ऋग्वेदः सूक्तं ५.३९
← सूक्तं ५.३८ | ऋग्वेदः - मण्डल ५ सूक्तं ५.३९ भौमोऽत्रिः। |
सूक्तं ५.४० → |
दे. इन्द्रः। अनुष्टुप्, ५ पङ्क्तिः |
यदिन्द्र चित्र मेहनास्ति त्वादातमद्रिवः ।
राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥१॥
यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर ।
विद्याम तस्य ते वयमकूपारस्य दावने ॥२॥
यत्ते दित्सु प्रराध्यं मनो अस्ति श्रुतं बृहत् ।
तेन दृळ्हा चिदद्रिव आ वाजं दर्षि सातये ॥३॥
मंहिष्ठं वो मघोनां राजानं चर्षणीनाम् ।
इन्द्रमुप प्रशस्तये पूर्वीभिर्जुजुषे गिरः ॥४॥
अस्मा इत्काव्यं वच उक्थमिन्द्राय शंस्यम् ।
तस्मा उ ब्रह्मवाहसे गिरो वर्धन्त्यत्रयो गिरः शुम्भन्त्यत्रयः ॥५॥
सायणभाष्यम्
' यदिन्द्र चित्र ' इति पञ्चर्चं सप्तमं सूक्तमत्रेरार्षमैन्द्रम् । अन्त्या पङ्क्तिः शिष्टाः पडक्त्यन्तपरिभाषयानुष्टुभः । ' यदिन्द्र पङ्क्त्यन्तम् ' इत्यनुक्रमणिका ।। आभिप्लविकेषूक्थ्येषु तृतीयसवने आद्यस्तृचोऽच्छावाकस्य वैकल्पिकः स्तोत्रियः । सूत्रितं च-' यदिन्द्र चित्र मेहना यस्ते साधिष्टोऽवसे ' ( आश्व. श्रौ. ७. ८) इति ।।
यदि॑न्द्र चित्र मे॒हनास्ति॒ त्वादा॑तमद्रिवः ।
राध॒स्तन्नो॑ विदद्वस उभयाह॒स्त्या भ॑र ॥१
यत् । इ॒न्द्र॒ । चि॒त्र॒ । मे॒हना॑ । अस्ति॑ । त्वाऽदा॑तम् । अ॒द्रि॒ऽवः॒ ।
राधः॑ । तत् । नः॒ । वि॒द॒द्व॒सो॒ इति॑ विदत्ऽवसो । उ॒भ॒या॒ह॒स्ति । आ । भ॒र॒ ॥१
यत् । इन्द्र । चित्र । मेहना। अस्ति । त्वाऽदातम् । अद्रिऽवः ।
राधः । तत् । नः । विदद्वसो इति विदत्ऽवसो । उभयाहस्ति । आ । भर ॥ १ ॥
हे चित्र चायनीय हे अद्रिवः वज्रवन् इन्द्र यत् मेहना मंहनीयं त्वादातं त्वया दातव्यं राधः धनम् अस्ति तत् धनं हे विदद्वसो लब्धधनेन्द्र नः अस्मभ्यम् उभयाहस्ति उभाभ्यां हस्ताभ्याम् आ आहर । अत्र ' यदिन्द्र चित्र चायनीय महनीयं धनमस्ति ' ( निरु. ४. ४) इत्यादिनिरुक्तं द्रष्टव्यम् ।।
यन्मन्य॑से॒ वरे॑ण्य॒मिन्द्र॑ द्यु॒क्षं तदा भ॑र ।
वि॒द्याम॒ तस्य॑ ते व॒यमकू॑पारस्य दा॒वने॑ ॥२
यत् । मन्य॑से । वरे॑ण्यम् । इन्द्र॑ । द्यु॒क्षम् । तत् । आ । भ॒र॒ ।
वि॒द्याम॑ । तस्य॑ । ते॒ । व॒यम् । अकू॑पारस्य । दा॒वने॑ ॥२
यत् । मन्यसे । वरेण्यम् । इन्द्र । द्युक्षम् । तत् । आ । भर ।।
विद्याम् । तस्य । ते । वयम् । अकूपारस्य । दावने ॥ २ ॥
हे इन्द्र यत् द्युक्षम् अन्नं वरेण्यं वरणीयं मन्यसे तत् द्युक्षम् आ -भर अस्मभ्यम् । ते तव संबन्धिनः वयं तस्य तादृशस्योक्तलक्षणस्य अकूपारस्य । अकुत्सितः पारोऽन्तो यस्य तादृशस्य अन्नस्य दावने दाने विद्याम स्याम ।।
वाजपेये अतिरिक्तोक्थे ' यत्ते दित्सु ' इत्येषा । सूत्रितं च-' यत्ते दित्सु प्रराध्यं त्वामिच्छवसस्पते ' ( आश्व. श्रौ. ९. ९.) इति ।।
यत्ते॑ दि॒त्सु प्र॒राध्यं॒ मनो॒ अस्ति॑ श्रु॒तं बृ॒हत् ।
तेन॑ दृ॒ळ्हा चि॑दद्रिव॒ आ वाजं॑ दर्षि सा॒तये॑ ॥३
यत् । ते॒ । दि॒त्सु । प्र॒ऽराध्य॑म् । मनः॑ । अस्ति॑ । श्रु॒तम् । बृ॒हत् ।
तेन॑ । दृ॒ळ्हा । चि॒त् । अ॒द्रि॒ऽवः॒ । आ । वाज॑म् । द॒र्षि॒ । सा॒तये॑ ॥३
यत् । ते । दित्सु । प्रऽराध्यम् । मनः। अस्ति । श्रुतम् । बृहत् ।
तेन । दृळ्हा । चित् । अद्रिवः । आ । वाज॑म् । दर्षि । सातये ॥ ३ ॥
हे इन्द्र ते तव यत् दित्सु दानेषु प्रराध्यं प्रकर्षेण स्तुत्यं श्रुतं विश्रुतं बृहत् महत् 'मनः अस्ति तेन मनसा हे 'अद्रिवः वज्रवन्निन्द्र दृळ्हा चित् दृढमपि वाजम् अन्नम् आ दर्षि आदरयसि सातये अस्मत्संभजनाय लाभाय वा ।।
मंहि॑ष्ठं वो म॒घोनां॒ राजा॑नं चर्षणी॒नाम् ।
इन्द्र॒मुप॒ प्रश॑स्तये पू॒र्वीभि॑र्जुजुषे॒ गिरः॑ ॥४
मंहि॑ष्ठम् । वः॒ । म॒घोना॑म् । राजा॑नम् । च॒र्ष॒णी॒नाम् ।
इन्द्र॑म् । उप॑ । प्रऽश॑स्तये । पू॒र्वीभिः॑ । जु॒जु॒षे॒ । गिरः॑ ॥४
मंहिष्ठम् । वः । मघोनाम् । राजानम् । चर्षणीनाम् ।
इन्द्रम् । उप । प्रऽशस्तये । पूर्वीभिः । जुजुषे । गिरः ॥ ४ ॥
मघोनां हविर्लक्षणधनवतां वः युष्माकं मंहिष्ठम् अतिशयेन पूज्यं चर्षणीनां मनुष्याणां 'राजानम् इन्द्रम् उप उपेत्य प्रशस्तये प्रशंसितुं पूर्वीभिः पुरातनीभिर्वाग्भिः गिरः स्तोतारः जुजुषे सेवन्ते ।।
अस्मा॒ इत्काव्यं॒ वच॑ उ॒क्थमिन्द्रा॑य॒ शंस्य॑म् ।
तस्मा॑ उ॒ ब्रह्म॑वाहसे॒ गिरो॑ वर्ध॒न्त्यत्र॑यो॒ गिरः॑ शुम्भ॒न्त्यत्र॑यः ॥५
अस्मै॑ । इत् । काव्य॑म् । वचः॑ । उ॒क्थम् । इन्द्रा॑य । शंस्य॑म् ।
तस्मै॑ । ऊं॒ इति॑ । ब्रह्म॑ऽवाहसे । गिरः॑ । व॒र्ध॒न्ति॒ । अत्र॑यः । गिरः॑ । शु॒म्भ॒न्ति॒ । अत्र॑यः ॥५
अस्मै । इत् । काव्यम् । वचः । उक्थम् । इन्द्राय । शंस्य॑म् ।
तस्मै । ऊँ इतिं । ब्रह्मऽवाहसे । गिरः । वर्धन्ति । अत्रयः । गिरः । शुम्भन्ति । अत्रयः ॥५॥
अस्मा इत् अस्मा एव इन्द्राय काव्यं कवेः स्तोतुः संबन्धि । यद्वा । ' कु शब्दे ' । शब्दनीयं वचः वाग्रूपम् उक्थं शस्त्रं शंस्यं शंसनीयम् । यस्मादेवं तस्मात् तस्मा उ तस्मा इन्द्रायैव ब्रह्मवाहसे परिवृढस्य स्तोत्रस्य वाहकाय गिरः स्तुतीः अत्रयः अत्रिगोत्राः वर्धन्ति वर्धयन्ति । अत्रयः गिरः शुम्भन्ति दीपयन्ति । पुनरुक्तिरादरार्था ।। ।। १० ।।
टिप्पणी
५.३९.१ यदिन्द्र चित्रेति --
ऋङ् मोघमन्नं निन्दा च शापो यो मेत्यृगेव तु ।
याञ्चा यदिन्द्र चित्रेति क्षेपोऽभीदमिति त्वृचि ।।बृहद्देवता १.४९ ।।
द्र. वीङ्कानि
५.३९.२ द्र. जैमिनीयं ब्राह्मणम् ३.२०३, निरुक्तम् ४.१८
SV.i.345^ 2.522";
वीङ्कं भवति च्यवनो वै दाधीचोऽश्विनोः प्रिय आसीत् सोऽजीर्यत् तमेतेन साम्नाप्सु व्यैङ्कयतां तं पुनर्युवानमकुरुतां तद्वाव तौ तर्ह्यकामयेतां कामसनि साम वीङ्कं काममेवैतेनावरुन्धे। चतुर्विंश एव स्तोमो भवति तेजसे ब्रह्मवर्चसाय - तांब्रा. १४.६.१०
आश्व.श्रौ.7.8.3;
स्वरसामप्रकरणम् -यदिन्द्र चित्र मेहनेति द्वे या इन्द्र भुज इति तृतीयानुरूपस्य - शांश्रौ.11. 11.15;
महाव्रतप्रकरणम् - अथैतमानुष्टुभं समाम्नायं शंसति ...यदिन्द्र चित्र मेहनेति चतस्रः - शांश्रौ 18.18.8;
यदिन्द्र चित्र मेहनास्ति त्वादातमद्रिवः । राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥ यदिन्द्र चायनीयं मंहनीयं धनमस्ति । यन्म इह नास्तीति वा । त्रीणि मध्यमानि पदानि । त्वया नस्तद् दातव्यम् । अद्रिवन् । अद्रिरादृणात्येनेन । अपि वात्तेः स्यात् । ते सोमादो । इति ह विज्ञायते । राध इति धननाम । राध्नुवन्त्यनेन । तन्नस्त्वं वित्तधनोभाभ्यां हस्ताभ्यामाहर । उभौ समुब्धौ भवतः । निरुक्तम् ४.४
यदिन्द्र चित्र यदिन्द्र ते चतस्र इति स्तोत्रियानुरूपौ प्रथमे छन्दोमे - शांश्रौ.12.26.20.
मण्डल ५ | ||||
---|---|---|---|---|