सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः ६/पौष्कलम्

विकिस्रोतः तः
पौष्कलम्

१८. पौष्कलम् ॥ प्रजापतिः। उष्णिक् । पवमानस्सोमः ।।
स꣢खा꣡꣯या꣢ऽ३आ꣤नि꣥ । षी꣢दा᳐꣣ऽ२३४ता꣥ ॥ पु꣢ना꣡ना꣢꣯या꣡। प्रा꣢गा᳐या꣣ऽ२३४ता꣥ ॥ शि꣢शू꣡”न्नया। ज्ञै꣪꣯ᳲपाऽ२᳐रा꣣ऽ२३४५इभूऽ६५६ ॥ ष꣢तश्रि꣡ये꣣ऽ२३꣡४꣡५꣡ ॥ श्रीः ॥ स꣢मी꣡꣯वा꣢ऽ३त्स꣤न्न꣥ । मा꣢᳐तॄ꣣ऽ२३४भा꣥इः ॥ सृ꣢जा꣡ता꣢꣯गा꣡। यासा꣢᳐धा꣣ऽ२३४ना꣥म् ॥ दे꣢꣯वा꣡”वियाम् ॥ म꣪दाऽ२᳐मा꣣ऽ२३४५भाऽ६५६इ ॥ द्वि꣢शव꣡सा꣣ऽ२३꣡४꣡५꣡म् ॥ श्रीः ॥ पु꣢ना꣡꣯ता꣢ऽ३द꣤क्ष꣥ । सा꣢धा᳐ ꣣ऽ२३४ना꣥म् ॥ य꣢था꣡श꣢र्द्धा꣡। यावी꣢᳐ता꣣ऽ२३४या꣥इ ॥ य꣢था꣡”मित्रा। य꣪वाऽ२᳐रू꣣ऽ२३४५णाऽ६५६ ॥ य꣢शन्त꣡मा꣣ऽ२३꣡४꣡५꣡म् ॥
दी. ७. उत् . १२. मा. ११. छ. ॥३४०॥



सखाय आ नि षीदत पुनानाय प्र गायत ।
शिशुं न यज्ञैः परि भूषत श्रिये ॥ ११५७ ॥ ऋ. ९.१०४.१
समी वत्सं न मातृभिः सृजता गयसाधनं ।
देवाव्या३ं मदमभि द्विशवसं ॥ ११५८ ॥
पुनाता दक्षसाधनं यथा शर्धाय वीतये ।
यथा मित्राय वरुणाय शन्तमं ॥ ११५९ ॥


१८. पौष्कलम् ॥ प्रजापतिः। उष्णिक् । पवमानस्सोमः ।।
सखायाऽ३आनि । षीदाऽ२३४ता ॥ पुनानाया। प्रागायाऽ२३४ता ॥ शिशू”न्नया। ज्ञैᳲपाऽ२राऽ२३४५इभूऽ६५६ ॥ षतश्रियेऽ२३४५ ॥ श्रीः ॥ समीवाऽ३त्सन्न । मातॄऽ२३४भाइः ॥ सृजातागा। यासाधाऽ२३४नाम् ॥ देवा”वियाम् ॥ मदाऽ२माऽ२३४५भाऽ६५६इ ॥ द्विशवसाऽ२३४५म् ॥ श्रीः ॥ पुनाताऽ३दक्ष । साधाऽ२३४नाम् ॥ यथाशर्द्धा। यावीताऽ२३४याइ ॥ यथा”मित्रा। यवाऽ२रूऽ२३४५णाऽ६५६ ॥ यशन्तमाऽ२३४५म् ॥ दी. ७. उत् . १२. मा. ११. छ. ॥३४०॥


[सम्पाद्यताम्]

टिप्पणी