठात् । "नि “धात नितरां धत्त ॥
इ॒दा हि वो॑ विध॒ते रत्न॒मस्ती॒दा वी॒राय॑ दा॒शुष॑ उषासः ।
इ॒दा विप्रा॑य॒ जर॑ते॒ यदु॒क्था नि ष्म॒ माव॑ते वहथा पु॒रा चि॑त् ॥४
इ॒दा । हि । वः॒ । वि॒ध॒ते । रत्न॑म् । अस्ति॑ । इ॒दा । वी॒राय॑ । दा॒शुषे॑ । उ॒ष॒सः॒ ।
इ॒दा । विप्रा॑य । जर॑ते । यत् । उ॒क्था । नि । स्म॒ । माऽव॑ते । व॒ह॒थ॒ । पु॒रा । चि॒त् ॥४
इदा । हि । वः । विधते । रत्नम् । अस्ति । इदा । वीराय । दाशुषे । उषसः ।
इदा । विप्राय । जरते । यत् । उक्था । नि । स्म । माऽवते । वहथ । पुरा । चित् ॥४
हे "उषसः “इदा "हि इदानीमेव “वः युष्माकं "विधते परिचरते दातुं "रत्नं धनम् "अस्ति । “इदा हि इदानीमेव “वीराय प्रेरयित्रे हविषां "दाशुषे यजमानाय दातुं वो रत्नमस्ति । “इदा हि इदानीमेव "विप्राय प्राज्ञाय "जरते स्तुवते दातुं वो रत्नमस्ति । "यत् यस्मिन् विप्रे “उक्था उक्थनामकानि स्तोत्राणि विद्यन्ते "मावते मत्सदृशाय यजमानाय तद्रत्नं "नि "वहथ । “पुरा “चित् पुरापि रत्नं मह्यं दत्तम् ॥
इ॒दा हि त॑ उषो अद्रिसानो गो॒त्रा गवा॒मङ्गि॑रसो गृ॒णन्ति॑ ।
व्य१॒॑र्केण॑ बिभिदु॒र्ब्रह्म॑णा च स॒त्या नृ॒णाम॑भवद्दे॒वहू॑तिः ॥५
इ॒दा । हि । ते॒ । उ॒षः॒ । अ॒द्रि॒सा॒नो॒ इत्य॑द्रिऽसानो । गो॒त्रा । गवा॑म् । अङ्गि॑रसः । गृ॒णन्ति॑ ।
वि । अ॒र्केण॑ । बि॒भि॒दुः॒ । ब्रह्म॑णा । च॒ । स॒त्या । नृ॒णाम् । अ॒भ॒व॒त् । दे॒वऽहू॑तिः ॥५
इदा । हि । ते । उषः । अद्रिसानो इत्यद्रिऽसानो । गोत्रा । गवाम् । अङ्गिरसः । गृणन्ति ।
वि । अर्केण । बिभिदुः । ब्रह्मणा । च । सत्या । नृणाम् । अभवत् । देवऽहूतिः ॥५
हे "उषो “अद्रिसानो आदृतसानो “ते तव प्रसादात् “इदा “हि सद्यं एव “गवां “गोत्रा संघान् "अङ्गिरसो “गृणन्ति उत्सृजन्ति । तथा च निगमान्तरं - ' गवां गोत्रमुद सृजो यदङ्गिरः । (ऋ. सं. २.२३. १८) इति । "अर्केण अर्चनीयेन “ब्रह्मणा स्तोत्रेण "वि “बिभिदुः तमांसि विदारयन्ति च । "नृणां नेतॄणां तेषामङ्गिरसां "देवहूतिः देवविषया स्तुतिः "सत्या सत्यफला “अभवत् ॥
उ॒च्छा दि॑वो दुहितः प्रत्न॒वन्नो॑ भरद्वाज॒वद्वि॑ध॒ते म॑घोनि ।
सु॒वीरं॑ र॒यिं गृ॑ण॒ते रि॑रीह्युरुगा॒यमधि॑ धेहि॒ श्रवो॑ नः ॥६
उ॒च्छ । दि॒वः॒ । दु॒हि॒त॒रिति॑ । प्र॒त्न॒ऽवत् । नः॒ । भ॒र॒द्वा॒ज॒ऽवत् । वि॒ध॒ते । म॒घो॒नि॒ ।
सु॒ऽवीर॑म् । र॒यिम् । गृ॒ण॒ते । रि॒री॒हि॒ । उ॒रु॒ऽगा॒यम् । अधि॑ । धे॒हि॒ । श्रवः॑ । नः॒ ॥६
उच्छ । दिवः । दुहितरिति । प्रत्नऽवत् । नः । भरद्वाजऽवत् । विधते । मघोनि ।
सुऽवीरम् । रयिम् । गृणते । रिरीहि । उरुऽगायम् । अधि । धेहि । श्रवः । नः ॥६
हे "दिवो "दुहितः उषः “प्रत्नवत् पुरातनेभ्य इव "नः अस्मदर्थम् "उच्छ तमांसि वर्जय । हे "मघोनि “भरद्वाजवत् “विधते परिचरते । भरद्वाजवदिति वचनात् अन्योऽप्यस्ति भरद्वाजः । तथा च ब्राह्मणं -' प्राणो वै भरद्वाजवत्' इति । "गृणते स्तुतिं कुर्वते मह्यं "सुवीरं कल्याणपुत्रपौत्रादियुक्तं "रयिं धनं “रिरीहि देहि । किंच “नः अस्मभ्यम् “उरुगायं बहुभिर्गातव्यं “श्रवः अन्नम् “अधि “धेहि अधिकं प्रयच्छ ॥ ॥ ६ ॥
मण्डल ६ | ||||
---|---|---|---|---|