ऋग्वेदः सूक्तं ९.१०५
← सूक्तं ९.१०४ | ऋग्वेदः - मण्डल ९ सूक्तं ९.१०५ पर्वतनारदौ काण्वौ। |
सूक्तं ९.१०६ → |
दे. पवमानः सोमः। उष्णिक्। |
तं वः सखायो मदाय पुनानमभि गायत ।
शिशुं न यज्ञैः स्वदयन्त गूर्तिभिः ॥१॥
सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते ।
देवावीर्मदो मतिभिः परिष्कृतः ॥२॥
अयं दक्षाय साधनोऽयं शर्धाय वीतये ।
अयं देवेभ्यो मधुमत्तमः सुतः ॥३॥
गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धन्व ।
शुचिं ते वर्णमधि गोषु दीधरम् ॥४॥
स नो हरीणां पत इन्दो देवप्सरस्तमः ।
सखेव सख्ये नर्यो रुचे भव ॥५॥
सनेमि त्वमस्मदाँ अदेवं कं चिदत्रिणम् ।
साह्वाँ इन्दो परि बाधो अप द्वयुम् ॥६॥
सायणभाष्यम्
'तं वः' इति षडृचं द्वितीयं सूक्तं पर्वतनारदयोरार्षम् । अन्यत् पूर्ववत् । ' तं वः' इत्यनुक्रान्तम् । गतः सूक्तविनियोगः ॥
तं वः॑ सखायो॒ मदा॑य पुना॒नम॒भि गा॑यत ।
शिशुं॒ न य॒ज्ञैः स्व॑दयंत गू॒र्तिभिः॑ ॥१
तम् । वः॒ । स॒खा॒यः॒ । मदा॑य । पु॒ना॒नम् । अ॒भि । गा॒य॒त॒ ।
शिशु॑म् । न । य॒ज्ञैः । स्व॒द॒य॒न्त॒ । गू॒र्तिऽभिः॑ ॥१
तम् । वः । सखायः । मदाय । पुनानम् । अभि । गायत ।
शिशुम् । न । यज्ञैः । स्वदयन्त । गूर्तिऽभिः ॥१
हे “सखायः ऋत्विजः “वः यूयं “मदाय देवानां मदार्थं “पुनानं पूयमानं “तं सोमम् “अभि “गायत अभिष्टुत । तमिमं सोमं “शिशुं “न शिशुमिवालंकारैः क्षीरादिभिश्च यथा स्वादूकुर्वन्ति तद्वत् “यज्ञैः हविर्भिर्मिश्रणैः “गूर्तिभिः स्तुतिभिश्च “स्वदयन्त स्वादूकुर्वन्ति ॥
प्रवर्ग्येऽभिष्टवे ‘सं वत्स इव मातृभिः' इत्येका। सूत्रं च ' समी वत्सम्' इत्यनया सहोक्तम् ॥
सं व॒त्स इ॑व मा॒तृभि॒रिन्दु॑र्हिन्वा॒नो अ॑ज्यते ।
दे॒वा॒वीर्मदो॑ म॒तिभिः॒ परि॑ष्कृतः ॥२
सम् । व॒त्सःऽइ॑व । मा॒तृऽभिः॑ । इन्दुः॑ । हि॒न्वा॒नः । अ॒ज्य॒ते॒ ।
दे॒व॒ऽअ॒वीः । मदः॑ । म॒तिऽभिः॑ । परि॑ऽकृतः ॥२
सम् । वत्सःऽइव । मातृऽभिः । इन्दुः । हिन्वानः । अज्यते ।
देवऽअवीः । मदः । मतिऽभिः । परिऽकृतः ॥२
“हिन्वानः प्रेर्यमाणः “इन्दुः सोमो वसतीवरीभिः “सम् “अज्यते । सम्यक् सिक्तो भवति । तत्र दृष्टान्तः । “वत्सइव वत्सो यथा “मातृभिः गोभिः समक्तो भवति तद्वत् । कीदृशः । “देवावीः देवानां रक्षकः “मदः मदकरः “मतिभिः स्तुतिभिः “परिष्कृतः अलंकृतः ॥ भूषणार्थे ' संपर्युपेभ्यः इति सुडागमः। ‘परिनिविभ्यः' (पा. सू. ८. ३. ७० ) इति सुटः षत्वम् ॥ अयं दक्षय साधनोऽयं शर्धय वीतये । अयं देवेभ्यो मधुमत्तमः सुतः ॥ ३ ॥ अयम् । दर्धाय । साधनः। अयम् । शर्धाय । वीतये । अयम् । देवेभ्यः। मधुमत्त मः। सुतः ॥३॥
अ॒यं दक्षा॑य॒ साध॑नो॒ऽयं शर्धा॑य वी॒तये॑ ।
अ॒यं दे॒वेभ्यो॒ मधु॑मत्तमः सु॒तः ॥३
अ॒यम् । दक्षा॑य । साध॑नः । अ॒यम् । शर्धा॑य । वी॒तये॑ ।
अ॒यम् । दे॒वेभ्यः॑ । मधु॑मत्ऽतमः । सु॒तः ॥३
अयम् । दक्षाय । साधनः । अयम् । शर्धाय । वीतये ।
अयम् । देवेभ्यः । मधुमत्ऽतमः । सुतः ॥३
“अयं सोमः “दक्षाय बलाय वर्धनाय वा “साधनः साधयिता भवति । तथा “अयं सोमः “शर्धाय वेगार्थं “वीतये देवानां भक्षणार्थं च भवति । “सुतः अभिषुतः “अयं सोमः “देवेभ्यः इन्दादिभ्यः “मधुमत्तमः अतिशयेन माधुर्ययुक्तो भवति । अत्यन्तं मदकरो भवतीति वा ॥
गोम॑न्न इंदो॒ अश्व॑वत्सु॒तः सु॑दक्ष धन्व ।
शुचिं॑ ते॒ वर्ण॒मधि॒ गोषु॑ दीधरं ॥४
गोऽम॑त् । नः॒ । इ॒न्दो॒ इति॑ । अश्व॑ऽवत् । सु॒तः । सु॒ऽद॒क्ष॒ । ध॒न्व॒ ।
शुचि॑म् । ते॒ । वर्ण॑म् । अधि॑ । गोषु॑ । दी॒ध॒र॒म् ॥४
गोऽमत् । नः । इन्दो इति । अश्वऽवत् । सुतः । सुऽदक्ष । धन्व ।
शुचिम् । ते । वर्णम् । अधि । गोषु । दीधरम् ॥४
हे “सुदक्ष सुबल हे “इन्दो सोम “सुतः अभिषुतस्त्वं “नः अस्माकं “गोमत् यज्ञसाधनगोयुक्तम् “अश्ववत् अश्वयुक्तं धनं “धन्व गमय । धविर्गत्यर्थो भूवादिः । ततोऽहं “शुचिं पूतं दीप्यमानं वा “ते तव “वर्णं रसं “गोषु गव्येषु क्षीरादिषु “अधि “दीधरम् अधिधारयामि मिश्रयामि ॥
स नो॑ हरीणां पत॒ इंदो॑ दे॒वप्स॑रस्तमः ।
सखे॑व॒ सख्ये॒ नर्यो॑ रु॒चे भ॑व ॥५
सः । नः॒ । ह॒री॒णा॒म् । प॒ते॒ । इन्दो॒ इति॑ । दे॒वप्स॑रःऽतमः ।
सखा॑ऽइव । सख्ये॑ । नर्यः॑ । रु॒चे । भ॒व॒ ॥५
सः । नः । हरीणाम् । पते । इन्दो इति । देवप्सरःऽतमः ।
सखाऽइव । सख्ये । नर्यः । रुचे । भव ॥५
हे “हरीणां “पते “नः अस्मदीयानां हरितवर्णानां पशूनां स्वामिन् हे “इन्दो सोम “देवसरस्तमः अतिशयेन दीप्तरूपोपेतः “सः त्वं “नर्यः कर्मनेतृभ्य ऋत्विग्भ्यो हितः स त्वं “नः अस्माकं “रुचे "भव दीप्तिकरो भव । किमिव । “सखेव यथा सखा “सख्ये मित्राय दीप्तिकरो भवति तद्वत् ॥
सने॑मि॒ त्वम॒स्मदाँ अदे॑वं॒ कं चि॑द॒त्रिणं॑ ।
सा॒ह्वाँ इं॑दो॒ परि॒ बाधो॒ अप॑ द्व॒युं ॥६
सने॑मि । त्वम् । अ॒स्मत् । आ । अदे॑वम् । कम् । चि॒त् । अ॒त्रिण॑म् ।
स॒ह्वान् । इ॒न्दो॒ इति॑ । परि॑ । बाधः॑ । अप॑ । द्व॒युम् ॥६
सनेमि । त्वम् । अस्मत् । आ । अदेवम् । कम् । चित् । अत्रिणम् ।
सह्वान् । इन्दो इति । परि । बाधः । अप । द्वयुम् ॥६
हे सोम “त्वं “सनेमि पुराणं सख्यम् “अस्मत् अस्मासु कुरु । “आ अपि च “अदेवम् अदेवनशीलं "कं “चित् अपि “अत्रिणम् अदनशीलं राक्षसमस्मदस्मत्तोऽपगमय । किंच हे “इन्दो “साह्वान् शत्रूनभिभवन् “बाधः बाधमानान् “परि जहि । तथा “द्वयुं द्वयवन्तं सत्यानृतयुक्तं बाह्याभ्यन्तरमायाद्वयोपेतं वा राक्षसमस्मत्तोऽपगमय ॥ ॥ ८ ॥
टिप्पणी
९.१०५.१ तं वः सखायो इति
मण्डल ९ | |||
---|---|---|---|