ऋग्वेदः सूक्तं ९.३०
← सूक्तं ९.२९ | ऋग्वेदः - मण्डल ९ सूक्तं ९.३० बिन्दुराङ्गिरसः |
सूक्तं ९.३१ → |
दे. पवमानः सोमः। गायत्री |
प्र धारा अस्य शुष्मिणो वृथा पवित्रे अक्षरन् ।
पुनानो वाचमिष्यति ॥१॥
इन्दुर्हियानः सोतृभिर्मृज्यमानः कनिक्रदत् ।
इयर्ति वग्नुमिन्द्रियम् ॥२॥
आ नः शुष्मं नृषाह्यं वीरवन्तं पुरुस्पृहम् ।
पवस्व सोम धारया ॥३॥
प्र सोमो अति धारया पवमानो असिष्यदत् ।
अभि द्रोणान्यासदम् ॥४॥
अप्सु त्वा मधुमत्तमं हरिं हिन्वन्त्यद्रिभिः ।
इन्दविन्द्राय पीतये ॥५॥
सुनोता मधुमत्तमं सोममिन्द्राय वज्रिणे ।
चारुं शर्धाय मत्सरम् ॥६॥
सायणभाष्यम्
‘ प्र धाराः' इति षडृचं षष्ठं सूक्तं बिन्दुनाम्न आङ्गिरसस्यार्षं गायत्रं पवमानसोमदेवताकम् । ‘ प्र धारा बिन्दुः' इत्यनुक्रमणिका । गतो विनियोगः ॥
प्र धारा॑ अस्य शु॒ष्मिणो॒ वृथा॑ प॒वित्रे॑ अक्षरन् ।
पु॒ना॒नो वाच॑मिष्यति ॥१
प्र । धाराः॑ । अ॒स्य॒ । शु॒ष्मिणः॑ । वृथा॑ । प॒वित्रे॑ । अ॒क्ष॒र॒न् ।
पु॒ना॒नः । वाच॑म् । इ॒ष्य॒ति॒ ॥१
प्र । धाराः । अस्य । शुष्मिणः । वृथा । पवित्रे । अक्षरन् ।
पुनानः । वाचम् । इष्यति ॥१
“शुष्मिणः बलवतः “अस्य सोमस्य “धाराः “पवित्रे दशापवित्रे “वृथा अप्रयत्नेन “अक्षरन् स्रवन्ति । तदानीं "पुनानः पूयमानः सोमः “वाचं स्तुतिं स्वीयं ध्वनिं वा “इष्यति प्रेरयति ।
इंदु॑र्हिया॒नः सो॒तृभि॑र्मृ॒ज्यमा॑नः॒ कनि॑क्रदत् ।
इय॑र्ति व॒ग्नुमिं॑द्रि॒यं ॥२
इन्दुः॑ । हि॒या॒नः । सो॒तृऽभिः॑ । मृ॒ज्यमा॑नः । कनि॑क्रदत् ।
इय॑र्ति । व॒ग्नुम् । इ॒न्द्रि॒यम् ॥२
इन्दुः । हियानः । सोतृऽभिः । मृज्यमानः । कनिक्रदत् ।
इयर्ति । वग्नुम् । इन्द्रियम् ॥२
अयम् “इन्दुः दीप्तः सोमः “हियानः प्रेर्यमाणः व्याप्रियमाणः । कैः । “सोतृभिः ऋत्विग्भिः । पश्चाद्दशापवित्रे "मृज्यमानः शोध्यमानः “कनिक्रदत् शब्दं कुर्वन् “इन्द्रियम् इन्द्रस्य संबन्धिनमिन्द्रियमपि ----- करं “वग्नुं शब्दम् “इयर्ति प्रेरयति ग्रहणसमये ॥
आ नः॒ शुष्मं॑ नृ॒षाह्यं॑ वी॒रवं॑तं पुरु॒स्पृहं॑ ।
पव॑स्व सोम॒ धार॑या ॥३
आ । नः॒ । शुष्म॑म् । नृ॒ऽसह्य॑म् । वी॒रऽव॑न्तम् । पु॒रु॒ऽस्पृह॑म् ।
पव॑स्व । सो॒म॒ । धार॑या ॥३
आ । नः । शुष्मम् । नृऽसह्यम् । वीरऽवन्तम् । पुरुऽस्पृहम् ।
पवस्व । सोम । धारया ॥३
हे “सोम त्वं “धारया “आ “पवस्व । किम्। “शुष्मं बलम् । कीदृशम् । “नृषाह्यं नृणामस्मद्विरोधिनामभिभावुकं “वीरवन्तं पुत्रोपेतं “पुरुस्पृहं बहुभिः स्पृहणीयं शुष्ममा पवस्व । एतस्य लाभाय पवस्वेत्यर्थः । रसस्रावे सति होमद्वारा तत्सिद्धे शुष्मं पवस्वेत्युपचर्यते ॥
प्र सोमो॒ अति॒ धार॑या॒ पव॑मानो असिष्यदत् ।
अ॒भि द्रोणा॑न्या॒सदं॑ ॥४
प्र । सोमः॑ । अति॑ । धार॑या । पव॑मानः । अ॒सि॒स्य॒द॒त् ।
अ॒भि । द्रोणा॑नि । आ॒ऽसद॑म् ॥४
प्र । सोमः । अति । धारया । पवमानः । असिस्यदत् ।
अभि । द्रोणानि । आऽसदम् ॥४
अयं “पवमानः “सोमः “धारया “अति अतिक्रम्य देशापवित्रं “प्र “असिष्यदत् प्रस्यन्दते । किमर्थम् । “द्रोणानि द्रोणकलशादीनि “आसदम् आसादनाय ॥
अ॒प्सु त्वा॒ मधु॑मत्तमं॒ हरिं॑ हिन्वं॒त्यद्रि॑भिः ।
इंद॒विंद्रा॑य पी॒तये॑ ॥५
अ॒प्ऽसु । त्वा॒ । मधु॑मत्ऽतमम् । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ।
इन्दो॒ इति॑ । इन्द्रा॑य । पी॒तये॑ ॥५
अप्ऽसु । त्वा । मधुमत्ऽतमम् । हरिम् । हिन्वन्ति । अद्रिऽभिः ।
इन्दो इति । इन्द्राय । पीतये ॥५
हे “इन्दो सोम “अप्सु वसतीवरीषूदकेषु “मधुमत्तमम् अतिशयेन मधुमन्तं “हरिं हरितवर्णं “त्वा त्वाम् “अद्रिभिः अभिषवग्रावभिः “हिन्वन्ति प्रेरयन्ति । किमर्थम् । “इन्द्राय इन्द्रस्य “पीतये पानाय ॥
सु॒नोता॒ मधु॑मत्तमं॒ सोम॒मिंद्रा॑य व॒ज्रिणे॑ ।
चारुं॒ शर्धा॑य मत्स॒रं ॥६
सु॒नोत॑ । मधु॑मत्ऽतमम् । सोम॑म् । इन्द्रा॑य । व॒ज्रिणे॑ ।
चारु॑म् । शर्धा॑य । म॒त्स॒रम् ॥६
सुनोत । मधुमत्ऽतमम् । सोमम् । इन्द्राय । वज्रिणे ।
चारुम् । शर्धाय । मत्सरम् ॥६
हे ऋत्विजः यूयं “मधुमत्तमं मधुररसोपेतं “सोममिन्द्राय “वज्रिणे वज्रयुक्ताय “सुनोत सुनुत । पुनः कीदृशम् । “चारुं चरणीयं “मत्सरं मदकरं "शर्धाय अस्माकं बलायेन्द्रस्य पानाथ च सोमं सुनुतेति बूते यजमानः स्वीयान् ॥ ॥ २० ॥
मण्डल ९ | |||
---|---|---|---|