ऋग्वेदः सूक्तं ९.१०३
← सूक्तं ९.१०२ | ऋग्वेदः - मण्डल ९ सूक्तं ९.१०३ द्वित आप्त्यः |
सूक्तं ९.१०४ → |
दे. पवमानः सोमः। उष्णिक् |
प्र पुनानाय वेधसे सोमाय वच उद्यतम् ।
भृतिं न भरा मतिभिर्जुजोषते ॥१॥
परि वाराण्यव्यया गोभिरञ्जानो अर्षति ।
त्री षधस्था पुनानः कृणुते हरिः ॥२॥
परि कोशं मधुश्चुतमव्यये वारे अर्षति ।
अभि वाणीरृषीणां सप्त नूषत ॥३॥
परि णेता मतीनां विश्वदेवो अदाभ्यः ।
सोमः पुनानश्चम्वोर्विशद्धरिः ॥४॥
परि दैवीरनु स्वधा इन्द्रेण याहि सरथम् ।
पुनानो वाघद्वाघद्भिरमर्त्यः ॥५॥
परि सप्तिर्न वाजयुर्देवो देवेभ्यः सुतः ।
व्यानशिः पवमानो वि धावति ॥६॥
सायणभाष्यम्
‘प्र पुनानाय' इति षडृचं सप्तमं सूक्तमाप्त्यस्य द्वितस्यार्षम्। पूर्ववच्छन्दोदेवते । तथा चानुक्रम्यते-‘प्र पुनानाय षड् द्वित आप्त्यः' इति । गतो विनियोगः ॥
प्र पु॑ना॒नाय॑ वे॒धसे॒ सोमा॑य॒ वच॒ उद्य॑तम् ।
भृ॒तिं न भ॑रा म॒तिभि॒र्जुजो॑षते ॥१
प्र । पु॒ना॒नाय॑ । वे॒धसे॑ । सोमा॑य । वचः॑ । उत्ऽय॑तम् ।
भृ॒तिम् । न । भ॒र॒ । म॒तिऽभिः॑ । जुजो॑षते ॥१
प्र । पुनानाय । वेधसे । सोमाय । वचः । उत्ऽयतम् ।।
भृतिम् । न । भर । मतिऽभिः । जुजोषते ॥ १ ॥
द्वितो नामर्षिः स्वात्मानं प्रत्याह। “पुनानाय पवित्रेण पूयमानाय "वेधसे कर्मणो विधात्रे “मतिभिः स्तुतिभिः “जुजोषते प्रीयमाणाय । यद्वा मतिभिः स्तोतृभिः सह जुजोषते प्रीणयित्रे । “सोमाय "उद्यतम् उद्युक्तं वचः “प्र “भर प्रकर्षेण संपादय । अभिष्टुहीत्यर्थः । तत्र दृष्टान्तः । "भृतिं “न । यथा भृतका भृतिं संपादयन्ति तद्वत् ॥
परि॒ वारा॑ण्य॒व्यया॒ गोभि॑रञ्जा॒नो अ॑र्षति ।
त्री ष॒धस्था॑ पुना॒नः कृ॑णुते॒ हरिः॑ ॥२
परि॑ । वारा॑णि । अ॒व्यया॑ । गोभिः॑ । अ॒ञ्जा॒नः । अ॒र्ष॒ति॒ ।
त्री । स॒धऽस्था॑ । पु॒ना॒नः । कृ॒णु॒ते॒ । हरिः॑ ॥२
परि । वाराणि । अव्यया । गोभिः । अञ्जानः । अर्षति ।।
त्री । सधऽस्था । पुनानः । कृणुते । हरिः ॥ २ ॥
“गोभिः गोविकारैः क्षीरादिभिः अञ्जानः अज्यमानः सोमः “अव्यया अविमयानि "वाराणि वालानि पवित्राणि "परि “अर्षति परिगच्छति । अपि च “हरिः हरितवर्णः सोमः पुनानः पूयमानः सन् “त्री त्रीणि सधस्था। सह तिष्ठन्यत्रेति सधस्थं स्थानम् । द्रोणकलशाधवनीयपूतभृदात्मकानि त्रीणि स्थानानि "कृणुते करोति ॥
परि॒ कोशं॑ मधु॒श्चुत॑म॒व्यये॒ वारे॑ अर्षति ।
अ॒भि वाणी॒रृषी॑णां स॒प्त नू॑षत ॥३
परि॑ । कोश॑म् । म॒धु॒ऽश्चुत॑म् । अ॒व्यये॑ । वारे॑ । अ॒र्ष॒ति॒ ।
अ॒भि । वाणीः॑ । ऋषी॑णाम् । स॒प्त । नू॒ष॒त॒ ॥३
परि । कोशम् । मधुऽश्चुतम् । अव्यये । वारे । अर्षति ।।
अभि । वाणीः । ऋषीणाम् । सप्त । नूषत ।। ३ ॥
स सोमः "अव्यये अविमये “वारे वाले पवित्रे “मधुश्चतं मधुररसस्य च्यावयितारं द्रोणकलशं प्रत्यात्मीयं रसं “परि “अर्षति गमयति । तमिमं सोमं “ऋषीणां “सप्त वाणीः छन्दांसि "अभि “नूषत अभिष्टुवन्ति । ‘नू स्तवने' । कुटादिः ॥
परि॑ णे॒ता म॑ती॒नां वि॒श्वदे॑वो॒ अदा॑भ्यः ।
सोमः॑ पुना॒नश्च॒म्वो॑र्विश॒द्धरिः॑ ॥४
परि॑ । ने॒ता । म॒ती॒नाम् । वि॒श्वऽदे॑वः । अदा॑भ्यः ।
सोमः॑ । पु॒ना॒नः । च॒म्वोः॑ । वि॒श॒त् । हरिः॑ ॥४
परि। नेता। मतीनाम् । विश्वऽदेवः । अदाभ्यः ।
सोमः । पुनानः । चम्वोः । विशत् । हरिः॥४॥
हरिः हरितवर्णः सः सोमः पुनानः पूयमानः सन् “चम्वोः अधिषवणफलकयोः परि “विशत् परिविशति । कीदृशः । "मतीनां स्तुतीनां नेता यद्वा मतीनां स्तोतॄणां स्वकर्मण्युपनेता “विश्वदेवः सर्वदेवः । सोमेऽभिषूयमाणे सतीन्द्रादयः सर्वे देवाः सोमं प्रत्यागच्छन्ति खलु । तस्मात् सर्वदेवोपेतः अत एव “अदाभ्यः अहिंसितः कैश्चिदपि ॥
परि॒ दैवी॒रनु॑ स्व॒धा इन्द्रे॑ण याहि स॒रथ॑म् ।
पु॒ना॒नो वा॒घद्वा॒घद्भि॒रम॑र्त्यः ॥५
परि॑ । दैवीः॑ । अनु॑ । स्व॒धाः । इन्द्रे॑ण । या॒हि॒ । स॒ऽरथ॑म् ।
पु॒ना॒नः । वा॒घत् । वा॒घत्ऽभिः॑ । अम॑र्त्यः ॥५
परि। दैवीः । अनु । स्वधाः । इन्द्रेण । याहि। सऽरथम् ।
पुनानः। वाघत्। वाघत्ऽभिः।अमर्त्यः॥५॥
हे सोम त्वम् इन्द्रेण सरथं समानं रथमारुह्य दैवीः देवानां संबन्धीनि स्वधाः बलानि “अनु देवसेनाः “परि “याहि परिगच्छ । कीदृशः। “पुनानः पूयमानः “वाघद्भिः । वाघत इति ऋत्विङ्नाम । हविषां प्रेरकैर्ऋत्विग्भिः "वाघत् ऊह्यमानः “अमर्त्यः मनुष्यधर्मरहितः । यद्वा। वाघद्भिर्ऋत्विग्भिः पुनानः पूयमानो वाघत् स्तोतॄणां यष्टॄणां धनादीनि प्रापयन् परिगच्छ ।
परि॒ सप्ति॒र्न वा॑ज॒युर्दे॒वो दे॒वेभ्यः॑ सु॒तः ।
व्या॒न॒शिः पव॑मानो॒ वि धा॑वति ॥६
परि॑ । सप्तिः॑ । न । वा॒ज॒ऽयुः । दे॒वः । दे॒वेभ्यः॑ । सु॒तः ।
वि॒ऽआ॒न॒शिः । पव॑मानः । वि । धा॒व॒ति॒ ॥६
परि । सप्तिः । न । वाजऽयुः । देवः । देवेभ्यः । सुतः ।
विऽआनशिः । पवमानः। वि। धावति॥६॥
“सप्तिर्न अश्व इव “वाजयुः युद्धमिच्छन् "देवः दीप्यमानः “देवेभ्यः देवार्थं "सुतः अभिषुतः “व्यानशिः पात्रेषु व्यापी “पवमानः पवित्रेण पूयमानः एतादृशः सोमः “परि “धावति परितः पात्राण्यभिगच्छति ॥ व्यानशिः। ‘अशू व्याप्तौ'। ‘आदृगमहन' इत्यत्र उत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्' इति किप्रत्ययः । अश्नोतेश्च' इति नुडागमः ॥ ॥ ६ ॥
टिप्पणी
मण्डल ९ | |||
---|---|---|---|