ऋग्वेदः सूक्तं ९.२०

विकिस्रोतः तः
← सूक्तं ९.१९ ऋग्वेदः - मण्डल ९
सूक्तं ९.२०
कश्यपोऽसितो देवलो वा।
सूक्तं ९.२१ →
दे. पवमानः सोमः। गायत्री।


प्र कविर्देववीतयेऽव्यो वारेभिरर्षति ।
साह्वान्विश्वा अभि स्पृधः ॥१॥
स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति ।
पवमानः सहस्रिणम् ॥२॥
परि विश्वानि चेतसा मृशसे पवसे मती ।
स नः सोम श्रवो विदः ॥३॥
अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिम् ।
इषं स्तोतृभ्य आ भर ॥४॥
त्वं राजेव सुव्रतो गिरः सोमा विवेशिथ ।
पुनानो वह्ने अद्भुत ॥५॥
स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः ।
सोमश्चमूषु सीदति ॥६॥
क्रीळुर्मखो न मंहयुः पवित्रं सोम गच्छसि ।
दधत्स्तोत्रे सुवीर्यम् ॥७॥


सायणभाष्यम्

‘प्र कविः' इति सप्तर्चं विंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘प्र कविः' इत्यनुक्रान्तम् । गतो विनियोगः ॥


प्र क॒विर्दे॒ववी॑त॒येऽव्यो॒ वारे॑भिरर्षति ।

सा॒ह्वान्विश्वा॑ अ॒भि स्पृधः॑ ॥१

प्र । क॒विः । दे॒वऽवी॑तये । अव्यः॑ । वारे॑भिः । अ॒र्ष॒ति॒ ।

स॒ह्वान् । विश्वाः॑ । अ॒भि । स्पृधः॑ ॥१

प्र । कविः । देवऽवीतये । अव्यः । वारेभिः । अर्षति ।

सह्वान् । विश्वाः । अभि । स्पृधः ॥१

“कविः मेधावी सोमः "देववीतये देवानां पानाय “अव्यः अवेः “वारेभिः वारैः दशापवित्रेण “प्र “अर्षति प्रकर्षेण गच्छति । “साह्वान् शत्रूणां सोढा सोमः “विश्वाः “स्पृधः सर्वान् संग्रामान हिंसकान् वा “अभि भवतीति शेषः ॥


स हि ष्मा॑ जरि॒तृभ्य॒ आ वाजं॒ गोमं॑त॒मिन्व॑ति ।

पव॑मानः सह॒स्रिणं॑ ॥२

सः । हि । स्म॒ । ज॒रि॒तृऽभ्यः॑ । आ । वाज॑म् । गोऽम॑न्तम् । इन्व॑ति ।

पव॑मानः । स॒ह॒स्रिण॑म् ॥२

सः । हि । स्म । जरितृऽभ्यः । आ । वाजम् । गोऽमन्तम् । इन्वति ।

पवमानः । सहस्रिणम् ॥२

“स “हि “ष्म स खलु “पवमानः सोमः "जरितृभ्यः स्तोतृभ्यः “गोमन्तं बहुभिगोंभिर्युक्तं “सहस्रिणं सहस्रसंख्याकं “वाजम् अन्नम् “आ अभिमुखम् “इन्वति व्याप्नोति । प्रयच्छतीत्यर्थः ॥


परि॒ विश्वा॑नि॒ चेत॑सा मृ॒शसे॒ पव॑से म॒ती ।

स नः॑ सोम॒ श्रवो॑ विदः ॥३

परि॑ । विश्वा॑नि । चेत॑सा । मृ॒शसे॑ । पव॑से । म॒ती ।

सः । नः॒ । सो॒म॒ । श्रवः॑ । वि॒दः॒ ॥३

परि । विश्वानि । चेतसा । मृशसे । पवसे । मती ।

सः । नः । सोम । श्रवः । विदः ॥३

हे सोम त्वं “चेतसा स्वीयेनास्मदनुकूलेन चित्तेन “विश्वानि सर्वाणि धनानि “परि “मृशसे । प्रयच्छसीत्यर्थः । “मती मत्यास्मत्स्तुत्या "पवसे क्षरसि रसम्। “सः त्वं हे “सोम “नः अस्मभ्यं “श्रवः अन्नं “विदः देहि ॥


अ॒भ्य॑र्ष बृ॒हद्यशो॑ म॒घव॑द्भ्यो ध्रु॒वं र॒यिं ।

इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥४

अ॒भि । अ॒र्ष॒ । बृ॒हत् । यशः॑ । म॒घव॑त्ऽभ्यः । ध्रु॒वम् । र॒यिम् ।

इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥४

अभि । अर्ष । बृहत् । यशः । मघवत्ऽभ्यः । ध्रुवम् । रयिम् ।

इषम् । स्तोतृऽभ्यः । आ । भर ॥४

हे सोम "बृहद्यशः महतीं कीर्तिम् “अभ्यर्ष अभिगमय । "मघवद्भ्यः हविष्मद्भ्यः अस्मभ्यं "ध्रुवं “रयिं धनं चाभ्यर्ष । किंच “इषम् अन्नं “स्तोतृभ्यः अस्मभ्यम् “आ “भर आहर ॥


त्वं राजे॑व सुव्र॒तो गिरः॑ सो॒मा वि॑वेशिथ ।

पु॒ना॒नो व॑ह्ने अद्भुत ॥५

त्वम् । राजा॑ऽइव । सु॒ऽव्र॒तः । गिरः॑ । सो॒म॒ । आ । वि॒वे॒शि॒थ॒ ।

पु॒ना॒नः । व॒ह्ने॒ । अ॒द्भु॒त॒ ॥५

त्वम् । राजाऽइव । सुऽव्रतः । गिरः । सोम । आ । विवेशिथ ।

पुनानः । वह्ने । अद्भुत ॥५

हे "सोम "सुव्रतः सुकर्मा “पुनानः “त्वं “राजेव “गिरः अस्मदीयाः स्तुतीः "आ "विवेशिथ आविशसि । हे "वह्ने वोढः “अद्भुत महन् सोम ॥


स वह्नि॑र॒प्सु दु॒ष्टरो॑ मृ॒ज्यमा॑नो॒ गभ॑स्त्योः ।

सोम॑श्च॒मूषु॑ सीदति ॥६

सः । वह्निः॑ । अ॒प्ऽसु । दु॒स्तरः॑ । मृ॒ज्यमा॑नः । गभ॑स्त्योः ।

सोमः॑ । च॒मूषु॑ । सी॒द॒ति॒ ॥६

सः । वह्निः । अप्ऽसु । दुस्तरः । मृज्यमानः । गभस्त्योः ।

सोमः । चमूषु । सीदति ॥६

“सः “सोमः "वह्निः वोढा यज्ञादेः “अप्सु अन्तरिक्षे वर्तमानः “दुष्टरः दुःखेनान्यैस्तरणीयः "मृज्यमानः शोध्यमानः “गभस्त्योः हस्तयोरेवंभूतः सन् सः "चमूषु पात्रेषु “सीदति ॥


क्री॒ळुर्म॒खो न मं॑ह॒युः प॒वित्रं॑ सोम गच्छसि ।

दध॑त्स्तो॒त्रे सु॒वीर्यं॑ ॥७

क्री॒ळुः । म॒खः । न । मं॒ह॒युः । प॒वित्र॑म् । सो॒म॒ । ग॒च्छ॒सि॒ ।

दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥७

क्रीळुः । मखः । न । मंहयुः । पवित्रम् । सोम । गच्छसि ।

दधत् । स्तोत्रे । सुऽवीर्यम् ॥७

हे “सोम “क्रीळुः क्रीडनशीलस्त्वं “मंहयुः । मंहतिर्दानकर्मा । दानेच्छुः “मखो “न दानमिव “पवित्रं “गच्छसि । किं कुर्वन् । “स्तोत्रे स्तुतिकर्त्रे “सुवीर्यं शोभनवीर्यं “दधत् प्रयच्छन् ॥ ॥१०॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.२०&oldid=208522" इत्यस्माद् प्रतिप्राप्तम्