ऋग्वेदः सूक्तं ९.१५
← सूक्तं ९.१४ | ऋग्वेदः - मण्डल ९ सूक्तं ९.१५ कश्यपोऽसितो देवलो वा। |
सूक्तं ९.१६ → |
दे. पवमानः सोमः। गायत्री। |
एष धिया यात्यण्व्या शूरो रथेभिराशुभिः ।
गच्छन्निन्द्रस्य निष्कृतम् ॥१॥
एष पुरू धियायते बृहते देवतातये ।
यत्रामृतास आसते ॥२॥
एष हितो वि नीयतेऽन्तः शुभ्रावता पथा ।
यदी तुञ्जन्ति भूर्णयः ॥३॥
एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो वृषा ।
नृम्णा दधान ओजसा ॥४॥
एष रुक्मिभिरीयते वाजी शुभ्रेभिरंशुभिः ।
पतिः सिन्धूनां भवन् ॥५॥
एष वसूनि पिब्दना परुषा ययिवाँ अति ।
अव शादेषु गच्छति ॥६॥
एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः ।
प्रचक्राणं महीरिषः ॥७॥
एतमु त्यं दश क्षिपो मृजन्ति सप्त धीतयः ।
स्वायुधं मदिन्तमम् ॥८॥
सायणभाष्यम्
‘एष धिया' इत्यष्टर्चं पञ्चदशं सूक्तम् । ऋष्याद्याः पूर्ववत् । एष धिया' इत्यनुक्रान्तम् । गतो विनियोगः ॥
ए॒ष धि॒या या॒त्यण्व्या॒ शूरो॒ रथे॑भिरा॒शुभिः॑ ।
गच्छ॒न्निंद्र॑स्य निष्कृ॒तं ॥१
ए॒षः । धि॒या । या॒ति॒ । अण्व्या॑ । शूरः॑ । रथे॑भिः । आ॒शुऽभिः॑ ।
गच्छ॑न् । इन्द्र॑स्य । निः॒ऽकृ॒तम् ॥१
एषः । धिया । याति । अण्व्या । शूरः । रथेभिः । आशुऽभिः ।
गच्छन् । इन्द्रस्य । निःऽकृतम् ॥१
“एषः सोमः “शूरः विक्रान्तः हे “सोम “दिव्यानि पार्थिवानि च “विश्वानि सर्वाणि “वसूनि धनानि “परि “मर्मृशत् परिमृशन् परिगृह्णन् “अस्मयुः अस्मान् कामयमानः “याहि आगच्छ। एवमभिषुण्वन् रसं संबोध्य ब्रूते ॥ ॥ ४ ॥
अण्व्या अङ्गुल्याभिषुतः “धिया कर्मणा “याति गच्छति । कं देशं प्रति । उच्यते । “इन्द्रस्य “निष्कृतं स्थानं दिवं प्रति “रथेभिः रथैः "आशुभिः शीघ्रगामिभिः “गच्छन् इन्द्रेण रथेऽवस्थाप्य स्वस्थाननयनाय । अङ्गुल्याभिषूयमाणः सन् होमद्वाराग्निं निष्पीडनद्वारा पात्रं वा गच्छतीत्यर्थः ॥
ए॒ष पु॒रू धि॑यायते बृह॒ते दे॒वता॑तये ।
यत्रा॒मृता॑स॒ आस॑ते ॥२
ए॒षः । पु॒रु । धि॒या॒ऽय॒ते॒ । बृ॒ह॒ते । दे॒वऽता॑तये ।
यत्र॑ । अ॒मृता॑सः । आस॑ते ॥२
एषः । पुरु । धियाऽयते । बृहते । देवऽतातये ।
यत्र । अमृतासः । आसते ॥२
“एषः सोमः “पुरु बहुलं “धियायते धियं कर्मेच्छति । धीशब्दाद्यकारोपजनः । यद्वा । द्वितीयार्थे तृतीया छान्दसश्चालुक् । कस्मै । “बृहते महते “देवतातये यज्ञाय। “यत्र यस्मिन् यज्ञे “अमृतासः अमृता देवाः “आसते वसन्ति तदर्थम् ॥
ए॒ष हि॒तो वि नी॑यते॒ऽंतः शु॒भ्राव॑ता प॒था ।
यदी॑ तुं॒जंति॒ भूर्ण॑यः ॥३
ए॒षः । हि॒तः । वि । नी॒य॒ते॒ । अ॒न्तरिति॑ । शु॒भ्रऽव॑ता । प॒था ।
यदि॑ । तु॒ञ्जन्ति॑ । भूर्ण॑यः ॥३
एषः । हितः । वि । नीयते । अन्तरिति । शुभ्रऽवता । पथा ।
यदि । तुञ्जन्ति । भूर्णयः ॥३
“एषः सोमः “हितः निहितः हविर्धाने “वि “नीयते तस्मात् स्थानादाहवनीयं प्रति । “अन्तः तयोर्मध्यदेशे “शुभ्रावता शोभावता “पथा मार्गेण "यदि यदा “तुञ्जन्ति प्रयच्छन्ति देवेभ्यः “भूर्णयः भरणशीला अध्वर्वाप दयः। तदा वि नीयत इति समन्वयः ॥
ए॒ष शृंगा॑णि॒ दोधु॑व॒च्छिशी॑ते यू॒थ्यो॒३॒॑ वृषा॑ ।
नृ॒म्णा दधा॑न॒ ओज॑सा ॥४
ए॒षः । शृङ्गा॑णि । दोधु॑वत् । शिशी॑ते । यू॒थ्यः॑ । वृषा॑ ।
नृ॒म्णा । दधा॑नः । ओज॑सा ॥४
एषः । शृङ्गाणि । दोधुवत् । शिशीते । यूथ्यः । वृषा ।
नृम्णा । दधानः । ओजसा ॥४
“एषः सोमः “शृङ्गाणि शृङ्गवदुन्नतानंशूनभिषवकाले “दोधुवत् धूनोति। “यूथ्यः यूथार्हो यूथपतिः “वृषा वृषभो यथा “शिशीते तीक्ष्णे शृङ्गे धूनोति तद्वत् । कीदृश एषः। “ओजसा बलेन “नृम्णा नृम्णानि धनानि “दधानः अस्मदर्थं धारयन् ॥
ए॒ष रु॒क्मिभि॑रीयते वा॒जी शु॒भ्रेभि॑रं॒शुभिः॑ ।
पतिः॒ सिंधू॑नां॒ भव॑न् ॥५
ए॒षः । रु॒क्मिऽभिः॑ । ई॒य॒ते॒ । वा॒जी । शु॒भ्रेभिः॑ । अं॒शुऽभिः॑ ।
पतिः॑ । सिन्धू॑नाम् । भव॑न् ॥५
एषः । रुक्मिऽभिः । ईयते । वाजी । शुभ्रेभिः । अंशुऽभिः ।
पतिः । सिन्धूनाम् । भवन् ॥५
“एषः सोमः “रुक्मिभिः अध्वर्वाम्दिभिः सह “ईयते गच्छति। कीदृश एषः । “वाजी वेजनवान् “शुभ्रेभिः शुभ्रैर्दीप्तैः "अंशुभिः विशिष्टः । अथवा रुक्मिभिरित्येतदप्यंशुविशेषणम् । “सिन्धूनां स्यन्दमानानां रसानां “पतिः “भवन् य ईयत इति ।।
ए॒ष वसू॑नि पिब्द॒ना परु॑षा ययि॒वाँ अति॑ ।
अव॒ शादे॑षु गच्छति ॥६
ए॒षः । वसू॑नि । पि॒ब्द॒ना । परु॑षा । य॒यि॒ऽवान् । अति॑ ।
अव॑ । शादे॑षु । ग॒च्छ॒ति॒ ॥६
एषः । वसूनि । पिब्दना । परुषा । ययिऽवान् । अति ।
अव । शादेषु । गच्छति ॥६
“एषः सोमः “वसूनि आच्छादकानि “पिब्दना पिब्दनानि पीडितानि रक्षांसि “परुषा पर्वणा “अति अतिक्रम्य "ययिवान् गच्छन् "शादेषु शातनीयेषु रक्षःसु “अव “गच्छति ॥
ए॒तं मृ॑जंति॒ मर्ज्य॒मुप॒ द्रोणे॑ष्वा॒यवः॑ ।
प्र॒च॒क्रा॒णं म॒हीरिषः॑ ॥७
ए॒तम् । मृ॒ज॒न्ति॒ । मर्ज्य॑म् । उप॑ । द्रोणे॑षु । आ॒यवः॑ ।
प्र॒ऽच॒क्रा॒णम् । म॒हीः । इषः॑ ॥७
एतम् । मृजन्ति । मर्ज्यम् । उप । द्रोणेषु । आयवः ।
प्रऽचक्राणम् । महीः । इषः ॥७
“आयवः मनुष्या ऋत्विजः “एतं सोमं “मर्ज्यं मार्जनीयम् “उप "मृजन्ति । निष्पीडयन्तीत्यर्थः । कुत्र । “द्रोणेषु द्रोणकलशेषु । कीदृशम् । “महीरिषः महान्त्यन्नानि “प्रचक्राणं कुर्वाणम् । प्रभूतरसस्राविणमित्यर्थः ॥
ग्रावस्तोत्रे गाणगारिमतेनाभिरूपकरणे सृज्यमाने सोमे ' एतमु त्यम्' इत्येषा । सूत्रितं च-- ’ एतमु त्यं दश क्षिपो मृज्यमानः सुहस्त्या' (आश्व. श्रौ. ५. १२) इति ।।
ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जंति॑ स॒प्त धी॒तयः॑ ।
स्वा॒यु॒धं म॒दिंत॑मं ॥८
ए॒तम् । ऊं॒ इति॑ । त्यम् । दश॑ । क्षिपः॑ । मृ॒जन्ति॑ । स॒प्त । धी॒तयः॑ ।
सु॒ऽआ॒यु॒धम् । म॒दिन्ऽत॑मम् ॥८
एतम् । ऊं इति । त्यम् । दश । क्षिपः । मृजन्ति । सप्त । धीतयः ।
सुऽआयुधम् । मदिन्ऽतमम् ॥८
“त्यं तम् “एतमु एतमेव सोमं “दश “क्षिपः दशाङ्गुलयः “मृजन्ति परिचरन्ति । “सप्त “धीतयः सप्त ऋत्विजश्च । ऋत्विजोऽङ्गुलिभिर्मृजन्तीत्यर्थः कीदृशमेतम् । “स्वायुधं शोभनायुधं “मदिन्तमं मादयितृतमम्। रक्षोहननसामर्थ्यप्रदर्शनाय स्वायुधशब्दश्रवणम् ॥ ॥ ५ ॥
टिप्पणी
मण्डल ९ | |||
---|---|---|---|