ऋग्वेदः सूक्तं ५.३८
← सूक्तं ५.३७ | ऋग्वेदः - मण्डल ५ सूक्तं ५.३८ भौमोऽत्रिः |
सूक्तं ५.३९ → |
दे. इन्द्रः। अनुष्टुप् । |
उरोष्ट इन्द्र राधसो विभ्वी रातिः शतक्रतो ।
अधा नो विश्वचर्षणे द्युम्ना सुक्षत्र मंहय ॥१॥
यदीमिन्द्र श्रवाय्यमिषं शविष्ठ दधिषे ।
पप्रथे दीर्घश्रुत्तमं हिरण्यवर्ण दुष्टरम् ॥२॥
शुष्मासो ये ते अद्रिवो मेहना केतसापः ।
उभा देवावभिष्टये दिवश्च ग्मश्च राजथः ॥३॥
उतो नो अस्य कस्य चिद्दक्षस्य तव वृत्रहन् ।
अस्मभ्यं नृम्णमा भरास्मभ्यं नृमणस्यसे ॥४॥
नू त आभिरभिष्टिभिस्तव शर्मञ्छतक्रतो ।
इन्द्र स्याम सुगोपाः शूर स्याम सुगोपाः ॥५॥
सायणभाष्यम्
‘उरोष्टे ' इति पञ्चर्चं षष्ठं सूक्तमत्रेरार्षमानुष्टुभमैन्द्रम् । ' उरोरानुष्टुभम्' इत्यनुक्रान्तम् । विनियोगो लैङ्गिकः ।।
उ॒रोष्ट॑ इन्द्र॒ राध॑सो वि॒भ्वी रा॒तिः श॑तक्रतो ।
अधा॑ नो विश्वचर्षणे द्यु॒म्ना सु॑क्षत्र मंहय ॥१
उ॒रोः । ते॒ । इ॒न्द्र॒ । राध॑सः । वि॒ऽभ्वी । रा॒तिः । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
अध॑ । नः॒ । वि॒श्व॒ऽच॒र्ष॒णे॒ । द्यु॒म्ना । सु॒ऽक्ष॒त्र॒ । मं॒ह॒य॒ ॥१
उरोः । ते । इन्द्र । राधसः । विऽभ्वी । रातिः । शतक्रतो इति शतऽक्रतो ।
अध । नः । विश्वऽचर्षणे । द्युम्ना । सुऽक्षत्र । मंहय ।। १ ।।
हे "इन्द्र "शतक्रतो बहुकर्मन् "ते तव “उरोः प्रभूतस्य "राधसः धनस्य "रातिः दानं "विभ्वी महती । "अध अतः कारणात् "नः अस्मभ्यं हे "विश्वचर्षणे सर्वस्य द्रष्टः "सुक्षत्र शोभनधनेन्द्र । क्षत्रमिति धननाम । “द्युम्ना द्युम्नानि "धनानि "मंहय प्रयच्छ ।
यदी॑मिन्द्र श्र॒वाय्य॒मिषं॑ शविष्ठ दधि॒षे ।
प॒प्र॒थे दी॑र्घ॒श्रुत्त॑मं॒ हिर॑ण्यवर्ण दु॒ष्टर॑म् ॥२
यत् । ई॒म् । इ॒न्द्र॒ । श्र॒वाय्य॑म् । इष॑म् । श॒वि॒ष्ठ॒ । द॒धि॒षे ।
प॒प्र॒थे । दी॒र्घ॒श्रुत्ऽत॑मम् । हिर॑ण्यऽवर्ण । दु॒स्तर॑म् ॥२
यत् । ईम् । इन्द्र । श्रवाय्यम् । इषम् । शविष्ठ । दधिषे ।
पप्रथे। दीर्घश्रुत्ऽतमम् । हिरण्यऽवर्ण । दुस्तरम् ॥ २ ॥
हे "इन्द्र “शविष्ठ अतिशयेन बलवन् “यत् “इषम् अन्नं “श्रवाय्यं श्रवणीयम् “ईम् सर्वतः "दधिषे धारयसि ददासि वा ॥ इषशब्दो नपुंसकलिङ्गोऽप्यस्ति ॥ हे “हिरण्यवर्ण इन्द्र तदन्नं "पप्रथे प्रथते । कथम् । “दीर्घश्रुत्तमम् अतिदूरश्रवणीयतमम् । सर्वत्र कीर्त्यमित्यर्थः । “दुष्टरम् अनभिभाव्यमुक्तलक्षणं प्रथते ॥
शुष्मा॑सो॒ ये ते॑ अद्रिवो मे॒हना॑ केत॒सापः॑ ।
उ॒भा दे॒वाव॒भिष्ट॑ये दि॒वश्च॒ ग्मश्च॑ राजथः ॥३
शुष्मा॑सः । ये । ते॒ । अ॒द्रि॒ऽवः॒ । मे॒हना॑ । के॒त॒ऽसापः॑ ।
उ॒भा । दे॒वौ । अ॒भिष्ट॑ये । दि॒वः । च॒ । ग्मः । च॒ । रा॒ज॒थः॒ ॥३
शुष्मासः । ये । ते । अद्रिऽवः । मेहना । केतऽसापः ।
उभा । देवौ । अभिष्टये । दिवः । च । ग्मः । च। राजथः ।। ३ ।।
हे "अद्रिवः वज्रवन्निन्द्र "ते त्वदीयाः "ये “शुष्मासः बलभूता मरुतः सन्ति । कीदृशास्ते । "मेहना मंहनीयाः "केतसापः प्रज्ञापकं कर्मान्तरिक्षं वा स्पृशन्तः । "उभा उभौ "देवौ त्वं च मरुत्समूहश्च इत्युभौ युवां "दिवश्च द्युलोकात् "ग्मश्च भूमेः सकाशात् "अभिष्टये अभितो गमनाय "राजथः ईशाथे ॥
उ॒तो नो॑ अ॒स्य कस्य॑ चि॒द्दक्ष॑स्य॒ तव॑ वृत्रहन् ।
अ॒स्मभ्यं॑ नृ॒म्णमा भ॑रा॒स्मभ्यं॑ नृमणस्यसे ॥४
उ॒तो इति॑ । नः॒ । अ॒स्य । कस्य॑ । चि॒त् । दक्ष॑स्य । तव॑ । वृ॒त्र॒ऽह॒न् ।
अ॒स्मभ्य॑म् । नृ॒म्णम् । आ । भ॒र॒ । अ॒स्मभ्य॑म् । नृ॒ऽम॒न॒स्य॒से॒ ॥४
उतो इति । नः । अस्य । कस्य । चित् । दक्षस्य । तव । वृत्रऽहन् ।
अस्मभ्यम् । नृम्णम् । आ । भर । अस्मभ्यम् । नृऽमनस्यसे ।। ४ ।।
“उतो अपि च हे "वृत्रहन् इन्द्र नः अस्मभ्यं "कस्य "चित् अनिर्देश्यस्य "दक्षस्य प्रवृद्धस्य दातुर्वा "अस्य “तव स्वभूतेभ्यः "अस्मभ्यम् । पुनःश्रुतिरादरार्था । "नृम्णं नृमणं धनम् “आ “भर आहर । हे इन्द्र यतस्त्वम् "अस्मभ्यं "नृमणस्यसे धनमिच्छसि ॥
नू त॑ आ॒भिर॒भिष्टि॑भि॒स्तव॒ शर्म॑ञ्छतक्रतो ।
इन्द्र॒ स्याम॑ सुगो॒पाः शूर॒ स्याम॑ सुगो॒पाः ॥५
नु । ते॒ । आ॒भिः । अ॒भिष्टि॑ऽभिः । तव॑ । शर्म॑न् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
इन्द्र॑ । स्याम॑ । सु॒ऽगो॒पाः । शूर॑ । स्याम॑ । सु॒ऽगो॒पाः ॥५
नु । ते । आभिः । अभिष्टिऽभिः । तव । शर्मन् । शतक्रतो इति शतक्रतो ।
इन्द्र । स्याम् । सुऽगोपाः । शूर । स्याम । सुऽगोपाः ।। ५ ।।
हे “शतक्रतो इन्द्र “ते तव “आभिः “अभिष्टिभिः अभिगमनैः “नु शीघ्रं समृद्धा भवेमेति शेषः । हे “इन्द्र “तव “शर्मन् शर्मणि सुखे सति “सुगोपाः “स्याम भवेम । हे “शूर तव शर्मणि "सुगोपाः शोभनरक्षणाः “स्याम भवेम । पुनरुक्तिरादरार्था ॥ ॥ ९ ॥
टिप्पणी
उरोष्ट इति सूक्तेन वित्तमाप्नोत्यसंशयम् ।।- विष्णुधर्मोत्तरपुराणम् २.१२४.७१
५.३८.१ उरोष्ट इन्द्र राधस इति
तु. वरुणान्याः साम (विभोष्ट इन्द्र राधसः) (ग्रामगेयः)
महाव्रतप्रकरणम् -अथैतमानुष्टुभं समाम्नायं शंसति ...उरोष्ट इन्द्र राधस इति द्वे - शांश्रौ १८.१८.७
मण्डल ५ | ||||
---|---|---|---|---|