ऋग्वेदः सूक्तं ९.२८
← सूक्तं ९.२७ | ऋग्वेदः - मण्डल ९ सूक्तं ९.२८ प्रियमेध आङ्गिरसः। |
सूक्तं ९.२९ → |
दे. पवमानः सोमः। गायत्री। |
एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः ।
अव्यो वारं वि धावति ॥१॥
एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः ।
विश्वा धामान्याविशन् ॥२॥
एष देवः शुभायतेऽधि योनावमर्त्यः ।
वृत्रहा देववीतमः ॥३॥
एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः ।
अभि द्रोणानि धावति ॥४॥
एष सूर्यमरोचयत्पवमानो विचर्षणिः ।
विश्वा धामानि विश्ववित् ॥५॥
एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति ।
देवावीरघशंसहा ॥६॥
सायणभाष्यम्
‘एष वाजी' इति षडृचं चतुर्थं सूक्तं प्रियमेधस्यार्षं गायत्रं सौम्यम्। 'एष वाजी प्रियमेधः । इत्यनुक्रान्तम् । गतो विनियोगः ॥
ए॒ष वा॒जी हि॒तो नृभि॑र्विश्व॒विन्मन॑स॒स्पतिः॑ ।
अव्यो॒ वारं॒ वि धा॑वति ॥१
ए॒षः । वा॒जी । हि॒तः । नृऽभिः॑ । वि॒श्व॒ऽवित् । मन॑सः । पतिः॑ ।
अव्यः॑ । वार॑म् । वि । धा॒व॒ति॒ ॥१
एषः । वाजी । हितः । नृऽभिः । विश्वऽवित् । मनसः । पतिः ।
अव्यः । वारम् । वि । धावति ॥१
“एषः सोमः “वाजी गमनशीलः “हितः अध्वर्युणा पात्रे निहितः "विश्ववित् सर्वज्ञः "मनसः स्तोत्रस्य “पतिः स्वामी । अथवा सोमस्य मनोभिमानित्वात् मनसः स्वामित्वं चन्द्रमा मनो भूत्वा हृदयं प्राविशत् ' ( ऐ. आ. २.४.२) इति श्रुतेः । तादृशोऽसौ “अव्यो “वारम् अवेर्वालं दशापवित्रं “वि “धावति विविधं गच्छति ॥
ए॒ष प॒वित्रे॑ अक्षर॒त्सोमो॑ दे॒वेभ्यः॑ सु॒तः ।
विश्वा॒ धामा॑न्यावि॒शन् ॥२
ए॒षः । प॒वित्रे॑ । अ॒क्ष॒र॒त् । सोमः॑ । दे॒वेभ्यः॑ । सु॒तः ।
विश्वा॑ । धामा॑नि । आ॒ऽवि॒शन् ॥२
एषः । पवित्रे । अक्षरत् । सोमः । देवेभ्यः । सुतः ।
विश्वा । धामानि । आऽविशन् ॥२
“एषः “सोमः "देवेभ्यः देवार्थं "सुतः अभिषुतः सन् "पवित्रे “अक्षरत् स्रवति । “विश्वा सर्वाणि “धामानि देवशरीराणि "आविशन् प्रविशन् । प्रवेष्टुमित्यर्थः ।।
ए॒ष दे॒वः शु॑भाय॒तेऽधि॒ योना॒वम॑र्त्यः ।
वृ॒त्र॒हा दे॑व॒वीत॑मः ॥३
ए॒षः । दे॒वः । शु॒भा॒य॒ते॒ । अधि॑ । योनौ॑ । अम॑र्त्यः ।
वृ॒त्र॒ऽहा । दे॒व॒ऽवीत॑मः ॥३
एषः । देवः । शुभायते । अधि । योनौ । अमर्त्यः ।
वृत्रऽहा । देवऽवीतमः ॥३
“एषः सोमः “देवः “शुभायते शोभते । कुन्न । “अधि “योनौ स्वीये स्थाने । कीदृश एषः । “अमर्त्यः अमरणधर्मा “वृत्रहा शत्रुहन्ता "देववीतमः अतिशयेन देवानां कामयिता ॥
ए॒ष वृषा॒ कनि॑क्रदद्द॒शभि॑र्जा॒मिभि॑र्य॒तः ।
अ॒भि द्रोणा॑नि धावति ॥४
ए॒षः । वृषा॑ । कनि॑क्रदत् । द॒शऽभिः॑ । जा॒मिऽभिः॑ । य॒तः ।
अ॒भि । द्रोणा॑नि । धा॒व॒ति॒ ॥४
एषः । वृषा । कनिक्रदत् । दशऽभिः । जामिऽभिः । यतः ।
अभि । द्रोणानि । धावति ॥४
“एष “वृषा वर्षिता कामानां “कनिक्रदत् शब्दं कुर्वन् "दशभिर्जामिभिः अङ्गुलीभिः “यतः धृतः “द्रोणानि द्रुममयाणि पात्राणि “अभि “धावति अभिगच्छति ॥
ए॒ष सूर्य॑मरोचय॒त्पव॑मानो॒ विच॑र्षणिः ।
विश्वा॒ धामा॑नि विश्व॒वित् ॥५
ए॒षः । सूर्य॑म् । अ॒रो॒च॒य॒त् । पव॑मानः । विऽच॑र्षणिः ।
विश्वा॑ । धामा॑नि । वि॒श्व॒ऽवित् ॥५
एषः । सूर्यम् । अरोचयत् । पवमानः । विऽचर्षणिः ।
विश्वा । धामानि । विश्वऽवित् ॥५
“एषः सोमः “सूर्यमरोचयत् रोचयति स्वरसेन । "पवमानः पूयमानः “विचर्षणिः सर्वस्य द्रष्टा “विश्ववित् सर्ववित् । न केवलं सूर्यं किंतु "विश्वा सर्वाणि “धामानि तेजःस्थानानि रोचयति ॥
ए॒ष शु॒ष्म्यदा॑भ्यः॒ सोमः॑ पुना॒नो अ॑र्षति ।
दे॒वा॒वीर॑घशंस॒हा ॥६
ए॒षः । शु॒ष्मी । अदा॑भ्यः । सोमः॑ । पु॒ना॒नः । अ॒र्ष॒ति॒ ।
दे॒व॒ऽअ॒वीः । अ॒घ॒शं॒स॒ऽहा ॥६
एषः । शुष्मी । अदाभ्यः । सोमः । पुनानः । अर्षति ।
देवऽअवीः । अघशंसऽहा ॥६
“एषः “सोमः “शुष्मी बलवान् “अदाभ्यः अदम्भनीयः “पुनानः पूयमानः “अर्षति गच्छति । “देवावीः देवानामविता “अघशंसहा । अघान् शंसन्तीत्यघशंसाः । तेषां हन्ता ॥ ॥ १८ ॥
मण्डल ९ | |||
---|---|---|---|