ऋग्वेदः सूक्तं ९.१०४
← सूक्तं ९.१०३ | ऋग्वेदः - मण्डल ९ सूक्तं ९.१०४ पर्वतनारदौ काण्वौ, काश्यप्यौ शिखण्डिन्यावप्सरसौ वा। |
सूक्तं ९.१०५ → |
दे. पवमानः सोमः। उष्णिक्। |
सखाय आ नि षीदत पुनानाय प्र गायत ।
शिशुं न यज्ञैः परि भूषत श्रिये ॥१॥
समी वत्सं न मातृभिः सृजता गयसाधनम् ।
देवाव्यं मदमभि द्विशवसम् ॥२॥
पुनाता दक्षसाधनं यथा शर्धाय वीतये ।
यथा मित्राय वरुणाय शंतमः ॥३॥
अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत ।
गोभिष्टे वर्णमभि वासयामसि ॥४॥
स नो मदानां पत इन्दो देवप्सरा असि ।
सखेव सख्ये गातुवित्तमो भव ॥५॥
सनेमि कृध्यस्मदा रक्षसं कं चिदत्रिणम् ।
अपादेवं द्वयुमंहो युयोधि नः ॥६॥
सायणभाष्यम्
सप्तमेऽनुवाक एकादश सूक्तानि । तत्र ‘ सखायः' इति षड़ृचं प्रथमं सूक्तम् । काण्वौ पर्वतनारदावृषी । अथवा कश्यपस्य पुत्र्यौ शिखण्डिन्याख्ये द्वे अप्सरसावस्य सूक्तस्य दृष्ट्यौ । पूर्ववच्छन्दोदेवते। तथा चानुक्रम्यते- सखायः पर्वतनारदौ काश्यप्यौ द्वे शिखण्डिन्यौ वाप्सरसौ ' इति । गतः सूक्तविनियोगः ॥
सखा॑य॒ आ नि षी॑दत पुना॒नाय॒ प्र गा॑यत ।
शिशुं॒ न य॒ज्ञैः परि॑ भूषत श्रि॒ये ॥१
सखा॑यः । आ । नि । सी॒द॒त॒ । पु॒ना॒नाय॑ । प्र । गा॒य॒त॒ ।
शिशु॑म् । न । य॒ज्ञैः । परि॑ । भू॒ष॒त॒ । श्रि॒ये ॥१
सखायः । आ । नि । सीदत । पुनानाय । प्र । गायत ।
शिशुम् । न । यज्ञैः । परि । भूषत । श्रिये ॥१
हे “सखायः सखिभूताः स्तोतार ऋत्विजः “आ “नि “षीदत स्तोतुमुपविशत । अथ “पुनानाय पूयमानाय सोमाय “प्र “गायत प्रकर्षेण गायत । तमभिष्टुत । ततोऽभिषुतं सोमं “यज्ञैः यजनीयैः हविर्भिः मिश्रणैश्च “श्रिये शोभार्थं “परि “भूषत परितोऽलंकुरुत । तत्र दृष्टान्तः । “शिशुं “न यथा शिशुं बालं पुत्रं पितर आभरणैरलंकुर्वन्ति तद्वत् ॥
प्रवर्ग्येऽभिष्टवे 'समी वत्सम् ' इत्येका । सूत्रितं च - समी वत्सं न मातृभिः सं वत्स इव मातृभिः' (आश्व. श्रौ. ४, ७) इति ॥
समी॑ व॒त्सं न मा॒तृभिः॑ सृ॒जता॑ गय॒साध॑नं ।
दे॒वा॒व्यं१॒॑ मद॑म॒भि द्विश॑वसं ॥२
सम् । ई॒मिति॑ । व॒त्सम् । न । मा॒तृऽभिः॑ । सृ॒जत॑ । ग॒य॒ऽसाध॑नम् ।
दे॒व॒ऽअ॒व्य॑म् । मद॑म् । अ॒भि । द्विऽश॑वसम् ॥२
सम् । ईमिति । वत्सम् । न । मातृऽभिः । सृजत । गयऽसाधनम् ।
देवऽअव्यम् । मदम् । अभि । द्विऽशवसम् ॥२
हे ऋत्विजः “गयसाधनं गृहस्य साधनम् “ईम् एनं सोमं “मातृभिः मातृभूताभिर्वसतीवरीभिः “सं “सृजत संमिश्रयत । कथमिव । “वत्सं “न यथा वत्सं “मातृभिः गोभिः संयोजयन्ति तद्वत् । कीदृशम् । “देवाव्यं देवानां रक्षकं “मदं मदनहेतुं “द्विशवसं द्विगुणवेगमतिशयितबलं वा । यद्वा द्वयोर्लोकयोस्तत्र स्थिता देवमनुष्या इत्यर्थः । तेषां हविर्धनप्रदानेन वर्धयितारम् । तं सोमम् “अभि सं सृजत ॥
पु॒नाता॑ दक्ष॒साध॑नं॒ यथा॒ शर्धा॑य वी॒तये॑ ।
यथा॑ मि॒त्राय॒ वरु॑णाय॒ शंत॑मः ॥३
पु॒नात॑ । द॒क्ष॒ऽसाध॑नम् । यथा॑ । शर्धा॑य । वी॒तये॑ ।
यथा॑ । मि॒त्राय॑ । वरु॑णाय । शम्ऽत॑मः ॥३
पुनात । दक्षऽसाधनम् । यथा । शर्धाय । वीतये ।
यथा । मित्राय । वरुणाय । शम्ऽतमः ॥३
“दक्षसाधनं बलस्य साधनं धनादिवृद्धेर्वा साधकं सोमं “पुनात पवित्रेण पुनीत ॥ ‘पूञ् पवने क्र्यादिः । तस्माल्लोटि ' तसनप्तनथनाश्च' इति तस्य तबादेशः । पित्त्वादीत्वाभावः । असौ सोमः “शर्धाय वेगार्थं “वीतये देवानां पानार्थं “यथा भवति “यथा वा “मित्राय “वरुणाय च “शंतमः अतिशयेन सुखं करोति तथा पुनीतेत्यर्थः ॥
अ॒स्मभ्यं॑ त्वा वसु॒विद॑म॒भि वाणी॑रनूषत ।
गोभि॑ष्टे॒ वर्ण॑म॒भि वा॑सयामसि ॥४
अ॒स्मभ्य॑म् । त्वा॒ । व॒सु॒ऽविद॑म् । अ॒भि । वाणीः॑ । अ॒नू॒ष॒त॒ ।
गोभिः॑ । ते॒ । वर्ण॑म् । अ॒भि । वा॒स॒या॒म॒सि॒ ॥४
अस्मभ्यम् । त्वा । वसुऽविदम् । अभि । वाणीः । अनूषत ।
गोभिः । ते । वर्णम् । अभि । वासयामसि ॥४
हे सोम “वसुविदं धनस्य दातारं “त्वा त्वाम् “अस्मभ्यं धनादिप्रदानार्थं “वाणीः अस्मदीया वाचः "अभि “अनूषत अभिष्टुवन्ति । 'नू स्तवने' । वयं “ते तव “वर्णम् आवरकं रसं “गोभिः गोविकारैः क्षीरादिभिः "अभि “वासयामसि अभिवासयामः । अभित आच्छादयामः ॥
स नो॑ मदानां पत॒ इंदो॑ दे॒वप्स॑रा असि ।
सखे॑व॒ सख्ये॑ गातु॒वित्त॑मो भव ॥५
सः । नः॒ । म॒दा॒ना॒म् । प॒ते॒ । इन्दो॒ इति॑ । दे॒वऽप्स॑राः । अ॒सि॒ ।
सखा॑ऽइव । सख्ये॑ । गा॒तु॒वित्ऽत॑मः । भ॒व॒ ॥५
सः । नः । मदानाम् । पते । इन्दो इति । देवऽप्सराः । असि ।
सखाऽइव । सख्ये । गातुवित्ऽतमः । भव ॥५
“नः अस्मदीयानां “मदानां मदकानां “पते स्वामिन हे “इन्दो सोम “सः त्वं “देवप्सरा “असि । प्सर इति रूपनाम । दीप्तरूपो भवसि । स त्वं “सखेव यथा सखा सुहृत् “सख्ये मित्राय सत्यं मार्गं ज्ञापयति तद्वदस्माकमपि “गातुवित्तमः अत्यन्तं मार्गस्य लम्भकः "भव ज्ञापको भव ॥
सने॑मि कृ॒ध्य१॒॑स्मदा र॒क्षसं॒ कं चि॑द॒त्रिणं॑ ।
अपादे॑वं द्व॒युमंहो॑ युयोधि नः ॥६
सने॑मि । कृ॒धि । अ॒स्मत् । आ । र॒क्षस॑म् । कम् । चि॒त् । अ॒त्रिण॑म् ।
अप॑ । अदे॑वम् । द्व॒युम् । अंहः॑ । यु॒यो॒धि॒ । नः॒ ॥६
सनेमि । कृधि । अस्मत् । आ । रक्षसम् । कम् । चित् । अत्रिणम् ।
अप । अदेवम् । द्वयुम् । अंहः । युयोधि । नः ॥६
हे सोम “अस्मत् अस्मासु “सनेमि । पुराणनामैतत् । पुराणं सख्यं “कृधि कुरु। “आ अपि च “अत्रिणम् अदनशीलं “कं “चित् “रक्षसम् “अप युध्यस्व । कीदृशम् । “अदेवम् अदेवनशीलं “द्वयुं द्वयवन्तं सत्यानृतयुक्तं बाह्याभ्यन्तरमायायुक्तं वा । किंच “नः अस्माकम् “अंहः पापं चाप “युयोधि संप्रहर । युध्यतेः ' बहुलं छन्दसि' इति शपः श्लुः । ' वा छन्दसि' इति हेर्ङित्त्वाभावाद्गुणः । धलोपश्छान्दसः । यौतेर्वा श्लौ पूर्ववद्रूपम् ॥ ॥ ७ ॥
मण्डल ९ | |||
---|---|---|---|