ऋग्वेदः सूक्तं ९.१४
← सूक्तं ९.१३ | ऋग्वेदः - मण्डल ९ सूक्तं ९.१४ कश्यपोऽसितो देवलो वा। |
सूक्तं ९.१५ → |
दे. पवमानः सोमः। गायत्री। |
परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः ।
कारं बिभ्रत्पुरुस्पृहम् ॥१॥
गिरा यदी सबन्धवः पञ्च व्राता अपस्यवः ।
परिष्कृण्वन्ति धर्णसिम् ॥२॥
आदस्य शुष्मिणो रसे विश्वे देवा अमत्सत ।
यदी गोभिर्वसायते ॥३॥
निरिणानो वि धावति जहच्छर्याणि तान्वा ।
अत्रा सं जिघ्नते युजा ॥४॥
नप्तीभिर्यो विवस्वतः शुभ्रो न मामृजे युवा ।
गाः कृण्वानो न निर्णिजम् ॥५॥
अति श्रिती तिरश्चता गव्या जिगात्यण्व्या ।
वग्नुमियर्ति यं विदे ॥६॥
अभि क्षिपः समग्मत मर्जयन्तीरिषस्पतिम् ।
पृष्ठा गृभ्णत वाजिनः ॥७॥
परि दिव्यानि मर्मृशद्विश्वानि सोम पार्थिवा ।
वसूनि याह्यस्मयुः ॥८॥
सायणभाष्यम्
‘परि प्र' इत्यष्टर्चं चतुर्दशं सूक्तम् । ऋष्यादि पूर्ववत् । “परि प्राष्टौ' इत्यनुक्रान्तम् । गतो विनियोगः ॥
परि॒ प्रासि॑ष्यदत्क॒विः सिंधो॑रू॒र्मावधि॑ श्रि॒तः ।
का॒रं बिभ्र॑त्पुरु॒स्पृहं॑ ॥१
परि॑ । प्र । अ॒सि॒स्य॒द॒त् । क॒विः । सिन्धोः॑ । ऊ॒र्मौ । अधि॑ । श्रि॒तः ।
का॒रम् । बिभ्र॑त् । पु॒रु॒ऽस्पृह॑म् ॥१
परि । प्र । असिस्यदत् । कविः । सिन्धोः । ऊर्मौ । अधि । श्रितः ।
कारम् । बिभ्रत् । पुरुऽस्पृहम् ॥१
“परि “प्रासिष्यदत् परिप्रस्यन्दते “कविः मेधावी सोमः “सिन्धोरूर्मौ तरङ्गे वस्तीवर्युदकरसे “अधि “श्रितः आश्रितः । “पुरुस्पृहं बहुभिः स्पृहणीयं “कारं शब्दं “बिभ्रत् धारयन् परिस्यन्दत इति संबन्धः ॥
गि॒रा यदी॒ सबं॑धवः॒ पंच॒ व्राता॑ अप॒स्यवः॑ ।
प॒रि॒ष्कृ॒ण्वंति॑ धर्ण॒सिं ॥२
गि॒रा । यदि॑ । सऽब॑न्धवः । पञ्च॑ । व्राताः॑ । अ॒प॒स्यवः॑ ।
प॒रि॒ऽकृ॒ण्वन्ति॑ । ध॒र्ण॒सिम् ॥२
गिरा । यदि । सऽबन्धवः । पञ्च । व्राताः । अपस्यवः ।
परिऽकृण्वन्ति । धर्णसिम् ॥२
“सबन्धवः समानबन्धनाः “पञ्च “व्राताः पञ्च जना मनुष्या यजमानाः “अपस्यवः कर्मेच्छवः यद्यदा ईमेनं “धर्णसिं धारकं सोमं “गिरा स्तुत्या “परिष्कृण्वन्ति अलंकुर्वन्ति । अस्योत्तरत्रान्वयः ॥
आद॑स्य शु॒ष्मिणो॒ रसे॒ विश्वे॑ दे॒वा अ॑मत्सत ।
यदी॒ गोभि॑र्वसा॒यते॑ ॥३
आत् । अ॒स्य॒ । शु॒ष्मिणः॑ । रसे॑ । विश्वे॑ । दे॒वाः । अ॒म॒त्स॒त॒ ।
यदि॑ । गोभिः॑ । व॒सा॒यते॑ ॥३
आत् । अस्य । शुष्मिणः । रसे । विश्वे । देवाः । अमत्सत ।
यदि । गोभिः । वसायते ॥३
“आत् परिष्करणानन्तरमेव “शुष्मिणः बलवतः “अस्य सोमस्य “रसे “विश्वे “देवाः “अमत्सत अमाद्यन्त। “यदि यदा “गोभिः गोविकारैः । विकारे प्रकृतिशब्दः । क्षीरादिभिः । “वसायते आच्छाद्यते ॥
नि॒रि॒णा॒नो वि धा॑वति॒ जह॒च्छर्या॑णि॒ तान्वा॑ ।
अत्रा॒ सं जि॑घ्नते यु॒जा ॥४
नि॒ऽरि॒णा॒नः । वि । धा॒व॒ति॒ । जह॑त् । शर्या॑णि । तान्वा॑ ।
अत्र॑ । सम् । जि॒घ्न॒ते॒ । यु॒जा ॥४
निऽरिणानः । वि । धावति । जहत् । शर्याणि । तान्वा ।
अत्र । सम् । जिघ्नते । युजा ॥४
अयं सोमः “निरिणानः दशापवित्रादधो गच्छन् “वि “धावति विविधं धावति - - - - यदा “तान्वा । तनु देशापवित्रवस्त्रम् । तत्संबन्धीनि “शर्याणि द्वाराणि “जहत् अधः सरति । “अत्र अस्मिन् यज्ञे “युजा सखिभूतेनेन्द्रेण सह "सं “जिघ्नते संगतो भवति । वस्त्रसुषिराद्विनिर्गत्य दशापवित्रादधः सत् पात्रं विविधं गच्छन् होमद्वारेणेन्द्रेण संगतो भवतीत्यर्थः ।।
न॒प्तीभि॒र्यो वि॒वस्व॑तः शु॒भ्रो न मा॑मृ॒जे युवा॑ ।
गाः कृ॑ण्वा॒नो न नि॒र्णिजं॑ ॥५
न॒प्तीभिः॑ । यः । वि॒वस्व॑तः । शु॒भ्रः । न । म॒मृ॒जे । युवा॑ ।
गाः । कृ॒ण्वा॒नः । न । निः॒ऽनिज॑म् ॥५
नप्तीभिः । यः । विवस्वतः । शुभ्रः । न । ममृजे । युवा ।
गाः । कृण्वानः । न । निःऽनिजम् ॥५
“यः सोमः "विवस्वतः परिचरणवतो यजमानस्य “नप्तीभिः पौत्रस्थानीयाभिः । तस्य हस्तः पुत्रोऽङ्गुलयः पौत्रस्थानीया इत्यभिप्रायः। मामृजे मृज्यते “शुभ्रो “न दीप्तोऽश्व: "युवा इव । यथाप्रवृद्धोऽश्वो मृज्यते स्वपरिचारकैस्तद्वत् स एव युवा मिश्रणशीलः सोमः “निर्णिजम्। निर्णिक्' इति रूपनाम । स्वकीयं रूपं “गाः “न “कृण्वानः गोविकारांश्च कुर्वाणो भवतीति शेषः ॥ ॥ ३ ॥
अति॑ श्रि॒ती ति॑र॒श्चता॑ ग॒व्या जि॑गा॒त्यण्व्या॑ ।
व॒ग्नुमि॑यर्ति॒ यं वि॒दे ॥६
अति॑ । श्रि॒ती । ति॒र॒श्चता॑ । ग॒व्या । जि॒गा॒ति॒ । अण्व्या॑ ।
व॒ग्नुम् । इ॒य॒र्ति॒ । यम् । वि॒दे ॥६
अति । श्रिती । तिरश्चता । गव्या । जिगाति । अण्व्या ।
वग्नुम् । इयर्ति । यम् । विदे ॥६
“अण्व्या अङ्गुल्याभिषूयमाणः सोमः “गव्या गव्यानि “श्रिती श्रित्यै श्रयणार्थं “तिरश्चता तिरश्चीनम् “अति “जिगाति । अंशुमतिक्रम्य गच्छति । तथाङ्गुल्याभिषूयमाणः “वग्नुं शब्दम् इयर्ति प्रेरयति ॥
अ॒भि क्षिपः॒ सम॑ग्मत म॒र्जयं॑तीरि॒षस्पतिं॑ ।
पृ॒ष्ठा गृ॑भ्णत वा॒जिनः॑ ॥७
अ॒भि । क्षिपः॑ । सम् । अ॒ग्म॒त॒ । म॒र्जय॑न्तीः । इ॒षः । पति॑म् ।
पृ॒ष्ठा । गृ॒भ्ण॒त॒ । वा॒जिनः॑ ॥७
अभि । क्षिपः । सम् । अग्मत । मर्जयन्तीः । इषः । पतिम् ।
पृष्ठा । गृभ्णत । वाजिनः ॥७
“क्षिपः अङ्गुलयः “मर्जयन्तीः अभिमृशन्त्यः “इषस्पतिम् अन्नानां स्वामिनं सोमम् “अभि “समग्मत अभिसंगच्छन्ते । संगत्य च “वाजिनः बलवतः सोमस्य “पृष्ठा पृष्ठानि “गृभ्णत गृह्णन्त्यभिषवाङगुलयः ॥
परि॑ दि॒व्यानि॒ मर्मृ॑श॒द्विश्वा॑नि सोम॒ पार्थि॑वा ।
वसू॑नि याह्यस्म॒युः ॥८
परि॑ । दि॒व्यानि॑ । मर्मृ॑शत् । विश्वा॑नि । सो॒म॒ । पार्थि॑वा ।
वसू॑नि । या॒हि॒ । अ॒स्म॒ऽयुः ॥८
परि । दिव्यानि । मर्मृशत् । विश्वानि । सोम । पार्थिवा ।
वसूनि । याहि । अस्मऽयुः ॥८
हे “सोम “दिव्यानि पार्थिवानि च “विश्वानि सर्वाणि “वसूनि धनानि “परि “मर्मृशत् परिमृशन् परिगृह्णन् “अस्मयुः अस्मान् कामयमानः “याहि आगच्छ। एवमभिषुण्वन् रसं संबोध्य ब्रूते ॥ ॥ ४ ॥
मण्डल ९ | |||
---|---|---|---|